________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न्यायावतारः
क्षतिकारी, इतरथानुमानस्याप्यप्रामाण्यमासज्येत, तस्याप्यविशदानिपतार्थप्राहित्वात् । परमार्थतस्तु त्रिकालभ्यापिनः सर्वार्थ ग्रहणस्वभावत्वेऽपि आवरणतिरस्कृतस्य जीवगग्यस्य चक्षुरादिसामग्रीसापेक्षावरणक्षयोपशमवशात् संनिहितस्पटार्थग्रहणपरिणामः प्रत्यक्षमित्युच्यते। शब्दसापेक्षक्षयोपशमात्तु नियतानियताविशदार्थग्रहण. परिणामस्तु शाब्दमिति। तत्र तदुत्पत्तितदाकारते प्रत्यक्षे शाब्देऽन्यस्मिन् वा शाने पास्तव्यौ स्तः। तस्मात्पारमार्थिकाभिधेयप्रयोजनसंबन्धप्रतिपादकमेतदादिवाक्यमिति स्थितम् ॥ ___तत्राभिधेयं वाच्यं, तच्चेह प्रमाणम् , तस्यैव प्रकरणेन प्रतिपाद्यत्वात् , तत् प्रमाण इत्यवयवेन लक्षयति । प्रयोजनं द्विधा, श्रोतुः कर्तुश्च । पुनरपि द्विविधं, भनन्तरं ग्यवहितं च । तत्र श्रोतुरनन्तरप्रयोजनं प्रमाणविषया व्युत्पत्तिः, कर्तुयुस्पद्यमानस्य प्राज्ञत्वात् शिष्यस्य व्युत्पादनम् । तत्रात्मप्रयोजनं दर्शयबारभ्यते इति अस्य मयेतिपढ़सव्यपेक्षत्वात् । शिष्यप्रयोजनं तु व्युत्पदित्यनेनोपसर्गधातुसमुदायेनैव तदन्तर्गतं लास्यते इत्यभिप्रायवान् कर्ता आत्मव्यापार णिजन्तेन निर्दिशति-प्रमा. णन्युत्पादनार्थमिति । व्यवहितप्रयोजनं वैधा, व्यावहारिकं पारमार्थिकं च । ब्याव. हारिकं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षालक्षणम् । पारमार्थिक अभ्यु. इयनिःश्रेयसावाप्तिरिति । एतत्तु साक्षादनुक्तमप्यनन्तरप्रयोजनफलत्वात् तद्वचनेनै. शब्दवद् डाजन्तः तद्वदाचरति । वास्तव्याविति । वस्तुशब्दात् वस्तुनि परमार्थे "भवे" (सि० हे. ६-३-१२३) इति भवार्थाणप्रत्ययान्तादीप्रत्ययः, पारमार्थिक्यावित्यर्थः । वास्तव्यशम्दात्तु स्त्रियामाप्रत्यये वास्तव्ये इति स्यात् ।
तत्रेत्यादि । तत्रेति सप्तम्यर्थे वर्तमानो निर्धारणे वर्तते, तच्चाभिधयत्वगुणेन । तदयमर्थः- तेषामभिधेयादीनां मध्येऽभिधेयं किमुच्यते । आह-वाच्यमिति। अभिधेयशब्दस्य वाच्यमिति नाम पर्याय इति यावत् । तत्रैवं स्थिते अभिधेयं वाच्यं -- प्रतिपादनीयमिति । आत्मप्रयोजनमित्यादि । आत्मप्रयोजनं दर्शयन कर्ता, आत्मनो व्यापारं यथाकथंचिद् व्युत्पत्स्यन्ते शिष्याः, परं मया व्युत्पाद्यमाना व्युत्पद्यन्तामिनि प्रयोजकत्वमिनन्तेन कथयतीति संबन्धः। ननु प्रमाणव्युत्पादनार्थमिदमारभ्यते इत्युक्ते प्रयोजनमात्रं दर्शितं नात्मन इति चेत् , आह-आरभ्यते इत्यस्य मयेतिपदसव्यपेक्षत्वादिति । ननु तथापि पूर्व कर्तुः श्रोतुश्च प्रयोजनमभिहितम्, अत्र कर्तुरेवेति तत्कथमित्याह--अभिप्रायवान् । फेनोझेखेन योऽभिप्रायः । आह -- शिष्यप्रयोजनमित्यादि । तदन्तर्गतमिति । व्युत्पादनान्तर्गतम् । अभ्युदयनिःश्रेयसावाप्तिरिति । अभ्युदयोऽपवर्गप्राप्तांग देवलोकमुकुल लाभादिकं सांसारिक कल्याणम्, निश्चितं केवलपरमानन्दमयत्वात श्रेयः कल्याणं समासान्ते अति निःश्रेयसं मनिस्तयोः प्राप्तिः । यद्यपि चहाभ्युदयसामान्यग्रहणेन तद्विशेष. स्वरूपस्य निःश्रेयसस्यापि ग्रहः सिद्धः, तथापि गोबलावर्द-यायेनाभयोरभिधानमिति ॥
For Private And Personal Use Only