________________
२४
सङ्घपतिचरितापरनामकं
[तृतीयः अयं मया क्वचिद् दृष्ट, इत्यन्योन्यं सचिन्तयोः । तयोः स्मृतिपथं यातः, स्नेहः पूर्वभवोद्भवः ॥ २५॥ प्राग्भवस्मरणाज्ज्ञातनीतिः स्कन्धाधिरोपितः । करिणा तेन स ख्याति, लेभे विमलवाहनः ॥ २६ ॥ प्रभावादवसर्पिण्याः, कालेऽत्र ममताजुषाम् । न ददुर्वाञ्छितं कल्पतरवः स्तोकतां गताः ॥ २७ ॥ ममायमिति कल्पद्रुविषये कलहाकुलाः । अभवन् मार्गगाः सर्वे, तस्य हाकारदण्डतः ॥२८॥ तस्य चन्द्रयशोनाग्नि, कलत्रेऽभवदन्यदा । धनुरष्टशतीतुझं, प्राच्यसंहननं शिति ॥.२९ ॥ विलुप्तसङ्ख्यपूर्वायुः, स्त्री-पुंसमिथुनं किल । चक्षुष्माँश्चन्द्रकान्ता चेत्यनयो म कल्पितम् ॥ ३० ॥
. . - -युग्मम् ॥ जरा-रोगी विना मृत्वा, ततो विमलवाहनः । सुपर्णाख्यकुमारेषु, सुरः समभवन्नवः, ॥३१॥ नागलोकेष्वभूचन्द्रयशा अपि मृता ततः । अगानागकुमारेषु, कुञ्जरोऽपि च्युतस्ततः ॥ ३२ ॥ अन्त्यकालेऽथ चक्षुष्मानपि युग्ममजीजनत् । यशस्वी च सुरूपा च, चन्द्रकान्ताङ्गसम्भवम् ॥ ३३ ॥ चक्षुष्मान् स सुपर्णेषु, मृत्वोत्पेदे महासुरः । चन्द्रकान्ताऽपि नागेषु, समानसमयं किल ॥ ३४ ॥ अथो यशस्विनस्तस्य, पितृवत् प्रभुताजुषः । धाोल्लवितहाकारनीतिमिमिथुनः स्थितम् ॥ ३५ ॥ तच्छासनाय माकारदण्डं चक्रेऽथ स प्रभुः । यथापराधं प्रायुत, नीतिद्वयमथ.क्रमात् ॥३६ ॥ अभिचन्द्रोऽभवत् पुत्रः, प्रतिरूपा च कन्यका । गौर-श्यामरुची पत्ल्यां, सुरूपायां यशस्विनः ॥ ३७ ॥ यशस्व्यब्धिकुमारोऽभूत् , सुरूपा त्वस्य वल्लभा । विपद्य सममेवाहिकुमारः समजायत ॥ ३८॥ पुत्रः प्रसेनजिनाम, चक्षुःकान्ता च नन्दनी । अभिचन्द्रस्य जज्ञाते, प्रतिरूपाङ्गसम्भवौ ॥ ३९ ॥ अभिचन्द्रो विपद्याऽब्धिकुमारेषूदपद्यत । सहैव प्रतिरूपा तु, जज्ञे नागकुमारकः ॥४०॥ पितृवद्युग्मिनां शास्ति, प्रसेनजिति कुर्वति । सति हाकार-माकारलङ्घने धार्यतः पुनः ॥४१॥ धिक्कारनीति निर्माय, निर्मायः क्रमशस्त्रिभिः । दण्डैरमीभिश्चण्डाज्ञो, मिथुनानि शशास सः ॥ ४२ ॥
॥युग्मम् ॥ चक्षुःकान्ताऽथ तत्कान्ता, मरुदेवं तनूद्भवम् । सुतामसूत श्रीकान्तां, चेति तद्युग्मजातकौ ॥ ४३ ॥ मृत्वा प्रसेनजिद् द्वीपकुमारेण्वथ निर्जरः । चक्षुरकान्ताऽथ नागेषु, समं समुदपद्यत ॥ ४४ ॥ पितृवन्मरुदेवस्य, शासतोऽथ प्रजा निजाः । श्रीकान्तायां सपादाग्रधनुःपञ्चशतोच्छ्यौ ॥ ४५ ॥ शातकुम्भद्युतिनाभिर्मरुदेवा प्रियङ्गुरुक् । नान्नेत्यजायतां पुत्रः, पुत्री च युगजातको ॥४६॥ युग्मम् ॥ सङ्ख्यातपूर्वप्रमितं, तयोरायुरजायत । पैतृकादायुषः किञ्चिन्यूनमन्यूनपुण्ययोः ॥४७ ॥ प्राप द्वीपकुमारत्वं मरुदेवो विपद्य सः । श्रीकान्ता तस्य कान्ता तु, तदा नागकुमारताम् ॥ ४८ ॥ धनसार्थवाहजीवस्य ऋषभतीर्थकृतश्चरितम् अथो विदधतो नाभेर्युग्मिनामनुशासनम् । तृतीयारस्य शेषेषु, पूर्वलक्षेषु केषुचित् ॥४९॥ आयुर्भुक्त्वा त्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धितः ॥ ५० ॥ कृष्णाषाढस्य तुर्येऽड्युत्तराषाढास्थिते विधौ । कुक्षौ श्रीमरुदेवायाः, स प्रभुः समवातरत् ॥ ५१ ॥ । . . . , , .
. . . ॥ विशेषकम् ।। १ पा चास्य पाता ॥ २ 'सम्भवम् खेता० ॥ ३ "ढचतुर्थेऽहयु' खता० पाता० ॥