________________
तृतीयः सर्गः ।
कुलकराणामुत्पत्तिनीतयश्च इतश्च जम्बूद्वीपेऽस्ति, विदेहेष्वपरेषु पू: । ईशानचन्द्रक्ष्माचन्द्रवाता नाम्नाऽपराजिता ॥ १ ॥ तत्र चन्दनदासस्य, श्रेष्ठिनो नन्दनोऽभवत् । ख्यातः सागरचन्द्राख्यो, द्राक्षोपमवचस्ततिः ॥ २ ॥ कौमुद्यां बाह्यमुद्यानमन्येद्युः सपुरे नृपे । सम्प्राप्तेऽशोकदत्तेन, समं मित्रेण सोऽप्यगात् ॥ ३ ॥ श्रेष्ठिनः पूर्णभद्रस्य, नन्दिनी बन्दिसङ्कटात् । असावत्रान्नरे दृष्ट्वाऽमोचयत् प्रियदर्शनाम् ॥ ४ ॥ तावन्योन्यसमालोकप्रमोदहृतमानसौ । छलैकदृष्टेः कन्दर्पपिशाचस्य वशङ्गतौ ॥५॥ स्वं स्वं गृहमथो यातावन्योन्यविरहातुरौ । न रतिं प्रापतुः क्वापि, कामाज्ञा हि सुदुःसहा ॥ ६ ॥ अथ सांगरचन्द्रस्य, श्रुत्वा तद् विक्रमाद्भुतम् । पिता चन्दनदासोऽस्मै, सामधाम गिरं जगौ ॥ ७ ॥ कृथा मास्म वृथा वत्स !, विक्रमक्रममन्यदा । यतो न वणिजां क्वापि, शौर्यमौचित्यमञ्चति ॥ ८॥ अपि चाशोकदत्तोऽयं, छद्मनः सन जङ्गमम् । सङ्गमस्तेन नैतेन, समं कार्यः क्वचित् त्वया ॥ ९ ॥ ईर्ष्यालुः कोऽपि तातस्य, मिथ्यैवेदं न्यवेदयत् । यन्मे वयस्यो मायावी, मायावीतमना अपि॥१०॥ स स्वच्छप्रकृतिश्चित्ते, चिन्तयन्निति सागरः। तातादेशः प्रमाण मे, नित्यमित्यवदत् कृती॥११॥युग्मम् ।। चन्दनः पूर्णभद्रश्च, चित्तज्ञौ सुतयोः स्वयोः । कारयाञ्चक्रतुः प्रीत्या, पाणिग्रहमहोत्सवम् ।।१२।। पत्या सागरचन्द्रेण, तुल्येन प्रियदर्शना । लक्ष्मीनारायणेनेव, प्रीता नीता कृतार्थताम् ॥१३॥ प्रियेऽन्यदा बहिर्यात, सति तद्धामगामिना । प्रार्थिताऽशोकदत्तेन, त्यक्तलजेन साऽवदत् ॥१४॥
त्वं मायातः समायातः, किमु रे! मम मन्दिरे ।।
तुच्छ ! तद् गच्छ भर्ता मे, स्वच्छस्त्वां मित्रमिच्छति ।। अथोद्विग्नो विनिर्गत्य, सागराग्रेऽब्रवीदिदम् । पल्यास्ते दुश्चरित्रायाः, सङ्कटेऽद्यापतं सखे ! ॥१६॥ श्रुत्वेति सागरोऽप्यूचे, क्षणं विकृतमानसः। सखे !न खेदस्ते दक्ष !, विधातुमुचितः क्वचित् ॥ १७ ॥ स्नेहानुविद्धयोतिरावयोर्मानसैक्षतिः । भाविनी नाविनीतायाः, कृते तस्याः कदाचन ॥१८॥ ऋजुप्रकृतिना तेन, स दुष्ट इति भाषितः । कामं मुदितचित्तोऽभूत् , स्वभावोऽयं दुरात्मनाम् ॥ १९ ॥ स्वयोषायामदोषायामपि मित्रगिरा तया । सागरोऽभूद् गतप्रेमा, ज्ञापयामास तां न तु ॥२०॥ प्रियदर्शनया साकं, मृत्वा कालेन सागरः । जम्बूद्वीपेऽत्र भरतक्षेत्रा॰ दक्षिणेऽभवत् ॥२१॥ तृतीयारेऽवसर्पिण्या, सिन्धु-गङ्गान्तरक्षितौ । शेपे पल्योपमाष्टांशे, युग्मधर्मा रविच्छविः ॥२२ ।।
॥ युग्मम् ॥ माययाऽशोकदत्तोऽपि, निष्पन्नोऽत्रैव कुञ्जरः । चतुर्दन्तः सितच्छायकायस्तं दृष्टवान् भ्रमन् ॥ २३ ॥ - आविर्भूताभूतप्रीतिः, सकरेणुः करेण तम् । आलिङ्गयाऽऽरोपयामास, निजस्कन्धे सविस्मयम् ॥ २४ ॥
१ तयोःस्तयोः वता० ॥ २ "न्दिरम् ? खंता०॥ ३ सक्षितिः वता० ॥