________________
२१
सर्गः 1
धर्माभ्युदयमहाकाव्यम् ।
॥ ४०८ ॥
॥ ४०९ ॥
॥ ४१० ॥
॥ ४११ ॥
॥ ४१२ ॥
॥
४१३ ॥
॥
४१४ ॥
॥
॥
अनीहानां शरीरेऽपि, परत्रैकरतात्मनाम् । यदीदृशानां साधूनां, नोपकाराय जायते यल्लोकमल-मूत्रादित्राणान्मालिन्यमर्जितम् । तदिदं क्षाल्यतामद्य, मुनेरारोग्यदानतः जीवानन्दो जगादैवमथ राजेन्दुनन्दनम् । युवाऽपि वृद्धबुद्धिस्त्वं युक्तमेवोक्तवानिति किन्तु दीनारलक्षेण, प्रत्येकमपि दुर्लभैः । निगृह्यते यतेरस्य, रोगोऽयं भेषजैस्त्रिभिः एतेषु लक्षपाकाख्यं, तैलमस्त्येव मट्टहे । गोशीर्षचन्दनं रत्नकम्बलं च पुनर्नहि इत्युक्ते तेन ते पञ्च, विपणिश्रेणिमण्डनम् । कञ्चिन्महेभ्यमभ्येत्य, श्रेष्ठिनं श्रेष्ठमूचिरे अपि दीनारलक्षाभ्यां, देहि गोशीर्ष - कम्बलौ । यदाभ्यां कर्तुमिच्छामश्चिकित्सां रोगिणो मुनेः तेषामिति वचः श्रुत्वा, विस्मयस्मेरमानसः । जगाद सादरं श्रेष्ठी, धन्याः । शृणुत मद्वचः कुष्ठरोगाभिभूतस्य, योग्यावेतौ महामुनेः । राज्येनापि न लभ्येते, दूरे दीनारदर्शनम् सन्ति पुण्यनिदानानि, यानि दानानि कोटिशः । एतैरारोग्यदानस्य, शतांशेनापि नोपमा तद् गृह्णीत विना मूल्यमनुगृह्णीत मां मुदा । श्रेष्ठीत्युक्त्वाऽर्पयामास, रत्नकम्बल - चन्दने ततस्ते समुपादाय, शकुनैः शुभशंसिभिः । जीवानन्देन सहिता, मुनेरनुपदं ययुः कायोत्सर्गासनासीनमघोन्यग्रोधभूरुहः । वाह्योद्यानेऽथ ते वीक्ष्य, नमश्चकुर्मुनीश्वरम् ततो मुनिमनुज्ञाप्य, तैलेनाभ्यज्य वैद्यभूः । निश्चेतनेऽथ तद्देहे, क्षिप्तवान् रत्नकम्बलम् तैलतापेन तेनाथ, व्याकुलास्तत्कलेवरात् । निःसृत्य शीतले लीनाः, कृमयो रत्नकम्बले अथ गोशवमानीय, तस्योपरि दयापरः । कम्बलात् पातयामास, कृमीन् वैद्यवरः स्वयम् ॥ गोशीर्षचन्दनस्यन्दैरिन्दुनिस्यन्दसुन्दरैः । शमिनः शमयामास, स तापव्यापदं मुदा त्रिविधाय क्रियामित्थं, कृमीनतुलकौशलः । गोशवे पातयामास, त्वग्मांसास्थिगतानयम् कैश्चिद् दिनैः शमिस्वामी, चामीकरसमच्छविः । क्षमितस्तैर्विहाराय, पुनर्नववपर्ययौ वणिक्प्रष्ठोऽपि भैषज्यदानप्रभववैभवात् । अन्तकृत्केवली भावं, तस्मिन्नेव भवेऽभजत् तेऽपि कम्बल-गोशीर्षशेषं विक्रीय काञ्चनैः । प्रासादं कारयामासुः, स्वेन लक्षद्वयेन च कियताऽप्यथ कालेन, समं सञ्जातभावनाः । त्रतं प्राप्याऽच्युते कल्पे, शिश्रियैस्त्रिदशश्रियम् ॥ ४२९ ॥ द्वाविंशत्यतरायुष्कास्ते सर्वेऽप्यच्युताच्युताः । प्राग्द्वीपप्राग्विदेहेषु, तटे लवणवारिधेः ॥ ४३० ॥ विजये पुष्कलावत्यां पुण्डरी किण्यधीशितुः । वज्रसेननृपस्याऽऽसन्, धारिण्यां पञ्च सूनवः ॥ ४३१ ॥ ॥ युग्मम् ॥
॥
॥ ४२७ ॥
॥
४२८ ॥
१ 'वानिदम् खेता० पाता० ॥ २ युस्त्रिदिवः श्रियम् चता० ॥ पाता० ॥ ४ मार्जयत् शता० ॥
४१५ ॥
४१६ ॥
॥
४१७ ॥
॥
४१८ ॥
॥ ४१९ ॥
॥ ४२० ॥
॥
४२१ ॥
४२२ ॥
४२३ ॥
॥ ४२४ ॥
॥ ४२५ ॥
॥ ४२६ ॥
॥ ४३२ ॥
अभूत् तेषु भिषग्जीवो, वज्रनाभाभिधोऽग्रजः । चतुर्दशमहास्वनशिष्टसाम्राज्यवैभवः बाहुः सुबाहुः पीठोऽथ, महापीठः क्रमादमी । नीवास्ततो नृपाSमात्य - श्रेष्ठि-सार्थेशजैन्मिनाम् ||४३३॥ आसीत् केशवनीवोऽपि, सुयशा राजपुत्रकः । प्राग्भवस्नेहतः सोऽपि वज्रनाभमशिश्रियत् ॥ ४३४ ॥ तीर्थप्रवृत्त्यै विज्ञप्तस्ततो लोकान्तिकैः सुरैः । वज्रसेननृपो राज्ये, निवेश्य निजमात्मजम् ॥ ४३५ ॥ सांवत्सरिकदानानि दत्त्वा देवेन्द्रवन्दितः । चारित्रसम्पदा साकं, मनःपर्यायमसदत् ॥ ४३६ ॥ वज्रनाभमहीनाथो, महीमथ महाभुजः । सुयशःसारथिः शक्रसम लक्ष्मीरपालयत्
॥ ४३७ ॥
३ जन्मनाम् खंता •