________________
२०
सङ्घपतिचरितापरनामकं
[ द्वितीयः
स च मच्यवनात् पूर्व, च्युतः काप्यभवद् भुवि । न ज्ञायते ततस्तस्य, प्रयत्नं प्राप्तये कुरु ॥ ३७८ ॥ पण्डित्ताऽपि श्रुताशेषवृत्तान्तानुगतं पटम् । लेखयित्वाऽङ्गणोपान्ते वज्रसेनस्य चक्रिणः ॥ ३७९ ॥ सेवागतानां सर्वेषां कुमाराणामदर्शयत् । दृद्वैतद् वज्रजङ्घोऽपि, जातजातिस्मृतिर्जगौ ॥ ३८० ॥ मम पूर्वभवः सोऽयं, पण्डिते ! लेखितः कुतः ? । दिव्यज्ञानवता केन, कथितं वा तवाग्रतः ? ॥ ३८१ ॥ एकैकशस्तया पृष्टः, पर्वतादिविनिर्णयम् । पूर्वदृष्टानुसारेण, स यथाभिधमभ्यधात् ॥ ३८२ ॥ अथोत्सुकतया वृत्तमनाख्यायाऽपि पण्डिता । श्रीमत्याः पुरतो गत्वा तद्वृत्तान्तं व्यजिज्ञपत् ॥ ३८३ ॥ वज्रसेनोऽपि विज्ञप्तः, स्वयं पण्डितया तया । सुवर्णजङ्घपुत्रं तं कुमार्या पर्यणीनयत् ॥ ३८४ ॥ सोऽथ श्वशुरमापृच्छ्य, लोहार्गलपुरं गतः । स्वयं जिघृक्षुणा दीक्षां पित्रा राज्ये निवेशितः ॥ ३८५ ॥ सुतं पुष्कलपालाख्यं, राज्ये कृत्वा स चक्रभृत् । वज्रसेनोऽपि सञ्जज्ञे, सुनीभूयाथ तीर्थकृत् ॥ ३८६ ॥ अन्यदा पुष्कलक्ष्मापं, श्रुत्वा शत्रुभिरावृतम् । वज्रजङ्घोऽपि साहाय्यं कर्तु तस्य पुरीं ययौ तत्र शत्रून् विनिर्जित्य, श्रीमत्या सहितोऽथ सः । व्रजन् निजपुरं मार्गे, विलोक्य मुनिसत्तमौ आत्मीयावेव सोदर्यौ, केवलज्ञानशालिनौ । नमश्चक्रे कृती नाम्ना सेनान्तौ मुनि-सागरौ ॥
॥
॥
३८७ ॥
३८८ ॥
३८९ ॥
॥
युग्मम् ॥
३९० ॥
अथैवं चिन्तयामास, वज्रजङ्घनरेश्वरः । अहो ! मे मन्दभाग्यत्वमहो ! मे मतिहीनता ॥ यदहं प्राप्तवान् लक्ष्मीं, वान्तप्रायामिमां पितुः । एतौ चारित्रसाम्राज्यं प्रापतुः सोदरौ तु मे ॥ ३९९ ॥ अधुनाऽपि पुरं गत्वा दत्त्वा राज्यं स्वसूनवे | चारित्राशनिना कर्मद्रुमं भस्मीकरोम्यहम् || ३९२ ॥ इति निश्चित्य भूपालो, लोहार्गलपुरं गतः । प्रातर्दित्सुरयं राज्यं, प्रसुप्तः श्रीमतीयुतः ॥ ३९३ ॥ अज्ञातपरमार्थेन, राज्यलोभान्धचेतसा । विषधूमप्रयोगेण, घातितो निशि सूनुना ॥ ३९४ ॥ युग्मम् ॥ अथोत्तरकुरुष्वेष, समं दयितया तथा । नृपो युगलधर्माऽऽयुर्यथाक्षेत्रमपालयत् ॥ ३९५ ॥ सौधर्मकल्पे सङ्कल्पोपनतैः प्रीणितौ सुखैः । स्नेहस्यूताविवाभूतामेककालमुभौ सुरौ वज्रजङ्घस्य जीवोऽथ, जम्बूद्वीपे दिवध्युतः । क्षितिप्रतिष्ठितपुरे, विदेहक्षेत्रमण्डने वैद्यस्य सुविधेः सूनुर्जज्ञे सत्कर्मकर्मठः । जीवानन्दाख्यया ख्यातो, वैद्यविद्याविशारदः ईशान चन्द्र भूभर्तुस्तत्रैव नगरे तदा । कान्तायां कनकवत्यां जज्ञे पुत्रो महीधरः लक्ष्म्यां च जज्ञे कान्तायां, सुनासीरस्य मन्त्रिणः । सुतः सुबुद्धिर्विख्यातो, नाम्ना च क्रियया च यः ॥
॥ ३९६ ॥
॥ ३९७ ॥
॥ ३९८ ॥
॥ ३९९ ॥
॥ ४०० ॥
॥
४०१ ॥
॥
४०२ ॥
॥
४०३ ॥
प्रियायां शीलवत्यां च, धनाख्यश्रेष्ठिनस्तदा । नन्दनो गुणरत्नानामाकरोऽभूद् गुणाकरः बभूवाऽभयमत्यां च, पत्न्यां सार्थपतेः सुतः । नाम्ना सागरदत्तस्य, पूर्णभद्र इति श्रुतः सोऽप्यत्र श्रीमती चवध्युतः सौधर्मकल्पतः । वभूवेश्वरदत्तस्य, श्रेष्ठिनः केशवः सुतः एषामपि च पञ्चानां, समानगुणशालिनाम् । जीवानन्देन वैद्येनं, सह सख्यमभूत् तदा ॥ ४०४ ॥ सङ्गतानामथामीषामन्येद्युर्वैद्यवेश्मनि । साधुर्माधुकरीं भिक्षां, कुर्वन् नेत्रपथं ययौ ॥ ४०५ ॥ सं पृथ्वीपालभूभर्तुः, पुत्रं किल गुणाकरम् । आचत्रतं तपः कष्टानुष्ठानैर्वीक्ष्य कुष्ठिनम् ॥ ४०६ ॥ महीधरकुमारस्तं, वैद्यपुत्रं तदाऽवदत् । धिगिदं भिषजां जन्म, धिगिदं शास्त्रकौशलम् ॥ ४०७ ॥ १न, समं मैत्र्यमभूत् संता० पाता० ॥
-