________________
१२
सर्गः] .. धर्माभ्युदयमहाकाव्यम् । अहं त्वयि ततः स्नेहाद, विज्ञायावधिनाऽधुना। पुनः स्वयम्प्रभामन्यां, भाविनी कथयामि ते ॥३५१॥ बभूव धातकीखण्डप्राग्विदेहेकमण्डने । नागिलाख्यो गृहपतिर्नन्दिग्रामेऽतिदुर्गतः ॥ ३५२ ॥ तस्य नागश्रियां पल्या, पुत्रीषट्कादनन्तरम् । सुताऽभून्मर्त्यलोकेऽपि, नरकमेव सप्तमी ॥ ३५३ ॥ एतस्यां जातमात्रायाममात्रोद्विग्नमानसः । नगरान्निरगाद् दूरं, विरागान्नागिला किल ॥ ३५४ ॥ दुर्भगत्वेन पुत्र्यास्तु, नाम्नोऽप्यकरणादथ । निर्नामिकेत्यभूत् तस्याः, प्रसिद्धिर्जनिता जनैः ॥ ३५५ ॥ सा वर्धिष्णुः क्रमेणाथ, समं दारिद्यकर्मणा । अगमद् दारुभारार्थे, नभस्तिलकपर्वते ॥३५६ ॥ युगन्धरमुनि तत्र, सुरा-ऽसुरनमस्कृतम् । दृष्ट्वा नत्वाऽथ तद्व्याख्या, श्रुत्वा संवेगतो जगौ ।। ३५७ ॥
दुःखिनः सन्ति भूयांसो, भवेऽस्मिन् भगवन् ! जनाः।
मत्तस्तु मन्दभाग्यायाः, कोऽपि दुःखाधिकोऽस्ति किम् ? ॥ ३५८॥ अथो युगन्धरः प्राह, केवलज्ञानभास्करः । वत्से ! धत्से मुधा दुःखाद्वैतवैतण्डिकं मनः ॥ ३५९ ॥ दुःखानि परतः सन्तु, तावन्नरकवासिनाम् । श्रुतमात्राणि भिन्दन्ति, हृदयं यानि देहिनाम् ।। ३६०॥ परं प्रत्यक्षमेवैते, वनेऽपि सुखमानिनः । विनाऽपराधं वध्यन्ते, पशवः पश्य पापिमिः ॥ ३६१ ॥ दृढं कशाभिस्ताड्यन्ते, कर्कशाभिस्तुरङ्गमाः । बध्यन्ते चाद्भुतप्राणवन्धुरा अपि सिन्धुराः ॥ ३६२ ।। परद्रव्य-परद्रोहपराः पश्य नरा नृपैः । क्रन्दन्तः करुणं मार्निहन्यन्ते नवनवैः ॥३६३ ॥ स्वस्वामिभावसम्बन्धमुर्मुरैर्मर्मदाहिमिः । वत्से ! स्वर्गेऽपि ताप्यन्ते, मरुतोऽविरतोत्सवाः ॥ ३६४ ॥ विलोक्यते न तल्लोके, प्रदेशो निरुपप्लवः । आराध्यते न चेदेष, धर्मः शर्मनिवन्धनम् . ॥ ३६५ ॥ संसारदुःखसम्मर्दकर्दमे पततामयम् । धर्म एव भुजालम्ब, दत्ते नान्यः शरीरिणाम् ॥ ३६६ ॥ आराद्धश्च विराद्धश्च, चक्रवर्तीव देहिनाम् । धर्मस्तुष्टश्च रुष्टश्च, सुखं दुःखं च यच्छति ॥ ३६७ ॥ सुखाय वत्से ! तद् वाञ्छा, यदि ते विद्यते हृदि। आराध्यतां ततो धर्मः, कल्पनाकल्पपादपः॥ ३६८ ॥ उपदेशमिति श्रुत्वा, मुनेस्त्रैलोक्यदर्शिनः । अनुज्ञां चास्य सम्प्राप्य, दुःखौघक्षयकाइया ॥ ३६९ ॥ उद्विग्ना निजदेहेऽपि, गृहीतानशनाऽधुना । वर्ततेऽस्यास्ततो गत्वा, स्वं रूपं दर्शय स्वयम् ॥ ३७० ॥
॥ युग्मम् ॥ तथाकृतेऽथ तेनैषा, तस्मिन्नेवानुरागिणी । मृत्वा तस्याऽभवद् देवी, प्रेमपात्रं स्वयम्प्रभा ।। ३७१ ॥ भोगान् भुक्त्वा तया साकं, साकम्पोऽथ दिवश्युतः । क्षेत्रे महाविदेहेऽभूल्लोहार्गलपुरप्रभोः ॥ ३७२ ।। सुतः सुवर्णजबस्य, प्रतापजितभास्वतः । से लक्ष्मीकुक्षिमाणिक्यं, वजजङ्घ इति श्रुतः ॥ ३७३ ॥
॥ युग्मम् ॥ नगयाँ पुण्डरीकियां, च्युत्वा साऽपि स्वयम्प्रभा । चक्रिणो वज्रसेनस्य, श्रीमतीति सुताऽभवत् ॥
॥ ३७४ ॥ अन्यदा प्रमदोद्याने, क्रीडन्ती समुपागतम् । मुनि केवलिनं वीक्ष्य, वन्दितं देव-दानवैः ॥ ३७५ ॥ जातजातिस्मृतित्विा, सा सर्व पूर्वचेष्टितम् । धात्रेयी पण्डितामाह, रहो विश्वासभाजनम् ॥ ३७६ ॥
॥ युग्मम् ॥ • पुरा ममाऽऽसीदीशानकल्पे हृदयवल्लभः । ललिताङ्ग इति ख्यातस्तत्प्रियाऽहं स्वयम्प्रभा ।। ३७७ ।।
१ भामेनां, भावि खंता० ॥ २ सन्ति, ता खता० ॥ ३ .सल्लक्ष्मी' खना० ॥