SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ . (द्वितीयः सङ्घपतिचरितापरनामक प्रगेऽथ माणिभद्रेण, विज्ञप्तः सुहृदा धनः । इयं प्रावृडतिक्रान्ता, निशेवोद्भासिभास्करा।। ३२२ ॥ . विमुक्तं धनुरिन्द्रेण, 'गृहीतं वसुधाधिपः । नमस्त्यक्तं घनैः श्लिष्टं, जिगीषुबलधूलिभिः ॥३२३ ॥ कालेऽत्र प्रसरन्त्युच्चैर्व्यवसायिमनोरथाः । प्रभो ! प्रतिदिशं प्रौढाः, सहस्रांशोरियांशवः ॥ ३२४ ॥ एतदाकर्ण्य सार्थेशः, समुल्लङ्घयाटवीमिमाम् । गुरूणां गौरवं कुर्वन् , वसन्तपुरमाययौ ॥३२५ ॥ 'तत्र भूपर्तिसत्कारद्विगुणोत्साहितो धनः । विक्रीय स्वीयभाण्डानि, प्रतिभाण्डान्युपाददे ॥ ३२६ ॥ 'तत्र स्थितमथापृच्छय, धर्मघोषमुनीश्वरम् । क्षितिप्रतिष्ठितं प्राप, कृतार्थः सार्थपः पुरम् ॥ ३२७ ॥ । अर्थ कालेन पूर्णायुरुत्तरेषु कुरुष्वयम् । कल्पद्रुपूर्णसङ्कल्पो, जग्मिवान् युग्मधर्मताम् ॥ ३२८ ॥ 'ततश्च प्रथमे कल्पे, भूत्वाऽसौ भासुरः सुरः । अपरेषु विदेहेषु, विजये गन्धिलाभिधे ॥ ३२९ ॥ वैताब्यशैले गन्धारदेशे गन्धसमृद्धके । पुरे शतवलक्ष्माभृत्सुत्रो विद्याधरान्वये : ॥ ३३०॥ 'चन्द्रकान्ताङ्गसम्भूतो, जज्ञे नाम्ना महाबलः । अङ्गावगणितानङ्गः, शृङ्गार इव मूर्तिमान् ॥ ३३१ ॥ - ॥ विशेषकम् ॥ 'राज्यं महायलायाथ, दत्त्वा शतबलो नृपः। दीक्षा गृहीत्वा कृत्वा च, तपांसि दिवासदत् ।। ३३३ ।। अथो महाबलः क्ष्माभृद्, यौवनोन्माददुर्धरः । अज्ञातधर्मा कर्माणि, निर्ममे स यथारुचि ॥ ३३३॥ 'महाबलमहीपालमन्यदा सदसि स्थितम् । निर्भरस्फीतसङ्गीतरसनिर्मनमानसम् ॥ ३३४ ॥ मन्त्रीशो धर्मतत्त्वज्ञः, स्वयम्बुद्धोऽभिधानतः ।वैराग्यवासनाविष्टमभाषिष्ट विशिष्टधीः ॥३३५।। युग्मम् ।। अस्तु स्वादुफलश्रीकः, कदलीगुरवैकदा । विनैकं पुण्यबीजं तु, जन्तुरुच्छेदमृच्छति । । ॥ ३३६ ॥ 'तत् तवापि श्रियां मूलं, त्यक्त्वा धर्म कुलप्रभो !। इत्थं न विषयग्रामो, भोक्तुं तत्त्वज्ञ! युज्यते॥ ३३७ ॥ अभ्यधाद् भूपतिर्मन्निन् !, किमप्रस्तुतमुच्यते । उवाच सचिवः स्वामिन् !, श्रूयतामत्र कारणम् ॥ ॥ ३३८॥ शुचिभिः सचिवैः स्वामिन् !, कुशलोदकर्कशम् । अप्रस्तुतमपि प्रायो, हितं वाच्यं हितैषिभिः॥ ३३९ ॥ यदद्य नन्दनोद्याने, ज्ञानातिशयशालिनौ । भवदायुर्मया पृष्टी, चारणौ वाचमूचतुः ॥ ३४० ॥ 'मासमात्रं भवद्भर्तुरायुः शेषमिति प्रभो !। विज्ञ ! विज्ञप्यसे बाढमतस्त्वमिति मा मुहः ॥ ३४१ ॥ ऊचे महाबलः साधु, साधुबुद्धिबृहस्पते ।। स्वयम्बुद्ध ! गुरुस्त्वं मे, त्वं मन्त्री त्वं च बान्धवः ॥ ३४२ ॥ यदित्थं पातकाम्भोधिपातुकं प्रति सम्प्रति । मामन्धमिव निर्बन्धाद्, भुजालम्बं प्रयच्छसि ॥ ३४३॥ परं समीपमापन्ने, मृत्यौ कृत्यं करोमि किम् ? । मूर्ध्नि दत्तपदे शत्रौ, विक्रमः क्रमतां कुतः ? ॥३४४॥ 'प्रव्रज्या दिनमप्येकं, प्राप्यानन्यमना जनः । मोक्षं यदपि नामोति, कामं वैमानिको भवेत् ॥ ३४५ ॥ 'इत्यमात्योपदेशेन, महाबलमहीपतिः । जग्राह दीक्षामाचार्यसमीपमुपर्जग्मिवान् ॥ ३४६ ॥ युग्मम् ॥ असावनशनं कृत्वा, दिनद्वाविंशति ततः । ईशानकल्पे देवोऽभूद्, विमाने श्रीप्रभाभिधे ॥ ३४७ ॥ नाम्नाऽथ ललिताङ्गस्य, तत्र वैषयिकं सुखम् । भुञ्जानस्यान्यदाऽच्योष्ट, प्रिया तस्य स्वयम्प्रभा ॥३४८॥ हा प्रिये ! देहि मे वाचं, प्रलपन्नित्यथोदितः । स्वसामानिकदेवेन,' सौहार्दाद् दृढधर्मणा ॥ ३४९ ॥ यः पुरा मित्र! मन्त्रीशः, खयम्बुद्धस्तवाभवत् । सोऽहं तव वियोगेन, प्रवज्यैनां श्रितः श्रियम् ॥ ३५० ॥ . १ वसौ खंता० पाता० ॥ २ स्फीतिस' वता० ॥ ३ मिकु° पाता. खंता० ॥ ४ दिनान द्वा' खंतासं० ॥ ५ दृढवर्मणा खता. पाता० ॥
SR No.010638
Book TitleDharmabhyudaya Mahakavya
Original Sutra AuthorN/A
AuthorChaturvijay, Punyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy