________________
सर्गः]
धर्माभ्युदयमहाकाव्यम् । अस्मद्भर्तुरिदं सैन्यमरिकेशरिभूभुजः । स्वामिशून्यं प्रभावस्मिन्नपुत्रे त्रिदिवं गते ॥२९२ ॥ आराध्य विधिवद् गोत्रदेवतामपराजिताम् । ततस्तदुपदेशेन, भवन्तमुपतिष्ठते ॥ २९३ ॥ युग्मम् ॥ राज्यश्रियस्तदेतस्या, भव त्वं वल्लभो विभो ! । रम्याऽपि हि श्रियं धत्ते, न विनेन्दु कुमुद्रती ॥ २९४ ॥ प्रज्ञालोकाभिधानस्य, मन्त्रिणः क्रमिकस्य मे। अभ्यर्थनामिमां नाथ !, नान्यथा कर्तुमर्हसि ॥ २९५ ॥ अथो निकटवर्तिन्या, स्वयं देवतया तया । अभ्यषिच्यत राजेन्दुर्निवेश्य कनकासने ॥२९६ ॥ तस्योत्तमाङ्गे शुशुभे, सितमातपवारणम् । पूर्वक्षोणिभृतः शृङ्गे, सितांशोरिव मण्डलम् ॥२९७ ॥ कुमारीमपि तामस्मै, मङ्गलखानपूर्वकम् । दत्त्वा देवी क्षितीशाय, क्षणेनाथ तिरोदघे ॥२९८ ॥ अथाऽरिकेशरिक्ष्मापपुरं लक्ष्मीपुराभिधम् । तया वनितया साकं, प्रविवेश विशांपतिः ॥२९९ ।। तल्लक्ष्मीपुरसाम्राज्यमभ्युपेत्याऽभयङ्करः। पाथोद इव पाथोधिपाथः पृथ्वीमतर्पयत् ॥३०० ।। ततः सिंहपुराधीशः, स्वयमेत्य प्रमोदवान् । तामनङ्गवतीं पुत्री, भूभुजा पर्यणीनयत् ॥३०१ ॥ भूचराः खेचराश्चान्ये, कन्यादिभिरुपायनैः । भक्तिपहीभवच्चित्तास्तं भूभुजमपूपुजन् ॥३०२ ॥ विद्याधरेश्वरः सोऽपि, देवतादत्तवैभवः । सोऽपि पुष्पपुराधीशः, स चापि धनवाहनः ॥ ३०३ ॥ नृपं परेऽपि सामन्ताः, समन्तादेत्य सम्मदात् । रत्न-वाजि-गजपायैः, प्राभृतैरुपतस्थिरे ॥३०४ ।।
॥ युग्मम् ॥ अन्यदा वन्यदावामिप्रतापस्यास्य भूभुजः । चक्रमायुधशालायामाविरासीत् सुदुःसहम् ॥३०५॥ चक्रस्यास्य प्रभावेण, द्विगुणीकृततेजसा । अभयङ्करभूपेन, षट्खण्डा साधिता मही ॥ ३०६ ॥ न नाम भूभृतामेव, सार्वभौमपदं नृपः । महात्मनामपि प्राप, गुणैर्लोकोत्तरैरयम् ॥३०७ ।। अथ क्रमेण सम्प्राप्य, व्रतसाम्राज्यसम्पदम् । पदं लोकोत्तरं लब्धा, चक्रवर्त्यभयङ्करः ॥ ३०८ ॥ __ सार्थवाह ! श्रियो मूलमालवालं यशस्तरोः । व्रतं परोपकाराख्यं, मुनयस्तदिदं विदुः ॥ ३०९ ॥ न शोच्यस्तत् त्वयाऽऽप्यात्मा, पाप इत्यमलाशय | उपकारपरा बुद्धिः, शुद्धां ब्रूते तवायतिम् ॥ ३१०॥ उपयोगः परं कश्चिद्, यन्नास्मत्तोऽभवत् तव । सार्थवाह । क्रियाहीनं, तन्मनोऽतिदुनोति नः ॥ ३११॥ तन्महात्मस्तवात्यर्थ, सर्वथाऽप्युपकुर्वतः । तत्त्वोपदेशमात्रेण, वयमप्युपकुर्महे ॥३१२ ।। संसारे जन्तवः सन्ति, मिथ्यात्वमयनिद्रया । हिता-अहितमजानन्तो, जीवन्तोऽपि मृता इव ॥ ३१३ ॥ मिथ्यात्वतटिनीपूरप्लावितः सर्वथा जनः । रयाहुस्तरसंसारपारावारे पतत्ययम् ॥३१४ ।। तन्मिथ्यात्वमयं ध्वान्तं, सद्गतिस्खलनक्षमम् । जिघांसता जनेनोच्चैः, सेव्यः सम्यक्त्वमास्करः ।। ३१५॥ स्मेरं सम्यक्त्वसूर्येण, निगूढगुणगौरवम् । उत्तंसयति मुक्तिश्रीरजस्रं पद्मवज्जनम् ॥ ३१६ ॥ सम्यक्त्वकौमुदीस्वादचकोराणां शरीरिणाम् । पुरोवर्तिनि मिथ्यात्वविष दृष्टिविरज्यते ॥ ३१७ ।। रागादिविजयी देवः, सच्चरित्रगुरुर्गुरुः । प्राणित्राणप्रधानश्च, धर्मः सम्यक्त्वमुच्यते ॥३१८ ॥ तत् तवायमलकारो, युज्यते पुरुषोत्तम ! । आधातुं हृदये श्रीमत्सम्यक्त्वं कौस्तुभः शुभः ॥ ३१९ ॥ ऊचे धनोऽथ भगवन् !, प्रतिपन्नमिदं मया । नहि श्रियं समायान्ती, पदेन प्रेरयेद्बुधः ॥ ३२० ॥ गुरूनथ नमस्कृत्य, प्रीतः सम्यक्त्वसम्पदा । तां क्षपां क्षपयामास, निजावासं गतो धनः ॥ ३२१ ॥
१ प्रायप्राभृ पाता ॥ घ. ३