________________
सङ्घपतिचरितापरनामकं'.
[द्वितीयः बाहुस्तम्भे तथा स्तम्भ, निशुम्भय भयापहे । शिरश्छेत्तुमलम्भूष्णुर्यथाऽयं जायते क्षणात् ।। २६०॥ एवं प्रतिज्ञानिर्वाहव्रतरक्षणतो मम । उपकारो महान् देवि , भवेदेव न संशयः ॥२६१॥ मम कार्य न राज्येन, न धनैर्न वधूजनैः । यदि तुष्टाऽसि सत्येन, तदिदं क्रियतां त्वया ॥ २६२ ॥ नैवं चेत् कर्तुमुत्साहो, मत्साहसवशादथ । योगिनोऽस्य ततः स्पष्टमिष्टसिद्धिर्विधीयताम् ॥ २६३ ॥ अथ देवी पुनः प्राह, नाहमस्य दुरात्मनः । प्राणानपि प्रयच्छामि, दूरेऽभीष्टार्थसाधनम् ॥ २६४ ॥ अयं हि जगतीनाथ !, स्त्रीवधारम्भपातकी । भवाशां वधादात्मसिद्धिं दुष्टः समीहते ॥२६५ ॥ एतस्य सत्त्वपर्यन्तपरीक्षार्थ मया पुरा । अकृत्यमिदमादिष्टमपूर्णे पूर्वकर्मणि ॥ २६६ ॥ वत्स ! तत् सर्वमुत्सृज्य, मन्त्रानुष्ठानमुत्तमम् । वञ्चितोऽयं मया लोभान्निष्कृतं कर्म निर्ममे ॥ २६७ ॥ अमीरोरस्य पापेषु, लोकद्वयविरोधिनः । हीनसत्त्वस्य तत्त्वज्ञ !, कुतः सिद्धिर्भवत्वसौ ? ॥ २६८ ॥ . पुंसः पद्माकरस्येव, क्षीणसत्त्वाम्बुजस्थितेः । श्रीर्वशं कथमायातु, भ्रमरीव चलाचला ? ॥ २६९ ॥ दुरात्मनस्तदेतस्य, हेतवे त्वं महीपते ।। रत्नगर्भामिमामात्मशून्यां नो कर्तुमर्हसि ॥२७० ॥ अथापि क्रियतामेवं, परोपकृतिकर्मठ ! । यदि स्यादुपकारोऽस्य, कश्चिद् दुश्चरिताम्बुधेः ॥ २७१ ॥ निवृत्तायामथैतस्यां, रेजे भूपतिभारती । सस्क्रियानन्तरं कान्ता, सात्त्विकस्याऽऽयतिर्यथा ॥ २७२ ॥ यदेव देवि ! साध्येऽर्थे, निषेधाय त्वयोच्यते । तदेव प्रत्युतात्यर्थ, प्रवृत्ति प्रति कारणम् ॥ २७३ ॥ ततस्त्वं मां शिरश्छेदप्रतिज्ञापूरणोद्यतम् । निवारयन्ती तुष्टाऽपि, कष्टं रुष्टाऽसि तत्त्वतः ॥ २७४ ॥ प्रसादसादरं मातः!, प्रतिज्ञातार्थवारणात् । निघ्नत्या मे यशोदेहं, किं ते सम्प्रति साम्प्रतम् ? ॥ २७५॥ यदि ममप्रतिज्ञोऽपि, जीवलोकेऽत्र जीवति । वद तद्देवि ! को नाम, मृत इत्यभिधीयताम् ? ॥ २७६ ॥ ततस्त्वं यदि तुष्टाऽसि, तत् प्रयाहि यथाऽऽगतम्। शिरश्छेदाक्षमोऽप्येष, विशाम्यमौ यथा स्वयम् ।२७७) इत्युक्त्वैव समुत्तस्थौ, झम्पार्थे स विभावसौ । नहि सत्त्ववतां किश्चिदशक्यं प्रतिभासते ॥ २७८ ॥ दृष्ट्वा सिंहपुराधीशमुताऽप्येतं तथोद्यतम् । अन्तःसञ्जातसङ्घट्टा, पृथिव्यामपतत् तदा ॥२७९ ॥ बलादथ समाकृष्य, रभसादपराजिता । भाषते स्म मुदा स्मेरवदना मेदिनीपतिम् ॥२८॥ साहसं वत्स! मा कार्षीरहं तुष्टाऽस्मि सर्वथा। तवोपरोधात् पश्याय, जीवितं लम्भितोऽधमः ॥ २८१ ॥ इत्युक्त्वा योगिनस्तस्य, जीवितव्यमिवाजवत् । शबप्राये शरीरेऽन्तश्चिक्षेपाम्भः कमण्डलोः ॥ २८२ ॥ कुमारीमपि तामेवमभिषिच्याऽपराजिता । स्वयमुज्जीवयामास, घनलेखालतामिव ॥२८३ ॥ । अथ जीवन्तमालोक्य, कुमारी धरणीधवम् । विमर्श-विस्मयस्मेरा, मुमुदे कुमुदेक्षणा . ॥ २८४ ॥ अन्तश्चित्तं प्रविष्टोऽथ, तदा तस्या रतेरिव । लोकोत्तरगुणः सोऽयं, पतिः सङ्कल्पजोऽभवत् ॥ २८५ ॥ तदा दः धराधीशमनोऽपहरणार्थिनः । तस्या विलोकितं साचि, साचिव्यं चित्तजन्मनः ॥ २८६ ॥ अवोचत पुनर्देवी, नरेन्द्रमपराजिता । तवोपरोधात् तुष्टाऽहं, महात्मन्नस्य योगिनः ॥२८७ ॥ . सत्त्वरलाम्बुधेरस्य, दर्शनायैव लालसः । कर्मसाक्षी तदाऽऽरोहत्, प्राचीनाचलचूलिकाम् ॥२८८ ॥ अत्रान्तरेऽभवद् भूरिनिःस्वानस्वनमांसलः । दिक्कुक्षिम्भरिरत्युच्चैः, कोऽपि कोलाहलो महान् ॥२८९॥ ददर्शास्यानुसारेण, चक्षुर्दिक्षुः क्षिपन्नयम् । क्षोणिनाथः क्षणेनाथ, पृतनां कृतिनांवरः ॥२९० ॥ किमेतदिति विस्मेरविलोचनमथो नृपम् । सैन्यादस्मादुपागत्य, कश्चिन्नत्वा व्यजिज्ञपत् । ॥ २९१ ॥ . ! "१ वत्यसौ वता० ॥ ५ "टोऽयं, त खंता० ॥ . . .