________________
सर्गः: ]
धर्माभ्युदयमहाकाव्यम् |
१५
किञ्च प्राण्युपकाराय, प्रायः कायः क्षमो न चेत् । तदनेनाधमर्णेने, पोषितेनाधमेन, किम् ? ॥ २३१ ॥ बहुविघ्नः कृतघ्नोऽयं, मुधैव यदि यास्यति । कायः परार्थे पुण्याय, किं न विक्रीयते ततः १ ॥ २३२ ॥ दैवस्य वश्यः कायोऽयमवश्यं तेन गृह्यते । यदर्जितं ततः पुण्यमवैगुण्यं तदात्मनः ॥ २३३ ॥ वयस्य ! यदि मे सत्यं हिताय विहितादरः । तत् पवित्रः कृपाणोऽयं, पाणौ मम समर्प्यताम् ॥ २३४ ॥ विद्याधरकुमारोऽथ, योगिवेषधरोऽब्रवीत् । देव्या वचसि नैवास्ति, महात्मन् ! मम संशयः प्राणान् जगत्त्रयत्राणप्रवीणान् मोक्तुमुत्सुकः । स्त्रीमात्रस्य कृते राजन्!, जाने मूढोऽसि सर्वथा अहिलो महिलात्राणकदाग्रहपरिग्रही । नाहं त्वमिव तद् भूप !, कृपाणं न तवार्पये
॥
॥
॥
॥
॥ २४२ ॥
॥ २४३ ॥
॥ २४४ ॥
पृथ्वीनाथोऽप्यभाषिष्ट, सभाशिष्टमिदं वचः । निर्विचारं विचारज्ञ !, त्वद्वचः प्रतिभाति मे क्षत्रियो हि क्षतात् त्राता, प्राप्नोत्यन्वर्थनामताम् । क्षत्रियस्याङ्गजत्वेन, मल एवान्यथा भवेत् तदहं युवयोस्त्राणकृते कायममुं त्यजन् । अर्जयँश्च यशोदेहं शाश्वतं ग्रहिलः कथम् ? ॥ २४० ॥ अनिच्छतोऽप्यथैतस्य, करादाच्छिद्य भूपतिः । अन्तकभ्रकुटीभीमं खड्गमव्यग्रमग्रहीत् ॥ २४९ ॥ उपकारिणमासाद्य, खङ्गं स्नेहस्पृशा दृशा । वीक्षाश्चक्रे सुधावर्षैः, स नृपः पयन्निव अथ निस्त्रिंशदुर्दर्शः, स्मेरद्वदनपङ्कजः । भीषणो रमणीयश्व, तदा राजा रराज सः अथ व्यापारयामास, कृपाणं पाणिना नृपः । सादरं मुदितो मौलिकमले कमलेक्षणः दरिद्र इव सम्प्राप्य, परमान्नं सुदुर्लभम् । मुमुदे स तदा स्कन्धे, लब्ध्वा खड्गस्य सङ्गमम् ॥ २४५ ॥ रोमाङ्कुर भेरैरूर्द्धमुद्धुरैः स तदा बभौ । अभ्युत्थानार्थमत्यर्थ, खड्गायेव समुत्थितैः '॥ २४६ ॥ अथाकस्माद् द्विषच्छेददक्षिणोऽपि न दक्षिणः । बाहुर्बभूव भूभर्तुः, खड्गव्यापारणक्षमः बाहुस्तम्भेन तेनोच्चैरन्तःसन्तापवान् नृपः । मन्त्रान्निग्रहमापन्नः पन्नगेन्द्र इवाभवत् अथ यावदयं धीरः, कृपाणं वामपाणिना । अग्रहीत् साहसोत्साहधुरीणो धरणीधरः घर्षणोत्थाग्निदुर्द्धर्षे, कण्ठे दम्भोलिसन्निभे । भेजेऽसिः कुण्ठतां तावन्मदनेनेव निर्मितः ॥ २५० ॥ ॥ युग्मम् ॥
॥ २४७ ॥
॥ २४८ ॥
॥ २४९ ॥
अथ यावच्छिरश्छेत्तुं स्वेन स्वमयमक्षमः । तदर्थ प्रार्थयामास, योगिनं जगतीपतिः ॥ २५१ ॥ जीर्णमूलद्रुवत् तावद्, वातेन क्रूरकमणा । शठात्मा स महीपीठे, योगीन्द्रः पुरतोऽपतत् ॥ २५२ ॥ ॥ युग्मम् ॥ पृथ्वीनाथोऽप्यथाकस्मात्, किञ्चिन्मूच्छितचेतनः । अशृणोद् दिव्यनारीणां, हाहाकारं नमस्तले ॥२५३॥ लब्धसंज्ञश्च वर्षन्तीं, पीयूषं स्वकमण्डलोः । स्फारतारोत्करेणेव, मुक्ताहारेण हारिणीम् ॥ २५४ ॥ चन्द्रोज्ज्वलमुखी स्वच्छचन्दनस्यन्दसुन्दराम् । सेवागताभिः स्वः खीभिश्वकोरीभिरिवावृताम् ॥ २५५ ॥ नेत्रनीलोत्पलानन्दमन्दिरं सुन्दराकृतिम् । ददर्श पुरतो देवीं, ज्योत्स्नामिव शरीरिणीम् ॥ २५६ ॥ ॥ विशेषकम् ॥
अथ जगाद सा देवी, सैवाहमपराजिता । वत्स । त्वत्साह सेनाऽऽशु, तुष्टाऽस्मि वृणु वाच्छितम् ॥ २५७॥ अथ प्रणम्य तां राजा, रम्यतामधिकं दधत् । जगाद देवि ! मे श्रेयस्तरुरद्य फलेग्रहिः || २५८ ।। यतस्त्वं मम तुष्टाऽसि, शिरश्छेदार्थमर्थिनः । तदिदं प्रार्थये मातः प्रसादः क्रियतां गयि ॥२५९॥
१ न, मम स्यादधमर्णता संता० ॥ २ भरै रुद्धमुद्धु' पाता० ॥ ३ 'न्दिरां
॥
२३५ ॥
२३६ ॥
॥ २३७ ॥
२३८ ॥
२३९ ॥