________________
सङ्घपतिचरिता परनामकं
[ द्वितीयः
॥ २०२ ॥ ॥ २०३ ॥
॥ २०६ ॥
॥ २०८ ॥
॥ २११ ॥
युग्मम् ॥
॥
२१३ ॥
॥
२१४ ॥
॥ २१५ ॥
प्रणिपत्य 'कमौ कर्मसाक्षिन्नभ्यर्थये मुहुः । जगच्चक्षुरसि त्राता, तन्मे कश्चिद् विलोकताम् ॥ २०१ ॥ अथं' विश्वोपकारैकदीक्षितः क्षितिवल्लभः । निस्त्रिंशं धृतनिस्त्रिंशं योगीन्द्रमिदमब्रवीत् 'महात्मन्नद्भुतस्फूर्तिरियं मूर्तिस्तंवोर्जिता । साम्राज्यलक्षणैरेतैर्न ब्रूते योगिमात्र ताम् 'इदं लोकद्वयापथ्यं, कर्म धर्मविदांवर 11 न शक्यं वक्तुमप्युच्चैस्तत् किमर्थं त्वयाऽर्थ्यते ? ॥ २०४ ॥ 'सन्तो पथपान्थानां, परेषां पथदेशकाः । आत्मनैव कथङ्कारं, प्रथयन्त्यपथे पदं ॥ २०५ ॥ · तदस्या ननु योगीन्द्र !, जीवितव्यप्रदानतः । अतिथेर्मे समेतस्य कर्तुमातिथ्यंमर्हसि 'अथ कन्याशिरोदेशाद्, विनिवर्तितया दृशा । पश्यन् नरेन्द्रं योगीन्द्रः, प्राह साहसिकाग्रणीः ॥ २०७ ॥ | जगत्त्रयपवित्रेणे, सच्चरित्रेण चामुना । श्रीपुषा वपुषा च त्वं, चक्रवर्तीव लक्ष्यसे तन्ममास्मिन्नकृत्येऽपि, प्रवृत्तेः शृणु कारणम् । विश्वासभाजनं कस्य, भवन्ति न भवादृशाः ?' ॥ २०९ ॥ ' तुङ्गशृङ्गसमूहेन, नभः कवलयन्निव । अस्ति विस्तारवित्ताढ्यो, वैताढ्यं इति पर्वतः ॥' २१० ॥ 'तत्राहमुत्तरश्रेणौ, विद्याधरपतेः सुतः । कुलक्रमागतां विद्यामद्भुतामपराजिताम् `आराधयितुमारेमे, तथा तद्ध्यानमानसः । दिनेष्वपरिपूर्णेषु, साक्षादेषा यथाऽभवत् ॥ २१२ ॥ 'अभाषिष्ट च तुष्टाऽस्मि, वत्स ! त्वत्सेवयाऽनया । मदाज्ञया पुनः सेवामुत्तरां कर्तुमर्हसि 'द्वात्रिंशल्लक्षणां नारीं, नरं वाऽद्भुतविक्रमम् । हुत्वाऽग्निकुण्डे त्वं वत्स !, वरेण्यं वृणुया वरम् अथैतदन्यथाकारं, करिष्यसि वचो मम । स्फुटिष्यति ततस्तूर्ण, मूर्धा तव सहस्रधा 'अन्तर्हितायां चैतस्यां, तदर्थ पृथिवीमटन् । दृष्ट्वा सिंहपुराधीशसुतामेतामिहानयम् 'तन्महात्मंस्त्वमेतस्याः, प्राणत्राणपरायणः । सिद्धेर्मम परार्थैकनिम्न ! किं यासि विघ्नताम् ? ॥ 'अस्या विवेकिन्नेकस्या, जीवितं ते समीहितम् । भूतधात्रीं परित्रातुर्न पुनर्नृपतेर्मम भुवि ख्यातप्रथो वाचमथोवाच धराधवः । भद्र ! क्षुद्रधियां गच्छस्यध्वन्यध्वन्यतां कुतः ? ॥ २१९ ॥ 'परेषां पोष्यमात्मानं, सर्वे कुर्वन्ति जन्तवः । जगदप्यात्मनः पोष्यं, कश्चित्तु कुरुते पुमान् ॥ २२० ॥ निर्मथ्य धर्ममत्यर्थमर्थमावर्जयन्ति ये । द्रुमं समूलमुन्मूल्य, फलानि कलयन्ति ते 'किञ्च दृष्टं श्रुतं वाऽपि, स्त्रीवधाद् देवतार्चनम् ? । तन्मन्ये वञ्चितोऽसि त्वं, छलाद् देवतया तया ॥ अथ देव्या वचस्तथ्यं, तथाप्येषा विमुच्यताम् । हुत्वा मदीयं मूर्द्धानं भव पूर्णमनोरथः 'एवं च कुर्वता स्वस्य, कन्यायाश्च ननु त्वया । परार्थसिद्धिलुब्धस्य, ममाप्युपकृतं भवेत् ॥ गिरं श्रुत्वेति गम्भीरामभयङ्करभूभुजः । योगीन्दुरवदद् दन्तद्युतिद्योतितदिच्म्मुखः 'अप्राकृतगुणाधारस्तवाकारोऽयमद्भुतः । प्राह साहसिकप्रज्ञामवज्ञातबृहस्पतिम् सौभाग्य-भाग्ययोर्गेहं, देहं त्वन्यार्थमुत्सृजन् । स्वार्थाद् भ्रष्टोऽसि दूरेण, स्वार्थभ्रंशो हि मूर्खता ॥ २२७ ॥ यदि चात्मव्ययेनैतां, वनितां त्रातुमिच्छसि । ततः सकर्ण ! खर्णेन, क्रेतुं रीतिं समीहसे ॥ २२८ ॥ भूपतिः प्राह भो मित्र !, तव स्नेहोचितं वचः । अन्यः कोऽपि पुनः स्वार्थः, परमार्थविदां मतः ॥ २२९ ॥ 'दानं धनं क्षमा शक्तिरुन्नतिर्गुरुसन्नतिः । स्वार्थः परार्थनिष्पत्तिर्मेने लोकोत्तरैर्नरैः
॥ २१६ ॥
२१७ ॥
॥ २१८ ॥
॥ २२१ ॥
२२२ ॥
॥
२२३ ॥
२२४ ॥
॥ २२५ ॥
॥ २२६ ॥
॥ २३० ॥
१ वोचिता संता० ॥ २ण, सुचरि पाता । 'ण सचरि खता० ॥ ३ नेषु परि aato खंता ॥ ४ 'मेनामि' पाती० खता ॥ ५ त्रीपरि ता० ॥ ६ ज्ञानाव' पाता ||
2
1