________________
सर्गः ]
धर्माभ्युदयमहाकाव्यम् ।
॥
१७२ ॥
१७३ ॥
॥ १७४ ॥
।। १७५ ।।
॥
१७६ ॥
॥
॥
देशैकदेशो देशो वा, पादान्तिकमुपेयुषे । युक्तं यन्नृपपुत्राय, प्रेमपात्राय दीयते सकलं राज्यमुत्सृज्य, गात्रमात्रपरिच्छदः । कथं पत्नीजनस्यापि, स्वाननं दर्शयिष्यसि ? ॥ नृपतिस्तावदेवासि, यावल्लक्ष्मीरभङ्गुरा । भङ्गुरायां पुनस्तस्यां, नृपत्तिर्भवसि क्षणात् उश्थते निधनावस्थो, नरः स्कन्धेन बन्धुभिः । त्यज्यते निर्धनावस्थः, सोदरैरपि दूरतः आश्रितस्य श्रिया पुंसः, स्युर्ये लोकम्पृणा गुणाः । त एव तद्विमुक्तस्य, जगदुद्वेग हेतवः अभ्यधादथ भूमीन्दुस्त्वं लोकोचितमुचिवान् । तत्त्वस्पृशा दृशा किन्तु, सचिवोच्चैर्विवेचय ॥ . श्रियो वा स्वस्य वा नाशे, येनावश्यं विनश्यते । श्रीसम्बन्धे बुधाः स्थैर्य बुद्धिं बध्नन्तु तत्र किम् ? अहमस्याः पतिः सेयं, ममैवेत्यभिमानिनः । भुवा भोगार्थिनः के वा, वेश्ययेव न वञ्चिताः १ ॥ पत्रपात्रीव धात्रीयं, भुक्त्वा त्यक्ता महात्मभिः । विगृह्य गृह्यते लुब्धैः, कुक्कुरैरिव ठकुरैः यः श्रियं सुकृतक्रीतीं, सुपात्रे नैव निक्षिपेत् । विदुषोऽप्यस्य सोत्कर्षा, कर्षुकादपि मूर्खता वर्धयेद्धान्यवीजं हि, क्षेत्रे निक्षिप्य कर्षुकः । निधाय न पुनर्गेहे, मूलनाशं विनाशयेत् पुंसस्तस्य वटस्येव, विटस्येव च वैभवम् । निःश्वस्य गम्यते यस्मादकृतार्थैः फलार्थिभिः भाग्यैरावर्जितैर्लक्ष्मीस्त्यक्ताऽप्यभ्येति वेश्मनि । गृहादपि बहिर्याति, तैरनावर्जितैः पुनः राज्यभूमीरुहो मूलं, श्रीवशीकार कार्मणम् । भाग्यमावर्जयन्तं मां, तन्मन्त्रिन् ! मा निवारय ॥ १८५ ॥ प्रतिबोध्येति मन्त्रीशं, धात्रीशो' मेघवाहनम् । भद्रपीठे प्रतिष्ठाप्य, प्रसभादभ्यषिञ्चत ॥ १८६ ॥ तस्मै राज्यश्रियं यच्छन्, धन्यां कन्यामिवात्मनः । देशं कोशं च सैन्यं च, सर्वमूर्वीपतिर्ददौ ॥ १८७ ॥ अभयङ्करदेवस्य, लोकमेकाग्रमानसः । आरादाराधयामास, सुतन्मेघवाहनः अथाऽभयङ्करक्ष्मापस्तमापृच्छ्य बलादपि । कृतानुगमनान् पौरा - ऽमात्यादीन् विनिवर्त्य च ॥ विहाय वाहनश्रेणिमपि विश्राणितां स्वयम् । सत्पात्रदत्तसर्वस्वमात्मानमनुमोदयन् एकोऽप्यद्भुतमाहात्म्यात्, परिवारैरिवावृतः । पाणौ कृपाणं विभ्राणः प्रतस्थे तीर्थकौतुकी ॥ १९९ ॥ ॥ विशेषकम् ॥
॥
१८२ ॥
॥ १८३ ॥ ॥ १८४ ॥
)
॥
॥ १९० ॥
॥
१३
१७७ ॥
१७८ ॥
१७९ ॥
१८० ॥
१८९ ॥
१८८ ॥
१८९ ॥
यामिन्यामन्यदा धीमानन्तःकान्तारगह्वरम् । शुश्राव करुणध्वानमध्वानमतिलङ्घयन् ॥ १९२ ॥ ध्वनेस्तस्यानुसारेण, करुणाञ्चितचेतनः । स विवेश विशामीशः, सत्वरं गिरिगह्वरम् ॥ १९३ ॥ तस्मिन् गुरुगुहागर्मव्यापारितविलोचनः । अपश्यन्मण्डलं कुण्डप्रज्वलज्वलनोज्ज्वलम् तदन्तिकनिषण्णां च, वनितां नवयौवनाम् । शापादिव दिवः सस्तां, पुरन्दरपुरश्रियम् जानुयुग्मान्तरन्यस्तव्यस्तालकमुखाम्बुजाम् । भय-शोकातिरेकेण, तनूकृततनुद्युतिम् योगिनोद्यतखङ्गेन, वीक्षितां क्रूरचक्षुषा । तनूमिव निशाभर्तुः, सैंहिकेयकटाक्षिताम् करवीरखजा रक्तचन्दनेन च चर्चिताम् । असौ विलोकयामास, विलपन्तीमिदं मुहुः ॥ १९८ ॥ ॥ कलापकम् ॥
॥ १९७ ॥
दूरात्मनो मुखादस्य, निषादस्य हठादपि । योऽपकर्षति मां तेन, किमु शून्या जगत्त्रयी ! ॥ १९९ ॥ अहो ! मे मन्दभाग्याया, धर्मः स भगवानथम् । जगत्त्राणप्रवीणोऽपि, विपरीतो विवर्तते ॥ २०० ॥
१क्ष्मीर्मुक्ताऽप्यपाता• ॥ २ शो धनवाहनम् संता• ॥ ३ बद् घनवाहनः खंता० ॥
॥ १९४ ॥
॥
१९५ ॥
॥ १९६ ॥