________________
सङ्घपतिचरितापरनामक
__ [द्वितीयः दुःखधर्मोपतप्तस्य, जगतो नीवनं द्वयम् । पुष्करावर्तमेघो वा, सज्जनो वाऽद्भुतोदयः - ॥ १४१॥ श्रितोऽस्मि त्वां जगन्मित्रं, तज्जीवितमहीतलम् । विपक्षण क्षयं नीतः, शीतद्युतिरिवारुणम् ॥ १४२ ॥ तगरानगरीशेन, यतोऽकारणवैरिणा । विगृह्य जगृहे राज्यं, बलिना च्छलिना च मे ॥१४३ ॥ तत्खड्गविद्यादानादित्वदवष्टम्भवैभवात् । यथा श्रियं श्रयामि स्वां, पृथ्वीनाथ ! तथा कुरु ॥ १४४ ॥ इति विज्ञापितो राजा, प्रतिश्रुत्य तथैव तत्। प्राहिणोत् प्रतिहारेण, सहितं स्वागताय तम् ॥ १४५॥ अथोचे सुमतिर्मन्त्री,स्वच्छ! स्वच्छन्दचारिता । वारिता नीतिशास्त्रेषु, कथमाद्रियते त्वया ? ॥ १४६ ॥ अस्मै साहाय्यकामाय, सिद्धिातुं न वुध्यते । आरामिकः किमारामं, दत्ते पुष्प-फलार्थिनाम् ? ॥ १४७ ॥ चतुरङ्गचमू-देश-कोशप्रभृतिभिः प्रभो ! । स्वगृहाङ्गणमायातं, तत् कृतार्थय पार्थिवम् ॥१४८ ॥ भूपोऽभ्यधत्त मन्त्रीश!, समीचीनमिदं वचः। किन्तु वन्ध्याः कला यासां, न परोपकृतिः फलम् ॥ १४९॥ 'जायन्ते जन्तवः कुक्षिम्भरयो भूरयो न किम् ।। परार्थाः सिद्धयो यस्य, सजातः स च जीवति ॥ १५० ॥ पाने हि योजिता विद्या, क्षेत्रे चारोपिता लता । मनोरथपथातीतं, प्रसूते फलमद्भुतम् ॥१५१ ॥ कामं कलासमृद्धोऽस्तु, सगर्वः शर्वरीवरः। क्षीणोऽपि पूज्यते किन्तु, कलाभिः प्रीणितामरः ।। १५२ ॥ इति सम्बोध्य मन्त्रीशं, मुहूर्ते शुभशंसिनि । खगसिद्धिं ददौ तस्मै, नृसिंहाय महीभुजे ॥ १५३ ॥ कृतसाहायकः सैन्यैरदैन्यैः सिद्धवैभवः । सोऽजैपीत् सङ्गरोत्सङ्गे, तगरानगरीश्वरम् ॥१५४ ॥ क्षीणशक्तित्रयः सोऽपि, नृसिंहहृतवैभवः । व्यभावयदहो ! दैवं, नैवं मे हृदयेऽप्यभूत् ॥ १५५ ॥ भ्रष्टराज्यद्वयः सोऽहं, दुःस्थावस्थः करोमि किम् ।। अथवा यस्य साहाय्यादनेनौर्जित्यमर्जितम् ॥ १५६ ॥ अभयङ्करभूपालं, तमनुप्रविशाम्यहम् । येन स्याद् वहिदग्धानां, बहिरेव महौषधम् ॥ १५७ ॥युग्मम्।। विपश्चिदिति निश्चित्य, नगरी पुण्डरीकिणीम् । आगत्य नत्वा भूमीशं, समयज्ञो व्यजिज्ञपत् ॥ १५८ ॥ देव! त्वमेव नाम्नाऽपि, कर्मणाऽप्यभयङ्करः। नाममात्रेण कीटोऽपि, वर्ण्यते विन्द्रगोपकः ॥ १५९ ॥ स्युर्यस्मिन्नथिसार्थस्य, फलवन्तो मनोरथाः । तेनैव नररत्नेन, रलगभेंति भूरभूत् ॥१६० ।। तदेवं देव ! नावा, विद्यते त्वयि किश्चन । परं तथापि वाल्लभ्यात् , त्वमुपालभ्यसे मया ॥ १६१ ॥ 'अहं हि तगरापुर्या, नृपतिर्घनवाहनः । हृतराज्यो नृसिंहेन, त्वत्प्रसादोन्मदिप्णुना ॥ १६२ ॥ कुमुदस्य श्रियं हृत्वा, निधत्ते रविरम्बुजे । इन्दुरप्युदयं प्राप्य, कुरुते तद्विपर्ययम् . ॥ १६३ ।। राज्यं तन्मे त्वयाऽऽच्छिद्य, नृसिंहाय प्रयच्छता । आत्मा लोकोत्तरः सम्प्रत्येतयोः सदृशीकृतः ॥ १६४ ॥
॥ युग्मम् ॥ जगदुच्छ्वासिनः सन्तस्तुल्या हि स्वा-ऽन्यपक्षयोः। नासावंशा इवोत्तुङ्गा, वाम-दक्षिणनेत्रयोः ॥ १६५॥ किञ्चोपकर्तुमार्तानामलङ्कर्मीणबुद्धिना । त्वादृशानां घनानां च, विदधे विधिना जनिः ॥ १६६ ।। राजेन्द्र ! तन्ममापि त्वं, ममत्वं हृदये दधत् । राज्यश्रीभ्रंशसन्तापव्यापदं हर्तुमर्हसि ॥१६७ ॥ अथ पृथ्वीपतिः प्राह, लजावनमिताननः। यन्मे दूरस्थितस्याभूत् , तत् त्वया मृष्यतामिति ॥ १६८ ॥ मदभ्यर्थनया राज्यं, देश-कोश-वलान्वितम् । मामकीनमधिष्ठाय, वं सखे ! सुखितो भव ।। १६९ ॥ उक्त्वेत्यस्याभिषेकाय, यावदादिशति स्म सः । मन्त्रीशः सुमतिस्तावत् , साक्षेपमिदमब्रवीत् ॥ १७० ॥ वारं वारं विभो ! केयमनालोचितकारिता । प्राणैरप्ययंते राज्यं, यत् तत् त्याज्यं क्वचिद्भवेत् ॥१७१॥
१ तो जनः खता• ॥ २ द्धोऽपि, सगर्वः खता० ॥ , .." । ।