________________
सर्गः]
धर्माभ्युदयमहाकाव्यम् । तेजश्छटासटे याते, तदा देशान्तरं हरौ । भ्रान्तैरिभनिभैर्ध्वान्तैनभःकाननमानशे ॥१११ ॥ तमःकञ्चुकमाच्छिद्य, करैरुज्ज्वलयन् मुखम् । निशाकृशाझ्याः प्राणेशो, दूरदेशादुपागमत् ॥ ११२ ॥ अथ पृथ्वीपतेः पुत्रः, पवित्रस्तेन योगिना । जगदेकमहावाहुर्जगदे मुदितात्मना ॥११३ ॥ सन्ति मे शतशो विद्या, निरवद्या नृपात्मज !। तासामथ यथापानं, क्वचित् काश्चिन्नियोजिताः ॥ ११४ ॥ परमद्यापि विद्याऽस्ति, खड्गसिद्धिनिवन्धनम् । ममैका साऽनुरूपस्य, पात्रस्यामावतः स्थिता ॥ ११५ ।। एतस्याः सिद्धविद्यायाः, स्मरणेन रणे नरः । भवेदपि परोलक्षविपक्षविजयक्षमः ॥११६ ॥ यद्यपि प्राप्य यो विद्या, कयाचिदपि शङ्कया। नियोजयति नान्यत्र, स विद्यावधपातकी ॥ ११७ ॥ तथापि तस्याः सत्पात्रं, प्राप्नोति न यदा नरः । तदा श्रेयस्तमो मन्ये, निराम्नायः किल क्षयः ॥ ११८ ।।
॥ युग्मम् ॥ असामितविद्यस्य, मम स्यादधमर्णता । असत्पात्रे तु विन्यासो, विद्याविप्लवकारणम् ॥ ११९ ।। आयुश्च स्वल्पमेवैतदितो व्याघ्र इतस्तटी । इति कर्तव्यतामूढमानसो यावदस्म्यहम् ॥१२०॥ तावद् विद्येयमागत्य, खयमेव पुरो मम । चिन्तां त्वं वत्स! मा कार्षीरित्यवोचत सादरम् ॥ १२१ ॥ अद्य प्रातर्गुणग्रामरामणीयकमन्दिरम् । समानेष्यामि सत्पात्रभूतं कमपि पूरुषम् ॥ १२२ ॥ त्रैलोक्यमण्डनप्राये, तस्मिन् मां पुरुषाद्भुते । सम्यग् विन्यस्य सन्न्यस्य, शरीरंत्वं सुखी भव ॥ १२३ ॥ अर्थतया त्वमानीतः, प्रेषितान्निजचेटकात् । प्रतिपद्यस्व तद् विद्यामित्युक्ते सोऽप्यदोऽवदत् ॥ १२४ ॥ एतावतैव धन्योऽस्मि, दृष्टवान् यत् तव क्रमौ । तद् विद्यया किमद्यापि, कृत्यं सद्विद्य ! विद्यते ॥ १२५ ॥ सिद्धिसौधानसोपानं, श्रीवशीकारकारणम् । कल्याणसम्पदादर्शो, दर्शनं हि महात्मनाम् ॥ १२६ ॥ योगीन्द्रोऽप्यब्रवीद् भद्र !, जगद्भद्रङ्करश्रियः। भवन्ति हि भवाहक्षाः, कल्पवृक्षा इव क्षितौ ॥ १२७ ॥ परं तथाऽपि मे विद्यां, गृहाणानुगृहाण माम् । ऋणं गुरोर्मयि च्छिन्दन्नुपकारपरो भव ॥ १२८ ।। इत्युक्त्वा खड्गसिद्धिं तां, दत्त्वा सत्वानुरञ्जितः । योगीन्द्रः प्रापयामास, कुमारं पितुरन्तिके ॥ १२९ ।। अथाकस्मान्नृपो दृष्ट्वा, तं समायातमात्मजम् । नगरं कारयामास, महोत्सवमयं तदा ॥ १३० ॥ पृथ्वीनाथेन पूर्वेषामथ प्रस्थास्नुना पथि । कुमारो राज्यदानार्थमर्थितोऽत्यर्थमब्रवीत् ॥१३१ ॥ गृहामि नाहं साम्राज्यं, तात ! पातकपातकम् । कर्तुमभ्युत्सहे किन्तु, त्वत्सेवामेव केवलम् ॥ १३२ ॥ यातस्ताताग्रतः पद्भयां, प्रियाः प्रस्वेदविन्दवः । न तु मे त्वद्विमुक्तस्य, मौलौ मुक्ताफलस्रजः ॥ १३३ ।। अनिच्छतोऽप्यथैतस्य, क्षेमङ्करनरेश्वरः । अर्पयामास साम्राज्यमभिषेकपुरःसरम् ॥१३४ ॥ अथ क्षेमङ्करः मामृद्, दक्षो दीक्षामुपाददे । अभयङ्करभूपालः, पालयामास तु क्षितिम् ॥ १३५ ।। राज्यभारधुरं विभ्रन् , न्यायधर्मधुरन्धरः । अयमानन्दयामास, प्रजा इव निजाः प्रजाः ॥१३६ ॥ तस्य कल्पद्रुमस्येव, सर्वतोऽप्युपकुर्वतः । दिशोऽधिवासयामास, यशःकुसुमसौरभम् ॥ १३७ ॥ ___ अथान्यदाऽस्य भूभर्तुर्धर्मासनमुपेयुषः । सदासदनमभ्येत्य, प्रतीहारो व्यजिज्ञपत् ॥ १३८ ॥
प्रमो ! पुष्पपुरस्वामी, नृसिंहः सिहविक्रमः । बहिः स्वल्पपरीवारो, देवपादान् दिक्षते ॥ १३९ ॥ , 'अथ भूभर्तुरादेशात् , प्रावेशयदसौ नृपम् । सोऽप्यासन्नासनासीनः, सप्रश्रयमदोऽवदत् ॥१४० ॥
१ शादथाऽऽगमत् खंता० पाता० ॥ २ वता० पाता. युग्मम् इति नास्ति ॥ ३ मागत खंता० पाता०॥ पातुकम् पाता०॥