________________
[द्वितीयः
सङ्घपतिचरितापरनामकं किमिन्द्रजाल कि स्वप्नः ?, किं वाऽयं विभ्रमो मम ?।इत्यनल्पैर्विकल्पौषैस्तस्य दोलायित-मनः ॥ ८२ ॥
युग्मम् ॥ .. अत्रान्तरे विनीतात्मा, दिव्यरूपधरः पुरः । गिरं शुचिस्मितां कश्चित् , कुमारं प्रत्यभाषत ॥ ८३ ॥ विस्मयं धीर! मा कार्षीस्त्वं मयाऽपहृतोऽसि यत् । ज्ञाताऽसि.तु स्वयं प्रातरपहारस्य कारणम् ॥ ८४ ॥ इति श्रुत्वा कुमारोऽपि, यावद् वदति किञ्चन | भेजे तावदश्यत्वं, स दिव्यपुरुषः क्षणात् ॥ ८५ ॥ किमेतदिति तस्याथ, विस्मयस्मितचेतसः । तथैवावस्थितस्याप, क्षणेन क्षणदा क्षयम् ॥८६॥ अथोत्थाय कुमारोऽसौ, कौतुकोत्तानमानसः । वनं विलोकयामास, हर्षसोत्कर्षलोचनः , ॥ ८७ ॥ वनं; स मेने सच्छायवृक्षच्छन्नदिगन्तरम् । भयादिव दिवा मानोः, पिण्डीभूय स्थितं तमः ॥ ८८ । स्थूलस्थुलतुलैः शैलैस्तनिकाकारनिझेरैः । स्कन्धावारः स्मरस्येव, जहारास्य वनं मनः ॥.८९ ॥ तद्वनं खर्वधूमुक्तकुञ्जपुञ्ज विलोकयन् । स मानसं सरोऽपश्यदात्ममानसनिर्मलम् ॥९॥ कुमारः कनकाम्भोजैर्भूषितं वीक्ष्य तत् सरः । दिग्वधूदर्पणं मेने, सङ्घान्तवदनाम्बुजम् ॥ ९१ ॥ अथास्य सरसो नीरे, समीरेरितवारिजे । उचितां शुचितां कृत्वा, बभ्राम विपिने पुनः ॥९२ ॥ अथाग्रतो गतो भूपनन्दनो वन्दनोचितम् । दर्शनीयं ददर्शोच्चैर्मठं कञ्चन काञ्चनम् ॥ ९३ ॥ उद्दामविस्मया-ऽऽनन्ददत्तहस्तावलम्बनः । कुमारोऽथ समारोहूत् , तस्य प्रथमभूमिकाम् ॥ १४ ॥ विलोकयन्नयं तस्य, मठस्य रमणीयताम् । क्रमेणोपरि भूभागमाप निष्पापमानसः ॥९५ ॥ अथ तत्र स्थितं कञ्चिद्, दिव्याकृतिघरं पुरः । योगपट्टपरीताङ्गमक्षसूत्रपवित्रितम् ॥९६ ॥ पश्यन्तमन्तरात्मानं,विनिवारितमारुतम् । असौ योगीन्द्रमद्राक्षीत् , साक्षाद् योगमिवाङ्गिनम् ॥ ९७ ॥
॥ युग्मम् ॥ प्रणम्याग्रे निविष्टेऽस्मिन् , समाधिमवधूय सः । ऊचे मधुमुचं वाचं, वाचंयमचमूपतिः ॥९८ ॥ स्वागतं भवतः श्रीमन् !, राजपुत्राऽभयङ्कर ! । मया त्वमत्रानीतोऽसि, विनीत ! हितहेतवे ॥ ९९ ॥ सोऽप्यूचे स्वागतं तात !, त्वयि दृष्टे ममाधुना । यत् पुण्यं जन्मिनां जन्म, दर्शनेन महात्मनाम् ॥ १०० ॥ इत्थं वदत एवास्य, कुमारस्य क्षणादयम् । विधिवद् विदधे ध्यानमानन्दैकमना मुनिः ॥ १०१ ॥ अथाम्बरपथेनैव, भास्वरस्वर्णभाजना । आगान्मत्र्येण्वसम्भाव्या, भव्या रसवती पुरः ॥१०२ ॥ जंगाद योगी राजेन्दुनन्दनं तदनन्तरम् । अतिथिस्त्वं ममाद्यार्सि, कुमार ! कुरु भोजनम् ॥ १०३ ॥ अथ स्वर्णमयं स्थालं, स्वयमेव पुरोऽभवत् । यथेष्टभोज्यसम्पूर्णमेकैकमुभयोस्तयोः ॥ १०४ ॥ कृतभोजनयोर्जज्ञे, करकः पुरतोऽम्बरे । तेन प्रदत्ताचमनावुभावप्युत्थितौ ततः । ॥ १०५॥ अथ हुकारमात्रेण, योगिनोऽस्य महात्मनः। यथाऽऽयातं तथा यातं, रसवत्या तया पुनः ॥ १०६ ॥ चन्दना-गुरु-कर्पूरपूरसौरभसम्भृतम् । ताम्बूलमुभयोः पाणौ, कुतोऽप्युपनतं स्वयम् ॥ १०७ ॥ अथो यथोचिते स्थाने, सुखविश्रान्तयोस्तयोः । अयत्नोपनतं वेणु-वीणादिध्वनिबन्धुरम् ॥ १०८ ॥ स्थान-मान-यति-ग्राम-लयन्त्रयपवित्रितम् । तदा तत्राभवद् दिव्यं; सङ्गीतं प्रीणितश्रुतिः ॥१०९॥
॥ युग्मम् ॥ इत्थं विनोदसन्दोहैस्तस्यापहृतचेतसः । ययौ निदाघदीर्घोऽपि, निमेष इव वासरः ॥११० ॥
१ लस्थलच्छलैः खंता०॥ २ 'रसस्तीरे, खता०॥