________________
सर्गः
धर्माभ्युदयमहाकाव्यम् । कायोत्सर्गस्थितान् काँश्चिदितरान् ध्यानबन्धुरान् । स्वाध्यायधन्यानन्यॉस्तु, प्रत्युपेक्षापरान् परान् ॥५६॥ स प्रणम्य क्रमादेतान् , धर्म्यकर्मसु कर्मठान् । गुरोः पुरस्तादासीनः, कृताञ्जलिरदोऽवदत् ॥ ५७ ॥
॥ युग्मम् ।। समायाताःस्थ सार्थेऽस्मिन् , वचनैर्मम निर्ममाः।। चक्रे मया न चिन्ताऽपि, सन्तापि हृदयं ततः ॥ ५८ ॥ महामोहस्य माहात्म्यात् , तदिदं स्खलितं मम । सर्व क्षन्तव्यमव्यग्रमतिभिर्मुनिपुङ्गवः ॥५९ ॥ अथो गुरुरभाषिष्ट, कष्टमेतन्मुधैव ते । सार्थाधीश ! किमस्माकं, न हितं विहितं त्वया ? ॥ ६० ॥ संसार इव दुर्लके, कान्तारेऽस्मिन् महामते ।। भवता दुष्टकर्मभ्यो, दस्युभ्यो रक्षिता वयम् ॥ ६१ ॥ मुनीनामन्न-पानादि, सर्वमेते यथोचितम् । सार्थवाह ! प्रयच्छन्ति, सार्थिकास्ते निरन्तरम् ॥ ६२ ॥ धनोऽप्यूचे गुणमयं, मन्यन्ते गुणिनो जगत् । वसुधा हि सुधाभानोः, सुधाधौतेव भासते ॥ ६३ ॥ तत् कल्पनीयमाहारमिदानी दित्सुरस्म्यहम् । मुनीन् प्रेषयताऽऽवासं, प्रति सद्यः प्रसद्य मे ॥ ६४ ॥ वर्तमानेन योगेनेत्युक्ते भगवताऽथ सः । प्राप्तः स्वावासमासन्नबोधिः शोधितमानसः ॥६५॥ 'गुरोरथ समादेशाद्, गृहायातं मुनिद्वयम् । कल्प्यान्तरस्याभावेन, स स्वभावेन शुद्धधीः ॥६६॥ श्रद्धया प्राहयामास, सर्पिरुत्सर्पिवासनः । सङ्ख्यातीतगुणं बोधिबीजं प्राप्येय निर्वृतः॥ ६७ ॥ युग्मम् ॥ धर्मलाभोऽस्त्विति स्पष्टमिष्टमाशीर्वचो मुनी । दत्त्वा धनाय नम्राय, जग्मतुर्गुरुसन्निधौ ॥६८ ॥ अथाहायापराहेऽपि, धनोऽपूर्णमनोरथः । गुरुपादान्तिकं प्राप, निन्दन्नात्मानमात्मना . ॥ ६९ ॥ अथारेमे मुनीन्द्रेण, देशना क्लेशनाशनी । त्वं नात्मनिन्दया दुःखं, महात्मन् ! कर्तुमर्हसि ॥ ७० ॥ स्वार्थीकृतपरार्थेन, चरितेनामुना भवान् । लोकोत्तरश्रियां नूनं, भविष्यति निकेतनम् ॥७१ ॥ महात्मनां ह्ययं पन्थाः, क्षुण्णः पुण्यात्मभिर्नृभिः । यत् परप्रीणनं नाम, प्राणैरपि धनैरपि ॥ ७२ ॥ अस्मिन्नर्थे कथं सार्थवाह ! विश्वकपावन ! । अभयङ्करभूभर्तुर्न श्रुतं चरिताद्भुतम् ? ॥ ७३ ॥ अभयङ्करनृपचरितम्
यथाऽपरविदेहेषु, विद्यते भूविभूषणम् । विजये पुष्कलावत्यां, नगरी पुण्डरीकिणी ॥ ७४ ॥ तस्यां विश्राणितक्षोणिक्षेमः क्षेमङ्करो नृपः । तस्य चाऽमरसेनेति, बभूव प्राणवल्लभा ॥७५ ॥ अर्धरात्रेऽन्यदा देवी, लग्ने सर्वग्रहेक्षिते । चतुर्दशमहास्वप्मसूचिताद्भुतवैभवम् ॥ ७६ ॥ देवपूजा-दया-दान-दीनोद्धारादिदोहदैः । प्रकाशितगुणग्राम, सुतरत्नमसूत सा ॥७७॥ युग्मम् ॥ पिता हर्षप्रकर्षेण, कृतामृतमहोत्सवः । अभयङ्कर इत्यस्य, समये चाभिधां व्यधात् ॥७८ ।। बद्धमानः क्रमात् पर्वशर्वरीरमणोपमाम् । लेमे कुमारः कलयन् , सकलः सकलाः कलाः ॥ ७९ ॥ निद्राविरामे भूपालतनयोऽपश्यदन्यदा । आत्मानं काननस्यान्तः, पश्चिमाहरे निशः ॥ ८० ॥ न तत् पुरं न तद् गेहं, न स लोको न सा रसा । अदृष्टपूर्वः सर्वोऽयं, प्रदेशः प्रतिभाति मे ॥ ८१ ॥
१ दुर्लक्थे, का खता० पाता० ॥ २ सार्थाधीश ! प्रय खता०॥ ३ "निधिम् खंता० पाता० ।। ४ नोद्धरणदों खंता० ॥ ५निशि खंता०॥
घ० २