________________
सङ्घपतिवरितापरनामक
[द्वितीयः अधीयैरौक्षकर्मानुष्यकैरथ्यामिरौष्ट्रकैः । धनश्चचाल वैपुल्यं, विपुलाया विलोपयन् ॥२६॥ धने प्रचलिते कम्पं, भेजे विश्वम्भरा भरात् । विपरीतममुं सर्वाः, सरितः परितः पुनः ॥२७॥ केकिपत्रातपत्रेषु, वहत्सु जलदश्रियम् । दधे तडिल्लतालक्ष्मी, स्फुरन्ती कुन्तसन्ततिः ॥२८॥ धनदृष्ट्या सुधावृश्या, ग्रीष्मेऽपि प्रस्ततापया । न सार्थः प्रार्थयामास, धारागृहमहोत्सवम् ॥२९॥ स. यावदटवीं काञ्चित् , कैश्चित् पाप प्रयाणकैः । मार्ग एवाभवत् तावत् , कालो मुदिरमेदुरः ॥ ३०॥ यथा यथा धरापीठे, धारा धाराधरोऽमुचत् । शरानुरसि पान्थानां, मन्मथोऽपि तथा तथा ॥ ३१॥ . वारिधाराभिराशय, शके पकेरुहक्षयम् । अन्तर्दधे किल द्रष्टुमक्षमः पद्मबान्धवः ॥३२॥ . साचिव्यं स्मरसाम्राज्ये, किमस्य मयि गर्जति ? । इतीवाभ्युन्नतिं प्राप्य, पयोदः पिदधे विधुम् ॥ ३३ ॥ खेदविस्फारसूत्कारा, दुर्दिनश्यामलद्युतः । पान्थाश्चरन्तः पङ्कान्तर्भेजिरे गूढपादताम् ॥ ३४ ॥ पान्थानां गच्छतामग्रे, प्राणद्रव्योत्तमर्णकैः । नद्यो गतिनिषेधाज्ञारेखा इव कृता धनैः ॥ ३५ ॥ चापंमारोप्य पान्थेषु, स्मराज्ञाभङ्गकारिषु । वीराः पयोमुचोऽमुञ्चन् , धारा नाराचदुर्दिनम् ॥ ३६॥ ढुंगाहर्वाहिनीवाहैः, पथिभिः पङ्कसङ्घलैः । धारासारैरतिस्फारैः, क्रमोऽप्यजनि योजनम् ॥३७ ।। कष्टं दृष्ट्वाऽथ सार्थस्य, ततः सार्थपतिर्धनः । सौस्थ्येनावासितस्तस्थौ, तत्रोचैरटवीतटे ॥३८॥ स्थिते सार्थपतौ तत्र, जनानां सार्थवासिनाम् । पाथेयानि त्रुटन्ति स्म, कियद्भिरपि वासरैः ॥ ३९ ॥ अर्थ सार्थस्तपस्वीव, प्रविष्टः कष्टसकटे । कन्द-मूल-फलप्रायैर्वृत्तिं कर्तुं प्रचक्रमे ॥ ४० ॥ सार्थवाहस्तथा स्पष्टमाश्लिष्टश्चिन्तया तया । ईर्ण्ययेव यथा तस्मानिद्रया विद्रुतं द्रुतम् ॥४१॥ यामिन्याः पश्चिमे यामे, शुश्रावाथ श्रुतिप्रियम् । असौ परस्परालापं, मन्दुरा-यामपालयोः ॥ ४२ ॥ तावत् परोपकारित्वमस्य लोकस्य दयते । यावद् दुःसमयच्छमा, निकषो निकषा नहि ॥ ४३ ॥ यथा यथा पुनः कालः, करालोऽयं विजृम्भते। तथा तथाऽयं नः स्वामी, प्रतिपन्नेऽतिनिश्चलः ॥ ४ ॥ परितः प्रसरन्त्येताः, पयोदचयवीचयः। प्रतिपन्नार्थशूरस्य, प्रभोरस्य च कीर्तयः ॥४५॥ संलापमेतयोः श्रुत्वा, सर्व श्रुतवतांवरः । चित्ते सञ्चिन्तयामास, स चिद्रूपशिरोमणिः ॥ १६ ॥ ध्रुवमाभ्यामपालम्मं, लम्भितोऽस्मि स्तुतिच्छलात् । यदीडशि मया कष्टसङ्कटे पातितो जनः ॥ ४७ ॥ अथ सञ्चिन्तयन् सार्थे, सार्थेशः स सुखा-ऽसुखे । सस्मार धर्मघोषांख्यमुनेविमलमानसः ॥४८॥ अप्राशुकीकृतं धन्याः, पयोऽपि न पिबन्ति ये । कथं तेषां मुनीन्द्राणां, प्राणयात्रा भविष्यति ।।। १९ ॥ अहो । में मन्दभाग्यस्य, तथा निश्चेतनं मनः । यथा कथाऽपि साधूनां, नाकारि सहचारिणाम् ॥ ५० ॥ अत्रान्तरे पपाठोच्चैबहिर्मङ्गलपाठकः । उदयानुगतं भानोः, प्रातःसुप्रातमङ्गलम् - ॥ ५१ ॥ रुद्धोऽपि मेधैः सार्थेश !, भवानिव विमाविभुः । अमुंश्चन्नयमुत्साहमुपकारार्थमुद्ययौ ॥५२ ॥ अथ 'प्राभातिकं कृत्य, विधाय विधिवद्धनः । माणिभद्राभिघं मित्रं, पप्रच्छ जनवत्सलः ॥ ५३ ॥ धर्मघोषः प्रभुः कुत्र, कथं वा मित्र! वर्तते ।। यदहो! सुबहोः कालादद्य मे स्मृतिमागतः ।। ५४ ॥ तेनाथ कथिते तेषामाश्रमे समुपागतः । गुरूँश्च तत्पुरस्ताच, स हृष्टो दृष्टवान् मुनीन् ॥५५॥ ....१ धाय, रेखा खता० ॥ २ थपतिस्तत्र, प्रवि खता० ॥ ३ 'कटम् खता० पाता० ॥ ।
४र्थवीरस्य, खंता० ॥५ तयोः सर्वे, श्रुत्वा श्रत खंता० पाता०॥ ६षस्य, मुने खता०॥ ७ मुचन्न पाता० ॥ ८ , सुह खंता० ॥ . . . . . :