________________
सङ्घपतिचरितम् .
[प्रथमः सर्गः । विश्वसङ्कल्पकल्पद्रो !, त्वदेकमयमानसे । पुनदर्शनदानेन, प्रसीद सदयं मयि ॥ ९ ॥ ततः,प्रभुं नमस्कृत्य, सत्कृत्य सहयात्रिकान् । तीर्थानुध्यानधन्यात्मा, निवृत्तः स्वपुरं गतः ॥ १० ॥ पुण्यस्फूर्ते मुहूर्तेऽसौ, समुत्सर्पन्महोत्सवम् । रथप्रवेशमाघाय, प्रतिमामानयेद् गृहम् ॥ १०१ ।। साधर्मिक-सुहद्वन्धु-पौरधौरेयकांस्ततः। भोजनादिमिरानन्ध, कुर्यात् सङ्घस्य पूजनम् ॥ १२ ॥
॥ विशेषकम् ॥ दमेव महादानं, भावयशोऽयमेव च । इदमेव श्रियो मूलं, यदेतत् सङ्घपूजनम् ॥ १०३ ॥ इति सिद्धान्तसिद्धोऽयं, तीर्थयात्राविधौ विधिः। स्थानैश्चतुर्मिराराद्धैः, सम्यगाराधितोभवेत्॥१०॥ । तद्यथापरोपकारकरणं, ब्रह्मव्रतनिषेषणम् । यथाशक्ति तपः सम्पदीना-ऽनाथानुकम्पनम् ॥ १०५ ॥ . . स्थानान्येतानि चत्वारि, सङ्घाधिपतिना ततः। आराध्यानीच्छता पुण्यश्रियं पुण्यानुवन्धिनीम् ॥१०६॥ 'यश्चेतसा शुचितरेण चतुःप्रकारामाराधयत्यभिमतामिति तीर्थयात्राम् ।।
प्रीता स्वयंवरविधिं विदधाति तस्मिन् , सौभाग्यभाग्यवति सङ्घपतित्वलक्ष्मीः ॥ १०७ ॥ . ॥ इति श्रीविजयसेन सूरिशिष्यश्रीउदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनानि श्रीसङ्घपतिचरिते लक्ष्म्यके महाकाव्ये तीर्थयात्रा
विधिवर्णनो नाम प्रथमः सर्गः ॥ छ॥ वर्षीयान् परिलुप्तदर्शनपथः प्राप्तः परं तानयं,
'रोहन्मोहतया तया हृतपरिस्पन्दोऽतिमन्दोद्यमः । श्रीमन्त्रीश्वर वस्तुपाल ! भवतो हस्तावलम्बं चिराद्, धर्मः प्राप्य महीं विहर्तुमधुना धत्ते पुनः पाटवम् ॥ १॥ छ ।
॥ अं० १२१ ॥ छ ॥ छ ।
। १ श्लोकोऽयं खंता० पुस्तके नास्ति ।। २. दीनानामनुक° पाता० ॥ ३ ग्रन्यानं ११६ पाता० ॥