________________
सर्गः
.
MY
धर्माभ्युदयमहाकाव्यम् 'अणहिलपाटकनगराऽऽदिराजवनराजकीर्तिकेलिगिरिम् । पञ्चासराहजिनगृहमुद्दभ्रे यः कुलं च निजम्
॥ २२॥ विभुता-विक्रम-विद्या-विदग्धता-वित्त-वितरण-विवेकैः ।
यः सप्तभिर्वि-कारैः, कलितोऽपि वभार न विकारम् । वस्तुपालस्य कुलगुरवः
एतेषां च कुले गुरुः समभवन्नागेन्द्रगच्छश्रिय
श्शूडारत्नमयत्नसिद्धमहिमा सूरिर्महेन्द्राभिधः । तस्माद् विस्मयनीयचारुचरितः श्रीशान्तिसूरिस्ततो
____ऽप्याऽऽनन्दा-ऽमरसूरियुग्ममुदयञ्चन्द्रा-अर्कदीप्रद्युति ॥ २४ ॥ श्रीजैनशासनवनीनवनीरवाहः, श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः।
विद्यामदोन्मद्गदेष्वनवद्यवैद्यः, ख्यातस्ततो विजयसेनमुनीश्वरोऽयम् ॥ २५ ।। वस्तुपालस्य जिज्ञासा कदाचिदेष मन्त्रीशः,कृतप्राभातिकक्रियः । गत्वा पुरो गुरोस्तस्य, नत्वा विशो व्यजिज्ञपत् ॥२६॥ भगवन्नयमेकोऽपि, मर्त्यजन्ममहीरुहः । चतुःप्रकारः किं नाम, प्राणिभेदेन भासते? ॥२७॥ अवकेशी यदेकेषां, केपाश्चिद् विपभूरुहः । किम्पाकतरुरन्येपा, परेषां कल्पपादपः ॥२८॥ तत्र कारणं किञ्चिदभिरूपं निरूप्यताम् । कारणानां हि नानात्वं, कार्यभेदाय जायते ॥२९॥ अथोवाच गुरुः साधु, विश! जिज्ञासितं त्वया। इदं सकर्ण! निर्णीतं, सर्व सर्वविदागमे ॥३०॥ सुकृतं न कृतं किञ्चिद्, यैः प्रमादपरैः पुरा। तेषां त्रिवर्गशून्यानां, दीनानां जन्म निष्फलम् ॥३१॥ तमोमयैः पुनर्वद्धं, पापं पापानुवन्धि यैः । तत् तेषां सौनिकादीनां, परोह च दुःखदम् ॥३२॥ रजस्तमोमयैश्चक्रे, पुण्यं पापानुषङ्गि यैः । तत् तेषां म्लेच्छपादीनां, नरकान्तसुखप्रदम् ॥३३॥ पुण्यानुबन्धवन्धूनि, सुकृतानि कृतानि यैः । 'दत्ते मानुपजन्मैपां, परत्रेह च वाछितम् ॥३४॥ अथाऽऽह मन्त्री पूज्यास्तत्, कथयन्तु यथागमम् । पुण्यानुवन्धवन्धूना, सुकृतानां नियन्धनम् ॥३५॥ जगदुर्गुरको मन्त्रिन् !, श्रूयतां तद् यथागमम् । यद् विधातव्यमव्यग्रलोकैर्लोकोचरैर्नरः ॥३६|| दान-शील तपो-भावभेदभिन्नं चतुष्टयम् । पुण्यानुवन्धिपुण्यानां, नियन्धनमिदं विदुः ॥३७॥ तत्रापि मुनयः प्रादुर्भावनायाः प्रधानताम् । तयैवानुगृहीतं हि, त्रितयं तत् फलेमहि ॥३८॥
राजव्यापारस्य साफल्यम् । पावनी नावनीनाथ !, व्यापारकलुपे हृदि । आस्माकीये वसत्युचर्भावना भगवानसी ॥३९॥ इत्युक्ते मन्त्रिणाऽवोचन् ,गुरवो गौरवोचितम् । मन्त्रिन् ! नृपस्य व्यापारः, किमर्थ दुष्यने त्दया?
॥ ४० ॥ युग्मम् ।। यदयं तुच्छचित्तानामझानां क्रूरकर्मणाम् । परदार-परद्रोह-परपीडापरात्मनाम् ॥४॥ तादात्विकसुखास्वादसादरीकृतचेतसाम् । नरकालोकनेऽन्धानां, यधिराणां हितश्रुती ॥४॥
१ नास्तीदं पद्यं पाता० पुस्तके ॥ २ धने खना॥ ३ किमित्वं दू बंता० पाना !