________________
'.
सङ्घपतिचरितापरनामकं
[प्रथमः
प्रथम
सझमाहात्म्यम्
व्याप्ताशेपहरिचतुर्मुखतया तन्वन्नदीनां स्थिति,
स स्तुत्यः पुरुषोत्तमैकवसतिः श्रीसकरत्नाकरः । य संसेव्य घनाघना इव जिना धारालधर्मामृतैविश्वाश्वासनहेतवः कति न तेऽभूवन भविष्यन्ति वा? ॥१५॥
वस्तुपालमाहात्म्यम्
गुर्वाशीर्वचसां फलं निरवधि श्रीसिद्धिसिद्धौषधिः,
कीर्तिस्फूर्तिसुधासुधांशुरुदयद्दीप्रप्रभाभास्करः । मूर्तः पुण्यसमुच्चयो विजयते कोऽप्येप सङ्घाधिपः,
शङ्के यस्य विभात्यखण्डविभुतापाखण्डमाखण्डल: प्रस्तुतग्रन्थस्याभिधानम्
सङ्घपतिचरितमेतत्, कृतिनः कर्णावतंसतां नयत ।
श्रीवस्तुपालधर्माभ्युदयमहोमहितमाहात्म्यम् . वस्तुपालवंशवर्णनम्
श्रीमत्प्राग्वाटगोत्रेऽणहिलपुरभुवश्चण्डपस्याङ्गजन्मा,
जशे चण्डप्रसादः सदनमुरुधियामङ्गभूस्तस्य सोमः । आसाराजोऽस्य सूनुः किल नवममृतं कालकूटोपभुक्त___ श्रीकश्रीकण्ठकण्ठस्थलमलविपदुच्छेदकं यद्यशोऽभूत् ॥ १८ ॥ सोऽयं कुमारदेवीकुक्षिसरस्सरसिजं श्रियः सदनम् । श्रीवस्तुपालसचिवोऽजनि तनयस्तस्य जनितनयः । यस्याग्रजो मल्लदेव, उतथ्य इव वाक्पतेः। उपेन्द्र इव चेन्द्रस्य, तेजःपालोऽनुजः पुनः ॥ २० ॥ . चौलुक्यचन्द्रलवणप्रसादकुलधवलवीरधवलस्य । यो दधे राज्यधुरामेकधुरीणं विधाय निजमनुजम् ॥ २१ ॥
'१ विंशतितमश्लोकानन्तरं पाता० पुस्तकेऽधोनिष्टशितः श्लोकोऽधिक उपलभ्यते
. वस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारांत् ।
। येनापनीय नवकरमनवकरः कारयाश्चक्रे ॥ __ . . पद्यमिदं किल पञ्चदशसर्गान्तर्वरीवृत्यते सर्वासु प्रतिषु ॥ ..