________________
सर्गः].
.
धर्माभ्युदयमहाकाव्यम्। विवाहितामिवालोक्य, तामपृच्छत् प्रगे नृपः। न किञ्चिदप्युवाचासौ, रुक्मी प्रकुपितस्ततः ॥ १८९ ॥ तावेवाहूय चण्डालौ, दत्त्वा तामन्वतप्यत । मत्वा प्रद्युम्न-साम्बौ तौ, तदवाप मुदं पुनः ।। १९० ॥
ऊढवान् सुहिरण्याख्या, साम्बो हेमाङ्गदात्मजाम् । नित्यं हन्ति स्म हेलासु, भामापुत्रं च भीरुकम् अथाऽऽख्यत् केशवो जाम्बवत्यै साम्बकुचेष्टितम् ।
सा प्राह पुत्रः सौम्यो 'मे, दर्यतां कोऽस्य दुर्णयः ? ॥ १९९२ ॥ तस्याः प्रत्यायनायाथ, जाम्बवत्या समं हरिः। आभीरीभूय विक्रेतुं, तक्रं द्वारि पुरः स्थितः ॥ १९३ ।। तक्रविक्रयिणौ साम्बो, नगरद्वारि वीक्ष्य तौ । समाकारयदाभीरी, तक्रक्रयणकैतवात् ॥ १९४ ॥
सहाऽऽभीरेण साम्ब साऽन्वगाद् देवालयान्तिके।
अन्तरप्रविशन्ती तां, साम्बोऽकर्षत् करग्रहात् रे। किमेतदिति क्रुध्यन्नामीरःसाम्बमाक्षिपत् । दृष्ट्वा स माता-पितरौ, तो साक्षात् तूर्गमत्रसत् ॥ १९६ ॥ दृष्टयं सोमता सूनोराह जाम्बवतीं हरिः । कीलिकां घटयन् साम्बः, प्रातः प्राप्तः सभान्तरे ॥ १९७ ॥ क्षेप्याऽसौ बस्तनकथाक रास्ये वदन्निदम् । अन्तः कोपं च हासं च, गोपीभर्तुरवर्धयत् ॥ १९८ ॥
दुाय इति कृष्णेन, साम्बो निष्कासितः पुरात् । तस्मै प्रज्ञप्तिविद्यां तत् , प्रद्युम्नो गच्छते ददौ अन्यदा भानुकं निघ्नन् , प्रद्युम्नोऽभाषि भामया ।
रे वैरिन् ! कथमद्यापि, न पुराद् यासि साम्बवत् ? ॥ २००॥ गच्छ स्थेयं स्मशानान्तस्तदैतव्यं त्वया पुनः । यदा साम्ब करे धृत्वा, पुरान्तः स्वयमानये ॥ २०१॥
जगाम भामयेत्युक्तः, स्मशानं रुक्मिणीसुतः। मिलितस्तन्न साम्बोऽपि, स्वेच्छाचरणकौतुकी
॥ २०२॥ ' इतश्च रम्यमेकोनं, कन्याशतममेलयत् । भामा भीरुकृते किञ्च, कन्यामेकां स्म काङ्क्षति ॥ २०३ ॥ . तन्मत्वा रुक्मिणीसूनुर्विकृत्य पृतनां स्वयम् । जितशत्रुघ्रपो जज्ञे, साम्बस्तस्य तु कन्यका ॥ २० ॥ तन्मत्वा भामया प्रैषि, पुरुषो जितशत्रवे । स गत्वा प्रार्थयामास, तां कन्यां भीरहेतवे ॥ २०५ ॥ जितशत्रुरथ प्राह, तं भामाप्रेषितं नरम् । भामा यदि स्वयं हस्ते, कन्यामादाय गच्छति ।। २०६ ॥ चेत् कारयति मत्पुत्रीकर भीरुकरोपरि । पाणिग्रहणवेलायां, तद् ददामि सुतामहस् ॥२०७ ।। गत्वा तेन नरेणेति, कथिते सत्यशेषतः । तदूरीकृत्य सत्याऽपि, कन्यार्थ चलिता स्वयम् ॥ २०८ ॥
प्रज्ञप्तिं प्राह साम्योऽपि, जनोऽसौ साम्बमेव माम् ।। जानातु देवि ! भामा तु, कन्यका सपरिच्छदा
॥२०९ ॥ अथाऽऽगत्य स्वयं सत्या, कन्यामादाय तां करे । साम्बरूपतया लोकैडेश्यमानां गृहेऽनयत् ॥ २१० ॥ भीरोः करोपरि करं, साम्बः कुर्वन्नुदूढवान् । धृत्वैकोनशतस्त्रैणकरान् दक्षिणपाणिना ॥२११ ।। अथ ताभिः समं साम्बा, प्रपेदे कौतुकालयम् । भीरुस्तेन भ्रुवाऽऽक्षिप्तः, सर्वं मातुर्यवेदयत् ।। २१२ ॥
१ मे, शाठ्यं वचन दर्शय पाता० ॥ २ तच्छाध्यदर्शनायाथ, विष्णुराभीररूपभाक् । स्वसहग्रूपया जाम्बवत्या साम्बान्तिके स्थितः॥ १९३ ॥ इतिरूपः श्लोक. पाता० ॥