________________
१५२
सापतिचरितापरनामक
'बादशा अथ 'दृष्ट्या तमुत्कृष्टमुष्टिकं मौष्टिकं हली । अधावत क्रुधा विष्णुपराभवभिया विभीः । ॥ १७०ः॥ स्थिराया व्यर्थतां'नाम, नयन्तः क्रमसङ्कमैः। अथो युयुधिरे विष्णु-चाणूर-चल-मौष्टिकाः ॥ १७१ ॥ . कसे यियासौ कीनाशपुराय प्रहितौ पुरः । तौ मल्लावथ शौरिभ्यां, मार्गालोकपराविव ॥ १७२० ॥ इमौ हत हत क्षिप्रं, सह नन्देन गोमिना । वदन्तमिति भी-कोपद्विगुणस्फुरिताधरम् ॥१७३ ॥. फालाक्रान्तमहामञ्चः, सञ्चरन् पञ्चवक्त्रवत् । केशेषु केशवः कसं, कृष्ट्वाऽलूलुठदग्रतः ॥ १७४ ॥ . . ! !' ... ..
॥ युग्मम् ॥ अथ कृष्णं प्रति क्रुद्धाः; कंसगृह्या महीभुजः । मञ्चस्तम्भायुधेनोच्चैबलेन दलिता बलात् ॥ १७५॥ . कृष्णोऽपिरोपितपदः, शिरस्युरसि च क्षणात् । कसं क्रोशन्तमत्यन्तमजघातं जघान तम् ॥ १७६ ॥ . . . भयस्पृशाऽधिकं सेना, कंसेनाऽऽनायि या पुरा। . ।" जरासन्धेरिता साऽपि, योद्धं क्रोधादधावत ।
॥१७७ ॥ . तासु सन्नह्यमानासु, वाहिनीष्वर्धचक्रिणः । त्रासं दिदेश सन्नद्धः, समुद्रविजयः स्वयम् ॥ १७८ ॥ .. यदवोऽथ दवोदप्रमहसः सहसा ययुः । सदनं वसुदेवस्य, समुद्रविजयादयः . . ॥ १७९ ॥ चुम्बन्तं लालयन्तं च, राम-दामोदेरौ मुदा । किमेतदिति पप्रच्छ, वसुदेवं धराधवः ॥ १८०॥ देवकीदयितेनाथ, कथितेऽस्मिन् कथानके । स्वाङ्केऽधिरोप्य तौ धीरौ, राजा चिरमलालयत् ॥ १८१॥. साकं तदुग्रसेनेन, काराकृष्टेन भूभुजा । कंसाय यमुनानद्यां, समुद्राद्या जलं ददुः " ॥ १८२ . 'हते कंसाहिते पित्रा, देयं पत्युर्जलं मया । इति जीवयशाः सन्धां, जरासन्धात्मजा व्यधात् ॥ १८३॥ ". मथुरायामथो राम-कृष्णानुज्ञावशंवदः । उग्रसेनं धराधीश, समुद्रविजयो व्यंधात् ॥१८४ ॥. . मुरारिरुपसेनेन, दत्तां पर्यणयत् तंतः । सत्यभामां प्रभोदामां, क्रोष्टुकिप्रथिते दिने ॥ १८५ ॥ ज्ञात्वा तं कंसवृत्तान्तमथ जीवयशोमुखात् । क्रोधबन्धाञ्जरासन्धः, सन्धां यदुवघे व्यधात् ॥ १८६ ॥ ... दूत्येन सोमकक्ष्मापः, समुद्रविजयं प्रति । जरासन्धनिदेशेन, जगाम मथुरापुरीम् ॥ १८७ ॥ . 'यदुराज सभाभाज, निजगाद स धीरधीः । कंसद्विषो स ते स्वामी, याचते राम-केशवौ ॥ १८८ ॥ तौ समय॑ भवन्तोऽपि, विभवन्तु विभूतिभिः । उच्छित्तिरनयोर्युक्ता, निजप्राभवरोगयोः ॥ १८९॥ . . . " अथाऽवदत् 'धाकम्प्रः, सोमकं प्रति भूपतिः ।
। ".., {" ।। आभ्यां"भ्रूणवधात् 'पापी, निन्ये कंसो यमौकसि
॥ १९० ॥.. 'प्राणप्रियाविमौ बालौ, नार्पयिष्यामि सर्वथा । विरोधेऽस्मिन् जरासन्धो, न भव्यं भाणयिष्यतिः ॥ १९१॥ 'अथाऽऽह सोमकस्तस्मिन् , 'हते 'जामातरि प्रिये। त्रिखण्डक्ष्मापतिः क्रुद्धस्तेन युक्तो न विग्रहः ॥ १९२ ॥ । एतौ पटीमिव क्षित्वा, यूयं जगति जीवत । क्रोधोद्धराजरासन्धगन्धसिन्धुरतोऽधुना ॥१९३ ॥ ..', 'अावददमु दीप्तः, कोपनो गोपनीयकः। नास्माकं स' प्रभुस्तस्य, राज्ञस्तु 'प्रभवो वयम् ॥ १९४ ॥ -'; प्रियो यद्यस्य कंसोऽभूत्, तदायातु रयादयम् । यथाऽमुं तस्य जामातुर्मेलयामि समुत्सुकम् ॥ १९५ ॥ . , गच्छ रे। मत्सरे बाद, त्वमस्मान् मास्म रोपय ।मास्म भूः स्वविभोर्मृत्युपथप्रस्थानडिण्डिमः ॥ १९६ ॥..
. १ प्रसाहसा सहसा ययुः पाता० ॥ २ दरौ तदा खता० ॥ ३ राधिपः खंता० पाता० ॥ :
४ तौ बालौ, रा खता. ॥ ५ नद्या, स खंता० ॥ ६ दौत्ये खता० ॥ ७"थुरा प्रति । ., खताः । थुरां पुरीम् पाता० ॥ ८ पापो, निन्ये खता । पापानिन्ये पाता.. .'