________________
धर्माभ्युदयमहाकाव्यम्। यस्यां तमसि शोणाश्मवेश्मालीरश्मिभस्मिते । जना दिनादि जानन्ति, वापीपद्मालिनीरवैः ।। २५६ ।। यस्यां वसत्सु लोकेषु, रत्नसम्भारहारिषु । रत्नाकरः परीवेषमकार्षीत् परिखामिषात् ॥२५७ ॥ तत्रामदरिशौडीर्यनिकषो निषधाभिधः । विभुमहीमहेलाया, हेलाविजितशात्रवः ॥ २५८ ॥ उच्छलहुर्यशःस्तोमधूमध्यामलिताम्बराः । भूरयो भूभृतां वंशा, यत्प्रतापानलेऽज्वलन् ॥२५९ ।। उदारदानसौरभ्यमिलन्मार्गणषट्पदः । ऐश्वर्यकुञ्जरो यस्य, भुजस्तम्भे व्यवास्थित ॥२६० ॥ यत्पदाब्जनखाभीशुभास्वद्भाला बभुषिः । श्रीप्रदाने स काश्मीरमण्डनाडम्बरा इव ॥२६१ ।। तस्य निःसीमसौन्दर्या, सुन्दैरेति प्रियाऽभवत् । आस्येनेव जिता यस्याः, पद्मश्रीरपतत् पदोः ॥ २६२ ॥ पायं पायं रसालस्य, रसानपि पिकी ध्रुवम् । यद्रिं नाप सन्तापः, स तस्याः कायॆकारणम् ॥ २६३ ।। मन्ये यस्याः सुधासारविजयैकविलासिना । वाग्रसेन सदा सिक्तो, माधुर्यमधरोऽप्यधात् ॥ २६४ ॥ नलनामाऽनलस्पर्द्धिधामा सूनुस्तयोरभूत् । उपादानं यदङ्गस्य, मदनोऽनङ्गतां गतः ॥२६५ ॥ यः ककुप्कुम्भिनां लीलागतिगौरवमग्रहीत् । तेन तेन चलन्त्येव, दिग्भ्यः क्षितिधृतिमिषात् ॥ २६६ ॥ समग्रायुधयोग्यासु, यं वल्गन्तं विलोकयन् । जातः शङ्के कृताशङ्कः, शकरोऽपि सरभ्रमात् ।। २६७ ॥ स्वविभूतिपराभूतकुवेरः कूवराभिधः । तस्यानुजोऽभवद् युद्धकान्तारकोडकेशरी ॥२६८ ।। सभायामन्यदा दूतः, कश्चिद् वेत्रिनिवेदितः । आगत्य प्रणिपत्याथ, तं राजानं व्यजिज्ञपत् ॥ २६९ ॥ __ अस्ति देव! विदर्भेषु, रत्नगर्भाविभूषणम् । पुण्यपीयूषपूरस्य, कुण्डवत् कुण्डिनं पुरम् ॥ २७० ॥ तत्र भीमरथो नाम, सिन्धुसीमरथोद्यमः। अस्ति द्विषन्मुखाम्भोजसुधांशुर्वसुधाधवः ॥२७१ ॥ प्रियाऽस्य पुष्पदन्तीति, दन्तीन्द्रगतिविभ्रमा। विद्यते द्युतिवैशद्यकिङ्करीकृतकाञ्चना ॥२७२ ।। व्यजिज्ञपन्नृपं राज्ञी, तमेकान्ते तदेकदा | आनन्दहृयया वक्त्रचन्द्रचन्द्रिकया गिरा ॥ २७३ ॥ अभ्रमूविभुशुभ्रातस्त्वद्वेश्म प्रविशन् मया । दृष्टः कोऽपि द्विपः स्वमे, स्वामिन् ! भीतो दवादिव ।। २७४ ॥ सदा तदधरस्वादुरसमाधुर्यधुर्यया । गिरा तदनु सानन्दं, जगाद जर्गतीश्वरः ॥ २७५ ॥ स्वप्मेनानेन देवि ! त्वं, स्त्रीषु धन्याऽसि निश्चितम् । यदुल्ललास गर्भस्ते, सगर्भस्तेजसा रवः ॥ २७६ ॥ किंवदन्तीमिति तयोर्वदतोर्मदतोयधिः । दृष्टः सतुमुलैलोंकः, शुभ्रः कुम्भी गृहे विशन् ॥ २७७ ॥ तदाऽऽलोकयितुं लोलौ, करिराजं कुतूहलात् । उदितौ मुदितौ द्वारि, स्वयमेवाथ दम्पती ॥ २७८ ॥ अथ द्वारगतं वीक्ष्य, वलक्षाझं द्विपं नृपः । निजं पुण्यमिवायातं, मेने मूर्तिधरं पुरः ॥२७९ ।। तौ तदा दन्तिना तेन, स्वयं स्कन्धेऽधिरोपितौ । जातावाक्रान्तकैलासगौरी-गिरिशसन्निभौ ॥ २८० ॥ सम्ञमी बम्भ्रमीति स्म, तदा मदनदीगिरिः । तदाऽऽक्रान्तः पुरस्यान्तर्दुर्धरः सिन्धुरेश्वरः ।। २८१ ॥ अथावतायें तौ सौधे, स वारणपतिः स्वयम् । विवेश गजशालायां, शीलितायामिवान्वहम् ॥ २८२॥ अथो दिनेषु पूर्णेषु, पुष्पदन्त्याः सुताऽजनि । द्योतयन्ती गृहोत्सङ्गं, भानुमूर्तिरिवाम्वरम् ॥ २८३ ।। गर्भ दवपरित्रस्तदन्तिस्वमावलोकनात् । तन्नान्ना दवदन्तीति, पितृभ्यां सा प्रतिष्ठिता ॥२८४ ॥ कलाकलापस्तामापदल्पाभ्यासपरामपि । लुब्धः स्वयमताहक्षपात्रस्थितिकदर्थितः ॥ २८५ ॥ शाश्वतस्तिलको मालमस्या वाल इवांशुमान् । अलञ्चकार निःशेषध्वान्तसंहारकारकः ॥२८६ ॥ .१ व्यवस्थितः खंता० ॥ २ °न्दरीति पाता०॥ ३ "तिमिपम् सैता० पाता. ॥ ४ गदीश्व खंता०, पाता. ॥ -