________________
धर्माभ्युदयमहाकाव्यम् ।
अदृश्येऽथ मरालेऽस्मिन् विललाप कुमारिका । आस्तां तद्दर्शनं तावत्, तत्कथाकथकोऽप्यगात्
॥ २०० ॥
हा ! प्रातर्दर्शितोऽसौ मे, कुतः सितविहङ्गमः । दर्शितो वा ततोऽकस्मात्, कस्मादपहृतस्त्वया ॥ २०१ ॥ विप्रन्त्यामिदं तस्यां चित्रश्चित्रपटोऽग्रतः । पपात च नभोदेशादुच्चचार, च, भारती ॥ २०२ ॥ अहं स हंसस्तश्चित्रपटं त्वत्पुरतोऽमुचम् । अस्यानुसारतः सोऽयमुपलक्ष्यः स्वयंवरे ॥ २०३ ॥ अनुरागं तवेवाहं, तस्याप्याधातुमातुरः । यास्यामि न यतः क्वापि, सन्धिः सन्तप्त-शीतयोः ॥ २०४ ॥ इत्युक्त्वा तत्र तूष्णीके, सा ते चित्रगतं वपुः । दध्यौ यत्ननिबद्धस्य, जीवितस्यैव यामिकम् ॥ २०५ ॥ तत् त्वया देव! यातव्यं, तत्र तस्याः स्वयंवरे । विजितानङ्गसङ्गोऽस्तु, भवतोरनुरूपयोः ॥ २०६॥ एतश्चेतश्चमत्कारि, निशम्य वचनं तदा । जगाद वसुदेवोऽपि, मित्र ! हंसो भृशं न सः ॥ २०७ ॥ समयुग्नाभिषज्ञाय, स्मरस्तंः प्राहिणोद् विधुस् । अथवा मम तस्याश्च मूर्त्त पुण्यमिव व्यधात् ॥ २०८ ॥ चन्द्रापीडः ! त्वया चेयं, ज्ञाता मित्र ! कथं कथा ! | हंसीभूय स्वयं वा त्वं, मत्कृते कृतवानिदम् ? ॥ २०९ ॥ इत्युक्ते स्मयमानोऽयं, कुमारेणोपलक्षितः । आलिङ्गितश्च बाहुभ्यां तादात्म्यमिव तन्वता ॥ २९० ॥ समं तेनार्थ निश्चित्य, स्वयंवरगतिं कृती । तं च प्रहित्य पल्यङ्के, निविष्टो नीतवान् निशाम् ॥ २११ ॥ सुकोशलामथाऽऽपृच्छ्य, प्रातरुत्कण्ठितो ययौं । पेढालनगरोपान्ते, लक्ष्मीरमणकानने ॥ २१२ ॥ वाक्सुधास्यन्दचन्द्रेण, हरिश्चन्द्रेण सत्कृतः । सैन्यमावासयत् तत्र, वसुदेवो वनावनौ ॥ पुरा पुरो नमिविभोर्लक्ष्मी रेमेऽत्र रासकैः । लक्ष्मीरमणमित्येतद्, वनं मत्वेति सोऽधिकम् ॥ २१४ ॥ 'प्रमोदपेशलस्तत्र, वने, नमिजिनालये । पूजयित्वा जिनाधीशान्, ववन्दे पुलकाङ्कितः ॥ २१५ ॥ ॥ युग्मम् ॥
२१३ ॥
अथो जितः पुरस्यास्य, धनाढ्यैरिव सन्धये । अवातरद् विमानेन, धनदोऽस्मिन् वने दिवः ॥ २१६ ॥ पूजयित्वा च नत्वा च सः भक्त्याऽस्मिन् वने जिनान् ।
१२५
हस्ताग्रसंज्ञयाऽऽह्रासीद्, विस्मितो वृष्णिनन्दनम्
॥ २१७॥ असौ महर्द्धिको देवस्तीर्थकृद्भक्तिभाक् पुनः । माननीय इति ध्यायन् वसुदेवो मुदा ययौ ॥ २१८ ॥ तमायान्तमथालोक्य, पुरो लावण्यसागरम् । रूपे पुरन्दरस्यापि धनदो निर्मदोऽभवत् ॥ २१९ ॥ अभादिशेति जरूपन्तं पुरस्तं धनदोऽभ्यधात् । द्वैत्यं कनकवैत्यां मेऽनन्यकृत्यं कृतिन् । कुरु ॥ २२० ॥ वरणीयस्त्वया श्रीदोऽवतीर्णस्त्वत्कृते दिवः । स्वयं देहेन गच्छ द्यां मानुष्येऽपि सुरीभव || २२१ ॥ सा वाच्येति द्रुतं गच्छ, कन्यान्तःपुरमात्मना । यामिकैर्मुत्प्रभावेण त्वमदृइयो गमिष्यसि ॥ २२२ ॥ शिक्षां धनपतेरित्थं, प्राप्य धीरो विशुद्धधीः। स्पृहणीयां सुरैः कन्यां, धन्यां ध्यायन्मुदाऽचलत् ॥ २२३ ॥ सामान्यजनमानेन, वेषमाकलयन्नयम् । ययौ कन्यागृहोत्सङ्गं, रक्षाकृद्भिरलक्षितः ॥ २२४ ॥ तमकस्मात् पुरो वीक्ष्य, राजपुत्री सविस्मया । अभ्युत्थानं व्यधादन्तर्मुदिता परिकम्पिनी ॥ २२५ ॥ दध्यौ किमु ममानूनैः, पुण्यैरेव विरञ्चिना । चित्रं पटगतं जीवन्यासेनोद्धृतमेव तत् ? अथैनामाह वीरोऽसौ, सुधासोदरया गिरा । अनङ्गमपि कन्दर्प, कुर्वन् साङ्गमिवाग्रतः
I
॥ २२६ ॥
1
॥ २२७ ॥
१. ण्यमिति व्य खंता• ॥ २ द्रातप ! त्व' खता ॥ ३ दौत्यं संता० ॥ ४ वत्पा मे खेवा • पाता० ॥