________________
सर्गः].
'
धर्माभ्युदयमहाकाव्यम् ।
१२३ गंतश्चाष्टापदे हृष्टोऽपश्यमेकाकिनी प्रियाम् । ततः श्रुतं मया वैरी, यद् भीतः प्रपलायितः ।। १४१ ॥ दयितां तामुपादाय, ततो यातः पुरं निजम् । नीतः पित्रा ततो राज्यमारोद्धारे धुरीणताम् ॥ १४२ ॥ विद्याधरश्रमणयोहिरण्य-स्वर्णकुम्भयोः । सकाशे स्वयमग्राहि, तातेन व्रतमद्भुतम् ॥ १४३ ॥ जज्ञे मनोरमाकुक्षौ, सुतः सिंहयशा मम । वराहनीवनामाऽन्यो, मान्यो दर्पवतामपि ॥ १४४ ॥ सुता गन्धर्वसेनेति, जाता विजयसेनया । सर्वगान्धर्वसर्वस्वसङ्केतैकनिकेतनम् ॥१४५॥
दत्त्वा च सुतयो राज्यं, यौवराज्यं च तन्मया ।
विद्याः सम्पाद्य च प्रापि, पितृगुर्वन्तिके व्रतम् द्वीपोऽयं कुम्भकण्ठाख्यः, क्षारवारिधिमध्यगः। गिरिः कर्कोटकश्चायं, कथमत्राऽऽगतो भवान् ॥१४७॥ इत्यस्मिन् पृच्छति ख्यातं, सर्वं स्वचरितं मया । अथास्य नन्दनौ प्राप्तौ, खेचरौतंच नेमतुः ॥ १४८॥ नम्यतां चारुदत्तोऽयमित्युक्तौ तेन तौ नतौ । तदैत्य च सुरैः कोऽपि, मां नत्वाऽथ मुनि नतः ॥ १४९ ॥ खेचराभ्यां तदा पृष्टस्तं वन्दनविपर्ययम् । अयं वैमानिकः प्राह, प्रमोदभरपूरितः ॥१५० ।। पूर्वजन्मन्यहं छागष्टकणे रुद्रमारितः । एतस्मात् प्राप्तसर्वज्ञधर्मः सौधर्ममासदम् ॥१५१ ॥ धर्माचार्यस्ततोऽयं मे, तेनाऽऽदौ वन्दितो मया । चारुदत्तः कृपाराशिरिति नोल्लखितः क्रमः ॥ १५२ ॥ तौ खगौ प्रतिबोध्येति, स देवः प्राह मां प्रति । वद प्रत्युपकारं ते, कीदृशं करवाण्यहम् ! ।। १५३ ॥ मयोक्तं समये तूर्णमेतव्यमथ सोऽगमत् । अगृह्ये खेचराभ्यां च, ताभ्यां निजपुरं प्रति ॥ १५४ ॥ तचिरं सत्कृतस्ताभ्यां, तज्जनन्या च तस्थिवान् । स्वसा गन्धर्वसेनेयमन्येचुर्दर्शिता च मे ॥ १५५ ॥ निवेदितं च यत् तातः, प्रव्रजन्निदमब्रवीत् । चारुदत्तोऽस्ति मे मित्रं, भूचरो जीवितप्रदः ॥ १५६ ॥ उत्कीलितोऽस्मि तेनाहं, यदकारणवन्धुना । तस्य गन्धर्वसेनेयमर्पणीया कथञ्चन ॥१५७ ॥ परिणेप्यत्यमू मत्यों, वसुदेवः कलाजिताम् । इत्युक्तं ज्ञानिनाऽस्मभ्यं, ततः कार्य तथैव तत् ॥ १५८ ॥ स्वपुत्रीं तद्ग्रहाणैता, श्रुत्वाऽहमपि तद्वचः । एनामादाय सद्योऽपि, गृहायोत्कण्ठितोऽभवम् ॥ १५९ ।। इहान्तरे समायासीद्, देवोऽसावजजीवजः। तेन ताभ्यां खगाभ्यां च, सह सोऽहमिहाऽऽगमम् ॥ १६० ॥ स देवो भूरि दत्त्वा मे, हेम-रत्नादिकं ततः। जगाम त्रैदिवं धाम, वैताढ्यं खेचरौ च तौ ॥ १६१ ।। सर्वार्थों मातुलः शीलगृहं मित्रवती च सा । वेश्या वसन्तसेना च, बद्धवेणिमयेक्षिता ॥ १६२ ॥ 'उत्पत्तिरियमेतस्या, नासौ वीर ! वणिक्सुता । श्रुत्वेति वसुदेवस्तामुपयेमे रमासमाम् ॥ १६३ ।।
रक्या चाथ विरक्त्या च, च्छलेन च वलेन च ।
कलाजयेन चानेकदेशोद्देशान् परिभ्रमन् भूपानां खेचराणां च, द्विजानां वणिजामपि। कन्याः सौन्दर्य-सौभाग्य-लावण्यादिगुणास्पदम् ॥ १६५ ।। स कदाप्युपरोघेन, कदापिहठतः पुनः । कदापि कौतुकेनैव, परितः परिणीतवान् ॥ १६६ ॥ विशेषकम् ॥ 'सुकोशलामियां पुत्री, कोशलस्य खगेशितुः । कोशलायां पुरि प्राप्तः, स कदाचिदुदूढवान् ॥ १६७ ॥ 'सुप्तः श्रान्तो रतान्तेऽसौ, केनाप्यङ्गुष्ठचालनात् । उत्थापितो बहिर्गत्वा, कोऽयमेवमचिन्तयत् ॥ १६८ ॥ अथो पतन् पदोपान्ते, कुमारेणोपलक्षितः । खेचरोऽनुचरोऽसौ मे, चन्द्रहास इति स्वयम् ॥ १६९ ।।
१तत खंता० ॥ २ तदा चैत्य सु' पाता० ॥ ३ °रः कश्चिन्मां खंता० ॥ ४ द्रतो मृतः । ए पाता०॥ ५ ताभ्यां गन्ध खंतापाता०॥ ६ हमिति त खता. पाता॥७चन्द्रातप इति संता० ।।