________________
१२२
सङ्घपतिचरितापरनामक .. . [एकादश , उक्तस्त्रिदण्डिना भद्र !, द्रव्यार्थीव विभाव्यसे |दर्शयिष्यामि तत् तेऽहं, रसकूपं कृपारसात् ॥ ११२ ॥ . इत्युक्त्वाऽस्मिन् प्रचलिते, पृष्ठे लग्नोऽहमुन्मुदः। व्यालव्याकुलितोपान्तां, गतस्तत्र गिरेस्तटीम् ॥ ११३ ॥ क्रान्तं बहुशिलायन्त्रैरसुद्धाट्य मन्त्रतः । तत्राविशद बिले सोऽथ, दुर्गपातालनामनि । ॥ १.१४ ॥ अन्वगामहमप्येनं, लोभपाशैनियन्त्रितः । भ्रान्तस्तमसि कष्टेन, रसकूपं व्यलोकयम् ॥ ११५ ॥ तस्मिन्नलाबुहस्तोऽहं, क्षिप्तः कूपे रसेच्छया । योगिना सहसा रज्जुबद्धमश्चिकया क्रमात् ॥११६ ॥ " तचतुःपुरुषप्रान्ते, मेखलोपरि सुस्थितः । दृष्ट्वा रसं नमोऽहद्भय, इति यावदहं ब्रुवे ॥११७ ॥ , तावत् केनापि तत्राहं, व्यक्तमुक्तो महात्मना। साधर्मिक ! महाभाग!, रसं मास्म स्वयं ग्रहीः ॥ ११८ ॥ रसार्थमहमप्यत्र, वणिक् क्षिप्तस्त्रिदण्डिना । कान् धनमधोनामं, भक्षितोऽस्मि रसेन च ॥ ११९॥ । तन्मा विश रसं दास्ये, तुभ्यं मे तुम्बमर्पय । तदर्पितं मया सोऽपि, भृत्वा मम समार्पयत् ॥ १२० ॥ . तद्रज्जुचलनात् कृष्वा, त्रिदण्डी मञ्चिकां तदा । तत्तुम्ब याचते द्वारासन्नं मां न तु कर्षति ॥ १२१. ।। ।
अयं द्रोहीति मत्वा तत्, क्षिप्तः कूपे मया रसः ।। ,
मुक्तस्तेनाप्यहं कोपान्मेखलायां ततोऽपतम् , , .. ॥१२२ ॥ तदुक्तं वणिजा साधु, रसान्तः पतितो न यत् । मा च शोचीर्यदायाति, गोधा रसपिपासया ॥ १२३ ॥ कूपेऽस्मिन् रसमापीय, व्रजन्त्याः पुच्छमादरात् । सर्वथैवावलम्बेथाः, सम्यग् धर्ममिवातुरः ॥ १२१ ॥'
नमस्कारं च मे देहि, परलोकाध्वशम्बलम् । कृते मयाऽथ तत्प्रोक्ते, परलोकं जगाम सः ॥१२५ ॥ तद्रसग्रसनप्राप्तगोधापुच्छग्रहादहम् । निःसृतो मूच्छितः प्राप्तसज्ञोऽरण्ये ततोऽभ्रमम् ॥१२६ ॥ । अटवीमहिषेणाऽऽसस्तदाऽऽरूढो महाशिलाम् । तत्राजगरसंरुद्धस्ततोऽहं द्रुतमत्रसम् ॥ १२७॥ तत् प्रयातोऽटवीप्रान्तग्रामे रोगेण पीडितः । अहं मातुलमित्रेण, रुद्रदत्तेन पालितः ॥ १२८॥ गृहीत्वाऽलक्तकं स्वर्णभूमौ तेन सहाऽचलम् । इषुवेगवतीं तीर्खा, गिरिकूटं विलक्ष्य च ॥ १२९ ॥ क्रमाद क्षेत्रवनं गत्वा, देशं टङ्कणमागतौ । ततः क्रीतच्छगारूढावुत्तीर्णौ वज्रमेदिनीम् ॥१३०॥युगमम् ॥' रुद्रदत्तोऽवदत् पन्था, नैवातः पादचारिणाम् । भस्ने कुर्वश्छगौ हत्वा, बहिरन्तर्विपर्ययात् ॥ १३१ ॥ तदन्तरस्थितावावां, भारुण्डैरामिषभ्रमात् । उत्पाट्याम्भोनिधौ स्वर्णमहीं नेष्यावहे जवात् ॥ १३२ ॥ श्रुत्वेत्यथावदं दुर्गपथसम्बन्धबान्धवौ । छागाविमौ ततः कार्षीः, पापं मातुल! माऽतुलम् ॥ १३३ ॥ नैतौ त्वदीयावित्युक्त्वा, स्वं स च्छागं क्रुधाऽवधीत् ।मदजो मन्मुखं दीनमुखस्तेन व्यलोकयत् ॥ १३४ ॥ तन्मयोक्तं तव त्राणे, नाहमीशस्तथापि ते । धर्मोऽस्तु मदिरा जैनः, परलोकविशुद्धये ॥ १३५ ॥ मया दिष्टं ततो धर्म, मनसा प्रतिपद्य सः । मत्प्रदत्तं नमस्कार, मुदा शृण्वन् हतोऽमुना ॥ १३६ ॥ तद्भस्त्रान्तर्गतावावां, भारुण्डाभ्यां छुरीजुषौ । हृतौ ततोऽन्यभारुण्डयुद्धेऽहं सरसि च्युतः ॥ १३७ ॥ . शस्त्रीदीर्णाज़िनस्तीर्णसरास्तत्राटवीमटन् । आरूढः शैलमनम, कायोत्सर्गस्थितं मुनिम् ॥१३८ ॥ धर्मलाभ ततो दत्त्वा, मुनिरेवमुवाच माम् । चारुदत्त! कथं प्राप्तः, पथि त्वं खेचरोचिते? ॥ १३९ ॥
महात्मन् ! खेचरः सोऽहं, यः पुरा मोचितस्त्वया । . त्वामापृच्छय गतोऽन्वेष्टुं, तदा दारापहारिणम्' .. .. ॥ १४० ॥'
खंता० पाता० ॥