________________
धर्माम्युदयमहाकाव्यम्। हटेन 'चारुदसेन, स गृहे जगृहे मुदा । ततो विवाहंदीक्षायी, पृष्टे गोत्रादिकेऽसत् ॥ ६॥ वणिक्पुत्रीयमिति मा, हांसी: पृष्टे कुले सति । चरितं अन्यमस्त्यस्यास्तमित्यूचे तदा वणिक् ।। ८७ ॥ अथ तां परिणीयांसौ, श्यामाख्य-विजयाहये । पर्य]षीद् यशोगीव-सुग्रीवतनये अपि ॥८८ ॥ . चारुदत्त-गन्धर्वसेनयोधरितम्
अथ गन्धर्वसेनाया, वृत्तं कथयितुं वैणिक । अपरेयुः समारेभे, वसुदेव प्रति स्मितः ॥ ८९॥ पुराऽहं जीवतोः पित्रोः, सुभद्रा-भानुसज्ञयोः। अंगां सुहृजनैः साक, हेलया सिन्धुरोधसि । ९० ॥ तंत्र स्त्री-पुंसयोः पादप्रतिबिम्बानुसारतः । सञ्चरन्नेहमद्राक्ष, सतस्पं कर्दलीगृहम् ॥९१ ॥ तरुण तरुणा सकि, कीलितं तत्र दृष्टवान् । ओषधीमूलिकास्तिस्रस्तथा तत्खग्नेकोशगाः ॥ ९२॥ तामिरप्युपरिन्यस्तपत्रीज्ञानप्रभावतः । निष्कीलमत्रणं मुक्तमूर्छ च तमहं व्यधाम् . ॥ ९३ ॥
अथोन्मीलितनेत्राब्जः, प्राप्तसोऽवदत् स माम् । किं निष्कारणबन्धोस्ते, विदधामि किल प्रियम् ?
॥ ९४ ॥ अहं वैतात्यकोंटीरे, नगरे शिवमन्दिरे । महेन्द्रविक्रमक्ष्मार्पसुतोऽमितगतिः श्रुतः ॥ ९५ ॥ सुतां हिरण्यरोमख्यिमार्तुलस्यं तपस्यतः । यथार्थनामानमहं, व्यवहं सुकुमारिकाम् ॥ ९६ ॥ अभिलाषी मया तस्या, सखा धूमशिखाभिधः।ज्ञातः स तु न दाक्षिण्यान्मुक्तो मित्रं हि दुस्त्यजम् ॥ ९७ ।।
'सहाऽऽयातेन तत् तेन, च्छलाद् विश्वस्तघातिना ।।
कीलितोऽस्मि द्रुमेऽमुष्मिन् , हृत्वा च दयितां गतः ॥९८॥ तत् तवाहं जीवितव्यदातुर्मातुरिवोधुना । अनृणः करुणांसार!, भविष्यामि भवे कथम् ! ॥ ९९ ॥ अब लद्दर्शनेनैव, कृतकृत्योऽस्मि सर्वथा। इत्युक्ते स मया मैत्र्यं, प्रतिपद्य खमुद्ययौ ॥१०॥
'मातुलस्याथ सार्थनानों मित्रवनीं सुताम् । अतुच्छेनोत्सवेनाहं, पितृभ्यां परिणोयितः ॥ १०१ ॥ कलासक्तमयो मुक्तभोगं मत्वा पितेव माम् । लीलाललितगोष्ठीषु, प्रमोदनिधिषु न्यधात् ॥१०२ ॥ अहं कलिङ्गसेनास्तिनयामभजं ततः । वेश्यां वसन्तसेनाख्या, प्रमोदमधुपमिनीम् ॥ १०३ ।। वर्षदिशभिः स्वर्णकोटीः षोडश तद्गुहे । मुक्तवान् निर्धनीभूतस्तत् तयाऽहं वहिष्कृतः ॥१०४ ॥ गतो गृह मृतौ मत्वा, पितरौ दुःखितश्विरम् । तत् कान्ताभूषणान्येव, नीवी रचितवानेहम् ॥ १०५ ॥ मातुलेन' संहोसीरवतेऽहं नगरे गतः । क्रीतः कसिराशिश्च, दग्धः सोऽपि कृशानुनी ॥१०६ ।। मातुलेनापि निर्भाग्य, इति मुक्तोऽपरों दिशम् । गच्छन् पथि मृते वाहे, पदातिश्चलितोऽस्म्यहम् ॥ १०७ ॥ तत् प्रियङ्गपुरे कष्टाद, गतस्तत्र स्थिरीकृतः। नाम्ना सुरेन्द्रदत्तेन, पितॄमित्रेण सम्मदात् ॥ १०८ ।। दव्यर्लक्षं गृहीत्वाऽहं, वणिग्भ्यस्तत् कलान्तरात् । अब्धौ गतागतैरष्ट, स्वर्णकोटीरुपार्जयम् ॥ १०९ ॥ स्वदेशे चलितो भग्ने, पोतेऽथ फलंकंग्रहात् । उदुम्बरावतीवेलातीरेऽगां सप्तमेऽहनि ॥ ११० ॥ अथ राजपुरोपान्तवने दिनकरी मिधम् । त्रिदण्डिनं प्रणम्याहं, पुरः श्रान्तो निविष्टवान् ॥ १११ ।। ... अतुच्छमुत्सवं कृत्या, पितृ पाता० ॥ २ ते गत्वा पुरे ततः। क्रीतः कर्पासभारस्तदग्धः खंता० ॥
२०१६