________________
१३
सा
तचारतापरनामक
द्विपं मत्तमिहायात, वंशीकुर्वन्नौ वशी। खगाउँचिमालि-पवनञ्जयाभ्यां सहसा हृतः ॥५६॥ उद्याने कुखविर्ते, नीतस्यास्य मुदा ददौं। खेचरोऽशनिवेंगाख्यः, श्यामां नाम निजात्मजाम् ॥ ५॥ अयं तया प्रवीणात्मा, वीणावाद्येन तौषितः । ददौ वर तयाऽयाचि, सदाऽप्यविरहस्ततः ॥५८ ॥ अवियोगस्त्वयाऽयांचि, कुतः सुतनु ! कथ्यताम् । इत्युक्ते वसुदेवेन, सा बभाषे मृगेक्षणा' ॥ ५९॥ पुरे किन्नरगीतास्य, वैतात्यगिरिभूषणे । राजा ज्वलनवेगोऽभूचिमालिनृपात्मजः ॥६॥ नाना चाऽशनिवेगोऽस्ति, खंगस्तदनुजो बली। आस्ते ज्वलनवेगस्य, सूनुरङ्गारकः पुनः ॥ ६ ॥ : एतस्याशनिवेगस्य, सुताऽहमभवं' विभो! व्रती ज्वलनवेगोऽभूत् , कृत्वा मत्पितरं नृपम् ।। ६२॥ तदङ्गारकवीरेण, विद्या-बलविलोभिना । जित्वा मत्पितरं राज्यमिदमद्भुतमाददे ॥६३ ॥ अष्टोपदेऽन्यदाऽऽल्यातं, मंत्पितुश्चारणर्षिणा । जलावर्ते गजं जेता, राज्यदस्तै भविष्यति ॥ ६४ ॥ तदादि तत्र मुक्ताभ्यां, खगाभ्यां त्वं जितद्विपः । हृतोऽसि राज्यलोभेन, दत्ता तुभ्यमहं पुनः ।। ६५ ॥ स्त्रीयुतं यः खगं हन्ति, स विद्याभिर्विमुच्यते । इत्यांचारः सदैवास्ति, समये व्योमचारिणाम् ॥ ६६ ॥ तत् क्रूरोऽङ्गारकस्तुभ्यं, मा कार्षीत् प्रियं ! विप्रियम् । अवियोगस्तदेतेन, कारणेन मया वृतः ॥ ६ ॥ प्रतिपद्य गिरं सद्यस्तदीयामिति घृणिः । तत्रावतस्थे सौस्थ्येन, समं दयितया तया ॥ ६८॥ सुप्तः स चान्यदा रात्री, वीरो वनितया समम् । अङ्गारकेणापहृतो, वसुदेवः प्रबुद्धवान् ॥६९ ॥ को मे हर्तेति विमृशन् , ददर्श निजवल्लभाम् । श्यामामङ्गारकेणैव, खगोखजि वितन्वतीम् ७० ॥
अङ्गारकेण सा श्यामा, खड्नेनाऽऽशु द्विखण्डिता । द्वे श्यामे युध्यमाने तद्, वसुदेवो व्यलोकयत्
॥ ७१ ।। अथ मायामिमा मत्वा, वार्ष्णेयोऽङ्गारकं रुषा । जघान मुष्टिना मूर्भि, केशरीव करीश्वरम् ॥ ७२ ॥ उद्घातपातरुग्णेन, विमुक्तोऽङ्गारकेण सः । च्युतश्चम्पापुरीपाधे, सरोवरपयोऽन्तरा ॥ ७३ ॥ तत् तीर्वाऽऽशु सरस्तीरे, वासुपूज्यालयं गतः । जिनं नत्वा सहकेन, द्विजेन पुरि जग्मिवान् ।। ७४ ॥ । यूनो वीणाजुषः प्रेक्ष्य, हेतुं पप्रच्छ स द्विजात् । अथो कथयितुं तस्मै, प्रारेमे द्विजकुञ्जरः॥ ७५ ॥ इह गन्धर्वसेनाऽस्ति, चारुदत्तवणिक्सुता । सा.प्राह स पतिः स्यान्मे, यो मां जयति वीणया, ॥७६ ॥ - वीणाचार्यों यशोग्रीव-सुग्रीवाविह तिष्ठतः । वीणाभ्यासं तदभ्यासे, तन्वन्त्येते तदिच्छया ॥ ७७ ॥ मासे मासे परीक्षा स्यान्न कोऽपि च जयत्यमूम् । वसुदेवो निशम्येति, विद्याविकृतरूपकृत् ।। ७८ ॥ विप्रवेषधरो गत्वा, सुग्रीवं प्रत्यदोऽवदत् । वीणायां तव शिष्योऽस्मि, चारुदत्तसुताकृते ॥ ७९ ॥ सोपहासमुपाध्यायः, स्थापयामास तं ततः । अहासयजनान् सोऽपि, मूर्खत्वमिव दर्शयन् ॥ ८० ॥ . अथाऽऽजगाम मासान्ते, चारुदत्तस्य, नन्दनी । वीणाभ्यासकृतां यूनां, परीक्षां कर्तुमात्मना ॥ ८१,॥ उपाध्यायेन शिष्यैश्चं, चारुचीरधरस्तदा । वसुदेवः प्रहासाय, स्थापितः प्रौढविष्टरे , . ॥ ८२ ॥ तेयुवानोऽथ सर्वेऽपि, वीणया विजितास्तया । वादाय वसुदेवोऽथ, तैरूचे परिहासिभिः, ॥ ८३ ।। अथाऽऽधाय निजं रूपं, चमत्कारकरं नृणाम् । वीणाः प्रदूष्य यूनां च; तस्या वीणां करेऽग्रहीत् ॥ ८ ॥ गेयो विष्णुकुमारस्य त्रिविक्रमपराक्रमः ||गन्धर्वसेनयेत्युक्ते, सः चक्रे सर्वमप्यदः . ., ॥ ८५॥ । ... १४-वृष्णिभू खंता० ॥ २'माने च, वसु खंती० ॥ ३ मां ज्ञात्वा खंता० ॥ पितु जसंता. पाता ॥