________________
११९
सर्गः ]
धर्माभ्युदयमहाकाव्यम् ।
तदगद्यत भूपेन, जरासन्धनृपः कथम् । सुतामपि बलिष्ठाय, वणिक्पुत्राय दास्यति ? ॥ २७ ॥ अवादि वसुदेवेन, मन्ये नासौ वणिक्सुतः । जानामि विक्रमेणेति, तत्पिताऽऽकार्य पृच्छ्यते ॥ २८ ॥ अथाऽऽहूय सुभद्रोऽयं, कंसोत्तंसितसन्निधिः । राज्ञा सशपथं पृष्टः, सुतोऽयं ते किमौरसः १ ॥ २९ ॥ इत्युक्ते भूभृताऽवोचत्, सुभद्रोऽपि यथातथम् । गतोऽहमेकदा शौचहेतवे यमुनामनु ॥ ३० ॥ अदर्शि कांस्यमञ्जूषा, तत् तरन्ती रयान्मया । आकृष्योद्घाटिता तस्यां दृष्टोऽयं महसांनिधिः ॥ ३१ ॥ मुद्रिकायुगभाजोऽस्य, गृहीतस्य शिरस्तले । लब्धेयमिति भूपाङ्घ्रिपुरः पत्री मुमोच सः ॥ ३२ ॥ उग्रसेनसुतेऽमुष्मिन्, धारिण्याः कुक्षिवर्तिनि । पूरितश्छद्मनाऽमात्यैः पत्यन्त्रस्वाददोहदः ॥ ३३ ॥ पितृवैरीति सञ्चिन्त्य, पुत्रः प्राणप्रियोऽप्यसौ ।
मात्राऽतिनिन्द्यः कालिन्द्याः, प्रवाहेऽस्मिन् प्रवाहितः
॥ ३४ ॥ युग्मम् ॥
॥ ३५ ॥
॥ ३६ ॥
पत्रिकां वाचयित्वेति, मुमुदे मेदिनीश्वरः । निजगोत्रावतंसं तं कंसं विज्ञाय तत्क्षणात् जरासन्धमुपस्थाय, समुद्रविजयस्ततः । कंसस्य शौर्यमाख्याय, तं सिंहरथमार्पयत् दत्त्वा सुतां नृपोऽपृच्छद्, देशमिष्टमनेन तत् । पितृद्विषा ययाचे सा, कंसेन मथुरापुरी ॥ ३७ ॥ तज्जरासन्धदत्तोग्रवलोऽयं मथुरां गतः । उग्रसेननृपं कंसः, काष्ठपञ्जरकेऽक्षिपत्
11 32 11
३९ ॥
मया त्यक्तोऽसि नो वेत्ति, बार्तामपि पिता तव । एवमुक्तेऽपि धारिण्या, नोग्रसेनं मुमोच सः ॥ कंसानुजोऽतिमुक्ताख्यः, पितृदुःखाकुलस्ततः । कृती व्रतं स जग्राह मुक्तिमार्गैकपल्वलम् समुद्रविजयः सोऽपि, स्वामिना सत्कृतस्ततः । ययौ शौरिपुरे शूरसमुच्चयशिरोमणिः
॥
वसुदेवहिण्डि:
वसुदेवाङ्गसौभाग्याकृष्टस्त्रीविप्लवाकुलैः । नृपः कदाऽपि विज्ञप्तो, नागरैर्नयसागरैः समुद्रविजयेनाथ, तादृग्विप्लव भीरुणा । अभाषि वसुदेवोऽयमुत्सङ्गारोपपूर्वकम्
>
४० ॥
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥
४५ ॥
॥ ४६ ॥
॥ ४७ ॥
11 82 11 11 89 11
अहर्निशं वहिर्भ्रान्त्या, दुर्बलोऽसि ततस्त्वया । स्थेयं सदा मदावासे, कलाभ्यासविनोदिना ॥ ४४ ॥ गुरोर्गिरं शिरस्येष, शेषामिव निधाय ताम् । सौध एव स्थितश्चक्रे, कलाभ्यासमहर्निशम् स कदाऽपि शिवादेव्या, प्रेषितं भूपतिं प्रति । चन्दनोद्वर्तनं चेटीहस्ताज्जग्राह नर्मणा उक्तश्चेटिकया सोऽपि, वसुदेवः सहासया । राज्ञा स्त्रीनर्मदोषेण, त्वमनेनासि यन्त्रितः इत्यसौ परमार्थेन, निजं मत्वा नियन्त्रणम् । देशान्तरविलोकाय, निःससार पुरान्निशि रचयित्वा चितामेष, श्मशानभुवि भूरिधीः । निक्षिप्य मृतकं किञ्चिदन्तरज्वालयन्मुदा स्तम्भं न्यस्य तटे तस्य, पत्रिकायां लिलेख सः । गुरुभिर्दूषितगुणो, वसुदेवोऽनलेऽविशत् ॥ इति कृत्वा ब्रजन् दृष्टः, कयाऽपि पथि कान्तया । आरोपितो रथे खिन्न, इति ब्राह्मणवेषभृत् ॥ ५१ ॥ तद्भामे तद्गृहे स्नात-भुक्तो यक्षालयस्थितः । शुश्रावामौ मृतोऽशोचि, वसुदेवः स्वकैरिति ॥ ५२ ॥ अथाऽऽत्मज्ञाननिर्भीकः, प्रचलन्नग्रतो बली । कयाऽपि किल कामिन्या, रथमारोपितो निजम् ॥ ५३ ॥ पुरे विजयखेटाख्ये, सुग्रीवक्ष्मापतेः सुते । श्यामा-विजयसेनाख्ये पर्यणैषीत् कलाजिते ॥ ५४ ॥ ततो विजयसेनायामुत्पाद्याऽक्रूरमङ्गजम् । अटन्नटव्यां तस्थौ स, जलावर्ताख्यपवले
५० ॥
॥ ५५ ॥
१ पाने, पु पाता० ॥ २ 'प्ययम् संता० पाता० ॥ ३ 'नीपतिः संता० ॥ ४ मुक्तोऽपि 'संता० ॥ ५ यन्त्रितम् खताः ॥