________________
एकादशः सर्गः। ,
... इतश्च मथुरापुर्या, यदुनामा नृपोऽभवत् । बृहद्रथाङ्गजो भूरिभूपान्ते हरिवंशभूः ॥ १ ॥ 'शूरो जातस्ततः शौरि-सुवीरौ तस्य चाऽऽत्मजौ । शूरः शौरिं नृपं कृत्वा, व्रते प्रवृते कृती ॥ २ ॥ । "सुवीरं स्वपदे न्यस्य, शौरिः सोदरवत्सलः । स्वयं कुशातदेशेषु, चक्रे शौरिपुरं पुरम् ॥ ३ ॥ शौरेरन्धकवृष्ण्याचा, बभूवुः किल सूनवः । सुवीरस्य महावीरा, भोजवृष्ण्यादयः पुनः ॥ ४ ॥ भूपमन्धकवृष्णि तत् , कृत्वा शौरिधराधिपः । सुप्रतिष्ठान्मुनेः प्राप्य, व्रतं निर्वृतिमासदत् ॥ ५ ॥ सुवीरस्तनुजं राज्ये, भोजवृष्णि विधाय च । विदधे सिन्धुषु स्वस्मै, सौवीरं नाम पत्तनम् ॥ ६ ॥ मथुराम्भोजसूर्यस्य, भोजवृष्णोर्महीभुजः । जाग्रदुग्रगुणग्राम, उग्रसेनः सुतोऽभवत् ॥ ७॥ आसन्नन्धकवृष्णेस्तु, सुभद्रायां सुता दश । समुद्रविजयो जिष्णुरक्षोभ्यः क्षोभितद्विषन् ।॥ ८ ॥ स्तिमितः शमितारातिः, सागर सागरोपमः । हिमवान् हिमवत्कीर्तिरचलोऽचलनिश्चयः ॥ ९ ॥ धरणो धरणीभूषा, पूरणः शत्रुचूरणः । अभिचन्द्रो वितन्द्रात्मा, वसुदेवश्च विश्वजित् ॥१०॥ ।
॥ विशेषकम् ॥ समुद्रविजयं न्यस्य, स्वपदेऽन्धकवृष्णिना । सुप्रतिष्ठान्मुनेरेव, प्रव्रज्य प्रापि निर्वृतिः ॥११॥ राज्ये न्यस्योग्रसेनं च, मोजवृष्णिमहाभुजः । सुप्रतिष्ठस्य पादान्ते, दान्तात्मा व्रतमग्रहीत् ॥ १२ ॥ कसेन तु सुभद्राख्यरसविक्रयिसूनुना । पठतो वसुदेवस्य, मैत्री सौरिपुरेऽभवत् ॥१३॥ ततश्चिक्रीडतुः कंस-वसुदेवौ सदैव तौ । मिथश्चैतन्यवस्कायप्रतिच्छायनिभावुभौ ॥१४॥ समुद्रविजयस्योर्वीभृतोऽन्येयुः सभाजुषः । अर्द्धचक्रिजरासन्धराजादेशः समाययौ ॥१५॥ अस्मद्वंश्योऽस्ति वैताट्यतटे सिंहरथो नृपः । एनं बद्धोद्धतक्रोधं, यः कश्चन समानयेत् ॥१६॥ इष्टो दीयेत देशोऽस्मै, तथा जीवयशाः सुता । राजादिष्टं तदित्येतन्मेने मानवपुङ्गवः ॥१७॥ समुद्रविजयाद् राजादेशाथैकसमर्थधीः । ययाचे स्वयमादेशं, वसुदेवः प्रतिज्ञया ॥१८॥ नरेन्द्रादेशतः कंससारथिः सारसैनिकः । वीरो जगाम वैताढ्यमद्वैताढ्यपराक्रमः ॥ १९॥ . अथो सिंहरथो युद्धदुःसहः सहसाऽभ्यगात् । वसुदेवं प्रति जवात् , किरिः केसरिणं यथा ॥२०॥ अथ युद्धप्रबन्धेन, भन्ने सैन्यसमुच्चये । वसुदेवः समं सिंहरथेन युयुधे स्वयम् ॥२१॥ ततः परिघमुद्यम्य, कंसस्तं सहसा द्विषम् । आहत्य वसुदेवस्य, पुरो बद्धमढोकयत् ॥२२॥ अथैत्य दैत्यविक्रान्तः, क्रान्तसिंहस्थो स्यात् । समुद्रविजयस्यांही, वसुदेवोऽनमन्मुदा ॥२३॥ वसुदेवमथावादीन्नपस्तुभ्यं प्रदास्यति । राजा तुष्टो जरासन्धस्तां जीवयशसं सुताम् ॥२४॥ पति-तातकुलोच्छित्त्यै, सा तु ज्ञातमिदं मया । क्रोष्टुकिज्ञानिवचसा, तत् तत्त्यागे मतिं कुरु ॥ २५ ॥
ध्यात्वाऽथ वसुदेवोऽपि, जगाद नृपतिं प्रति । युद्धे कंसेन बद्धोऽयं, तद् यशोऽस्यैव दीयताम् ॥ २६ ॥ '... सूरो पाता. ॥ २ सूरः पाता० ॥ ३ 'क्रयसू' खंता माता ॥ ४ शौरि खंता० पाता० ॥ .
५ तत्यागे तन्मति संता० ॥'