________________
सर्गः]
धर्माभ्युदयमहाकाव्यम्। जीवो धनकुमारस्य, पुण्याविष्टस्त्रिविष्टपात्. । जातश्चित्रगतिर्नाम, हंसचित्रगतिः सुतः ॥ ८७ ।।
॥ विशेषकम् ॥ विद्यावैदग्ध्यदुग्धाब्धिकेलिकल्लोलितैरयम् । विद्याधराणामानन्दकन्दं कन्दलितं व्यधात् ॥ ८८ ॥ किचात्रैव गिरौ व्याप्तव्योग्नि वैतान्यनामनि । दक्षिणश्रेणिकोटीरे, नगरे शिवमन्दिरे ॥ ८९ ॥ अनङ्गसेनसंज्ञस्य, मेदिनीहृदयेशितुः । पत्न्यां शशिप्रभानाम्न्या, शशिप्रभमुखत्विपि ॥९॥ च्युत्वा धनवतीजीवः, सोऽपि सौधर्मतस्ततः । धामा रत्नवतीवाभून्नामा रत्नवती सुता ॥ ९१ ।
॥ विशेषकम् ॥ कलाकलापकुशलां, क्रमादाक्रान्तयौवनाम् । उत्सङ्गसङ्गिनीमेनां, विधाय वसुधाधवः ॥९२ ॥ पकजिन्या इवामुष्याः, कः स्यादर्क इव प्रियः ? । दैवज्ञमित्यभाषिष्ट, निविष्टं विष्टरे पुरः ॥ ९३ ॥
॥ युग्मम् ॥ अथागद्यत सद्यस्कज्ञानामृतमृताऽमुना । अगाधज्योतिषग्रन्थसिन्धुमन्थानभूभृता प्रौढप्रधनपाथोधितरणैकतरण्डकम् । रणे कृपाणमाच्छिद्य, यस्ते हस्ते ग्रहीष्यति ॥९५ ॥ श्रीसिद्धायतने यस्य, मूर्धनि स्वर्धनीनिमा । स्तुति प्रस्तुवतो दिव्या, पुष्पवृष्टिर्भविष्यति ॥९६ ॥ स एव भवितैतस्याः, श्रीपतिप्रतिमः पतिः । शुद्धपक्षद्वयो हंस्या, राजहंस इवामलः ॥ ९७ ॥
॥विशेषकम् ॥ इत्याकर्ण्य कृतप्रीलिः, स खेचरशिरोमणिः । प्रैषीज्योतिषिकापण्यं, प्रीणयित्वा विभूतिभिः ॥ ९८ ॥
कदाचिद् भरतक्षेत्रे, व्योम्ना चित्रगतिश्चरन् । आ किञ्चित् पुरंवीक्ष्य, मद्भूत्तीर्णो भुवंदिवः ।।१९।। तत्र मद्राकृति कञ्चिदपृच्छत् खेचरो नरम् । केयं पुरी नृपः कोऽस्यां , दुःखं किमिदमप्यहो! ॥१०॥ ज्ञाताशेषकथो वाचमथोवाच स पूरुषः । अलङ्कृतमहीचक्रमिदं चक्रपुरं पुरम् ॥१०१॥ प्रभुरत्रास्ति' सुग्रीवः, प्रग्रीवः क्षितिपश्रियः । प्रिये यशोमती-भद्रे, तस्य ख्याते उभे शुमे ॥ १०२ ॥ सुमित्रः सूनुरेकस्या, जगन्मित्रमजायत । द्वितीयस्याः पुनः पद्मश्छद्मनः सन जङ्गमम् ॥१०३ ॥ जीवत्यस्मिन् न मे सूनो वि भूपालवैभवम् । भद्रेति सुचरित्राय, सुमित्राय विषं ददौ ॥ १०४ ॥ विषे ध्वान्तः इवोदीर्णे, चरितैः श्यामया तया । सुमित्रो व्यसनं प्रापचित्रं पझे ननु स्मितम् ॥ १०५ ॥ म्लानिं गते सुमित्रेऽस्मिन् , मित्रवत् तेजसां निधौ । युक्तं चक्रपुरस्यास्य, दुःखं दुःसहतां गतम् ॥१०॥ इति चित्रगतिः श्रुत्वा, तमुज्जीवयितुं जवात् । परोपकारव्यसनी, विवेश नृपवेश्मनि ॥ १०७ ॥
स मन्त्राम्भः सुमित्राने, बन्धुदृग्भिः सहाक्षिपत् । स्मितं चक्षुः सुमित्रस्य, तद्वान्धवमुखैः समम्
॥ १०८॥ पुनरुज्जीविते जाते, सुमित्रे नेत्रपात्रताम् । दुःखवाप्पाम्बु बन्धूनां, प्रमोदाश्रुपदं ययौ ॥१०९॥ अर्थ सोमे सुमित्रेऽस्मिंस्तापं हरति देहिनाम् । पने सङ्कुचिते भद्रा, भृगीव कचिदप्यगात् ॥ ११० ॥ अर्थ जीवितदातारं, तदा तारं यशोभरैः । तं विद्याधरमानन्दी, ववन्दे नृपनन्दनः ॥१११ ॥ ततः पितृभ्यां पादान्तप्रणतः स्नपितः सुतः । नेत्रकुम्भमुखोदीर्णैरानन्दाश्रुजलप्लवैः ॥ ११२ ॥ विद्याधरकुमारोऽपि, ताभ्यामालिङ्गय निर्भरम् । अनिच्छन्नपि सच्चक्रे, वसना-ऽऽभरणादिभिः ॥ ११३ ।। स्नेहादप्रेषितेनाथ, स चित्रगतिना सह । सुमित्रः कुरुते क्रीडां, विष्णुनेव पुरन्दरः ॥ ११४ ॥