________________
११० सङ्घपतिचरितापरनामक
- [दशमः अन्येद्युः सुयशा नाम, केवली प्रांप तत्,पुरम् । जगाम तं नमस्कर्तु, सुग्रीवः सह बान्धवैः ॥ ११५ ॥ तं प्रणम्योपविश्याथ, देशनान्ते विशांपतिः । पप्रच्छ क्वनु सा भद्रा, परित्रस्य ययाविति ॥ ११६ ॥ सा नश्यन्ती हृता चौरैर्विक्रीता वणिजो गृहे । नष्टा ततोऽपि दावाग्निदग्धा दुर्गतिमभ्यगात् ॥ ११७ ॥ अतिशोच्यमनन्तं सा, संसारं विचरिष्यति । इत्थं स कथयामास, केवली नृपतिं प्रति ॥११८ ॥ तदाकर्ण्य नृपो दध्यौ, यत्कृते साऽकृतेदृशम् । सोऽस्त्यत्र नरके सा तु, गता वत्सलता हहा। ॥ ११९॥ इत्थं खिन्नः सुमित्राय, दत्त्वा राज्यं भुवो विभुः। कञ्चिद् देशं च पद्माय, निर्मायो व्रतमग्रहीत् ॥ १२० ॥ ततः सुमित्रधात्रीशमापृच्छय कथमप्यमुम् । गतश्चित्रगतिस्तेन, सत्कृतो नगरं निजम् ॥ १२१ ॥ । इतो रत्नवतीमाता, कमलोऽनङ्गसेनभूः। सुमित्रभगिनी कूटात्, कलिङ्गस्याहरत् प्रियाम् ॥१२२॥ स्वमित्रस्य सुमित्रस्य, तामानेतुं सहोदराम् । वेगाचित्रगतिः प्राप, नगरं शिवमन्दिरम् ॥ १२३ ॥ तं स्वमित्रस्वसुर्दीनवक्त्रायाश्चाटुकारिणम् । उद्यानेऽत्रासयच्चित्रगतिः कमलमाकुलम् ॥१२४ ॥ कोपादनङ्गसेनोऽपि, पुत्राभिभवसम्भवात् । यो चित्रगति सैन्यैरदैन्यैर्निरगात् पुरात् । ॥ १२५ ॥ उद्यन्महाः सहानेन, चक्रे चित्रगतियुधम् । क्रमभ्रष्टाखिलास्त्रेण, वैलक्ष्यमुपगच्छता ॥१२६ ॥' अनङ्गसेनभूपालः, खड्गरत्नमथास्मरत् । यो मुद्धरधैर्योऽसौ, समं सूनुविरोधिना ॥१२७ ।। अथ चित्रगतिायातमःश्यामलिताम्बरः । राज्ञः कृपाणमाच्छिद्य, गृहीत्वा मित्रसोदराम् । ॥ १२८॥ गत्वा चक्रपुरे तूर्णं, सुमित्रस्य समर्प्य च । आजगाम स वैताढय, पूर्वाद्रिमिव भानुमान् ॥ १२९॥
। ॥ युग्मम् ॥ .. " : प्रौढपुत्रः सुमित्रोऽपि, विरक्तः संसृतौ कृती । व्रतमासाद्य जैनेन्द्र, विचचार चिरं क्षितौ ॥ १३० ॥ आखेटकगतेनायमथ पझेन बन्धुना । पूर्वविद्वेषतः शल्यहतो निपतितः क्षितौ ॥ १३१ ॥ असावनन्तसंसारी, मत्तो भवति बान्धवः । शोचन्नेवं स्वमात्मानं, विपन्नः स महामुनिः ॥.१३२ ॥ बभूव ब्रह्मलोकेऽसौ, शक्रसामानिकः सुरः । अगण्यपुण्यनैपुण्यपण्याद्वैतनिकेतनम् . ॥१३३॥ दुष्टाहिदष्टः पद्मोऽपि, सप्तमं नरकं ययौ । मन्येऽसौ चरणे धृत्वा, कृष्टः कालेन कौतुकात् ॥.१३४ ॥ , , एकदाऽगमदानन्दी, नन्दीश्वरवरं प्रति । विद्याधरगणो बिश्रदहम्पूर्विकया त्वराम् ॥ १३५॥ . अथापूज्यन्त निःशेषगीतवाद्यादिकौतुकैः । विद्याधरकदम्बेन, भक्तिविभ्राजिना जिनाः ॥ १३६ ॥ . कैः पुण्यैः पदमीहरं, दुःखत्रासदमासदम् । इदमत्रान्तरे दध्यौ, सुमित्रः स्वर्गितां गतः ॥ १३७ ॥ इति चिन्तयतश्चित्ते, मित्रं चित्रगतिः कृती। अतिप्रेम्णाऽवदातस्य, तदा तस्य स्मृतिं गतः ॥ १३८ ॥ नन्दीश्वरे स तं वीक्ष्य, कुर्वाणं जिनपूजनम् । आगाद् वेगेन तत्रैव, मित्रस्नेहेन मोहितः ॥ १३९ ॥ . विद्याधरेषु शृण्वत्सु, स देवः कुर्वतः स्तुतिम् । मूर्ध्नि चित्रगते«ष्टः, पुष्पवृष्टिं विसृष्टवान् ॥ १४०॥ अथ चित्रगतिं सर्वे, गर्वमुन्मुच्य खेचराः । विस्मिताः पुष्पवर्षेण, नमश्चक्रुर्गुणाधिकम् ॥ १४१.॥ . बुबुधेऽनङ्गसेनोऽपि, स्मृत्वा गणकभाषितम् । पुष्पवृष्ट्याऽसियट्या च, हृतया तं सुतापतिम् ॥ १४२.।' रत्नवत्यपि तं प्राप्य, पपावविरतं दृशा । मरुस्थलपथे पान्थाः, पाथ पूरमिवादरात् .. ॥१४३ ॥ सोऽपि चित्रगतिर्वीक्ष्य,, कैरवाक्षीमिमां तदा । मनामुदधरत् कष्टं, तल्लावण्यहूदे दृशम् ॥ १४४॥ । परस्परमथैताभ्यां, गताभ्यामेकतामिव । स्वं मनः प्रेमसर्वस्वकोशाध्यक्ष इवार्पितम् । ॥११५॥ 1: . ११' युग्मम् खता०॥ २. सुमि खंता० ॥ , . . . . " ....