________________
सर्गः] ' धर्माभ्युदयमहाकाव्यम् ।
१०७ क्षेमोऽस्ति पाटलीपुत्रपतेः सिंहमहीभुजः ? । कार्येण केन प्राप्तोऽसि, झटित्येवं निवेदय ॥२६॥ स वचस्वी ततः प्राह, तस्याक्षेमः कुतो भवेत् ।। श्रीविक्रमधनो यस्य, मित्रमत्रस्नुमानसः ॥ २७ ॥ परमस्यां तु वेलायां, शीघ्रं यदहमागतः,। कारणं शृणु तत्र त्वं, प्रयोजनमिदं तव ॥२८॥ कलने विमलानाग्नि, स्वामिन् ! सिंहमहीभुजः । आस्ते धनवती पुत्री, सौन्दर्यस्येव देवता ॥ २९ ॥ तत्र चित्रकरं कश्चिद्, दिव्यचित्रधरं नरम् । एषा रेषाविशेषज्ञाऽपश्यद् भूपस्य नन्दनी ॥३०॥ व्यलोकयच्च तचित्रे, कञ्चिन्नुपतिनन्दनम् । हृदयानन्दनं राज्यलक्षणैः शुभशंसिभिः ॥३१॥ तमथ प्राह सा चित्रं, यत् त्वयैतद् विनिर्ममे । तत् कलाख्यापनायैव ?, प्रतिच्छन्दोऽथ कस्यचित् ॥ ३२ ॥ सोऽप्युवाच कुमारी तच्चित्रं यद् वर्ण्यते मम । विज्ञानाद्भुतमप्येतद्, विगोपककरं परम् ॥ ३३ ॥ प्रतिच्छन्दो हि यस्यायमसौ सोमसमाकृतिः। यदि ढग्गोचरं गच्छेत् , तच्चित्रं स्यान चित्रकृत् ॥ ३४ ॥ सतां चिचे कृतावासः, स यशःकुसुमेषुभिः । वशीकरोति त्रैलोक्यं, द्वितीय इव मन्मथः ॥ ३५॥ समाकण्येति तद्वाचं, सा चन्द्रवदनाऽवदत् । स कुत्र ? कस्य वा पुत्रस्तस्य किंनाम नाम वा? ॥ ३६ ॥
सोऽपि प्राहाऽचलपुरे, श्रीविक्रमधनात्मजः ।
धनोऽस्ति मूर्तिस्तस्यैषा, मयाऽलेखि स्वकौतुकात् श्रुत्वेति तत्प्रभृत्येषा, विशेषात् त्वयि रागिणी । क्रीडां पीडामिव ज्ञात्वा, कन्यान्तःपुरमाययौ ॥ ३८ ॥ त्वदेकतानचित्तेयमपि व्यापारितेन्द्रिया । त्वया व्याप्तं जगद् वेत्ति, योगिनीव परात्मना ॥ ३९ ॥ एकं विहाय त्वां देव!, सा महीपतिनन्दनी । स्त्रीरूपमथवा क्लीबं, मन्यते जगदप्यदः ॥१०॥ देवीमुखादिदं सर्व, वृत्तान्तं मेदिनीपतिः । विज्ञाय गुणविज्ञाय, भवते मां व्यस यत् ॥४१॥ मामत्रागामुकं मत्वा, मेदिनीपतिनन्दनी । अमुं लेखप्रतीहारं, हारं दूतमिवाऽऽर्पयत् ॥ ४२ ॥ उक्त्वेति दूतो लेखेन, सहितं चरणान्तिके । कुमारस्यामुचन्मुक्ताहारं तत्माभृतीकृतम् ॥४३॥ छोटयित्वा ततो लेखमेष वेषजितस्मरः । जवादवाचयत् तोषचयपोषचमत्कृतः ॥४४॥ भवन्मूर्तिनिरस्तेन, कामेन ज्वालितं मम । मानसं त्वत्कृतावासं, सिक्तं नेत्राम्बुबिन्दुभिः ॥ ४५ ॥ न शान्ति याति तन्नाथ!, शान्ति नय दयां कुरु । हढारम्भपरीरम्भदेम्मपीयूषनि रैः ॥४६॥ परितः परितप्ताङ्गी, मदनज्वलनार्चिषा | वर्धिष्णुप्रेमकल्लोले, क्षिप मां निजमानसे ॥४७ ॥ इति लेखार्थसम्भारं, हारं च हृदये दधौ । स्निग्धोज्ज्वलस्फुरद्वर्ण, कुमारः कारणं मुदाम् ॥४८॥ विमृश्याथ कुमारोऽपि, प्रतिलेखं लिलेख सः । शृङ्गारेणेव मूर्तेन, मृगनाभिमयाम्भसा ॥४९॥ रतिरूपसपत्नीं त्वां, दधानस्य ममोरसि । रुषा रतिपतिः शके, किरत्यविरतं शरान् ॥५०॥ गुणैः श्रवणमार्गेण, तवाध्यासितमेव मे । मनो विविशुरक्षाणि, सर्वाण्यपि सुखेप्सया ॥५१ ।। इति लेखेन दानेन, मानेन च कृतार्थितः । कुमारेण चरः प्रैषि, सम्भृतप्राभृतोच्चयः ॥ ५२ ।। सत्कथाभिरथैतस्य, भूपो भूपसुताऽपि सा । कलयामासतुस्तोषं, कुमारागमकाया ॥५३ ।। विनीतः सोऽपि निर्णीतलग्नस्योपरि भूपभूः । प्रयाणैः कैश्चन प्राप, तत् पुरं सपरिच्छदः ॥५४ ॥ सम्मुखाभ्यागतेनाथ, सिंहेन सह भूभुजा । प्रविवेश पुरीं वीरो, नृत्यन्तीमिव केतुभिः ॥ ५५ ॥ पुरे प्रतिगृहं रत्नस्तम्भेषु प्रतिबिम्बितः । श्लिष्यमाणो मृगाक्षीभिः, क्षणं गलितचेतनम् ॥५६॥.
१ त्रस्तमा खता• पाता० ॥ २'दत्तपी खंता० ॥