________________
सर्गः]
.
१०५
धर्माभ्युदयमहाकाव्यम् । पुण्यपात्राय पुत्राय, दत्त्वा राज्यश्रियं स्वयम् | नृपेणान्यैः सुदुष्प्रापा, संयमश्रीरुपाददे ॥ २२६ ।। युगवाहुमहीनाथो, विद्यासिद्ध्याऽतिदुर्धरः । नृपांहिपान् नतिं निन्ये, हेलयैव महावलः ॥ २२७ ॥ तथा मनोरथारामसफलीकारकारणम् । धर्ममाराधयामास, मनो-वचन-कर्ममिः ॥ २२८ ।। मणिचूडनृपेणापि, स्वयं दीक्षां जिघृक्षुणा । युगवाहुनृपश्चक्रे, सर्वविद्याधरेश्वरः ॥२२९ ॥ इति जन्मान्तरोपाचतपःसम्भूतवैभवः । आराधयदिदं राज्यद्वयं लोकद्वयं च सः ॥ २३०॥
इति नृपयुगवाहोः सच्चरित्रं पवित्रं,
तव सचिवशचीश ! स्पष्टमेतत् प्रदिष्टम् । सततमपि निषेव्यं सिद्धिकामैः प्रकामं, निरुपमसुखलक्ष्मीकेलिदीपस्तपस्तत्
॥ २३१ ।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि श्रीसङ्घपत्तिचरिते लक्ष्म्यके महाकाव्ये तपम्प्रभावोपवर्णनो
युगवाहुचरितं नाम नवमः सर्गः॥ मुष्णाति प्रसभं वसु द्विजपतेगौँरीगुरुं लङ्घयन्, __नो धत्ते परलोकतो भयमहो ! हंसापलापे कृती। ' उच्चैरास्तिकचक्रवालमुकुट ! श्रीवस्तुपाल ! स्वयं,
भेजे नास्तिकतामयं तव यशःपूरः कुतस्त्यामिति? ॥१॥ आयाताः कति नैव यान्ति कति नो यास्यन्ति नो वा कति,
स्थानस्थाननिवासिनो भवपथे पान्थीभवन्तो जनाः । अस्मिन् विस्मयनीयबुद्धिजलधिविध्वस्य दस्यून करे, कुर्वन् पुण्यनिधिं घिनोति वसुधां श्रीवस्तुपालः परम् ॥ २ ॥ ॥ ग्रन्थानम् २४७ । उभयम् २७९३ ॥
१ 'मश्रीः समाददे खता० पाता० ॥ २ मेवोपदि खता० ॥ ३ 'रितनामा नव पाता०॥ ४ पतेारी खंता पाता.॥ ५ ल! स्फटां. भेजे ग्वंता० पाता० ॥ ६ लघवि पाता. ॥ ७ ध्वस्त वता० ॥ ८ निधेधिनो पाता०॥ ९सर्गग्रन्था खंता० ॥
म. १४