________________
१०४
सङ्घपतिचरिता परनामकं
[ नवमः
॥ १९९ ॥
'ततः पवनवेगोऽपि नृपं नत्वेदमब्रवीत् । भृत्योऽस्मि विक्रमक्रीतस्ताताहं युगबाहुना मणिचूडादयस्तत्र, सर्वे विद्याधरेश्वराः । राज्ञा समर्प्य सौधानि, सत्कृता वसना - शनैः ' ॥ २०० ॥ पुरीपरिसरे रम्ये, तत्र संसूत्र्य मण्डपम् । सुधर्मायाः सधर्माणं, कार्मणं विश्वचक्षुषाम् । ॥ २०१ ॥ . परितः कारयामास, मांसलान् भूमिवासवः । मञ्चान् विमानसन्तानमानमुद्राम लिम्लुचान् ॥ २०२ ॥ ॥ युग्मम् ॥
#t
।
॥ २०३ ॥
I
२०४ ॥
२०५ ॥ .
॥ २०६॥
सकौतुकप्रपञ्चेषु, मञ्चेष्वथ यथायथम् । भूचराः खेचराः सर्वे, निषेदुर्मेदुरश्रियः ततो विक्रमबाहुश्च, मणिचूडश्च पार्थिवौ । निविष्टौ मण्डपे तन्त्र, चन्द्रार्काविव पर्वणि ॥ सप्रागल्भ्येषु सभ्येषु, स्थितेषु स्मेरविस्मयम् । आसीनेषु ससम्मर्द, कोविदानां गणेषु च ॥ स्वदेश-परदेशेभ्योऽभ्यागतेषु सकौतुकम् । अपरेष्वपि लोकेषु, निषण्णेषु यथायथम् एत्य लक्ष्मी-सरस्वत्योरिव जङ्गमसङ्गमः । आसाञ्चक्रे कुमारोऽसौ पादपद्मान्तिके पितुः ॥ २०७ ॥ ॥ विशेषकम् ॥ ततोऽनङ्गवती तत्र, मूर्त्तेवाज्ञा मनोभुवः । क्षीरोदनिर्गतेव श्रीः, कलाकेलिरिवाङ्गिनी ॥ २०८ ॥ याप्ययानात् समुत्तीर्य, प्रतीहारीभिरावृता । सानन्दमिन्दुलेखेव, तारकानिकराञ्चिता ॥ २०९ ॥ प्रणम्य चरणौ पित्रोः पादाङ्गुष्ठार्पितेक्षणा । निषसादाग्रतो लोकलोचनाञ्चलवीजिता ॥ २१०॥
॥ विशेषकम् ॥..
1
2
>
F
"
राजात्मजागुरुः प्राह, कुमार ! क्रियतामयम् । राजपुत्रीकृतप्रश्नचतुष्टयविनिर्णयः ॥ २१९ ॥ अभ्यधान्नृपपुत्रोऽथ, पित्रोरानन्दमुद्गिरन् । उच्चैर्वाचंयमीभूय, जनैः साक्षेपमीक्षितः ॥ २१२ ॥ याऽग्रेऽस्ति स्वर्णपाञ्चाली, निर्वाचालीकृतानना । कर्ता मद्वचनादेषा, समस्तप्रश्ननिर्णयम् ॥ २१.३ ॥ ततः सा बालिका पाञ्चालिका साऽप्यार्ययैकया । उच्चैरुच्चेरतुः प्रश्नमुत्तरं च क्रमादिदम् ॥ २१४ ॥
f तद्यथा---
कः सकलः ? सुकृतरुचिः, कः सद्बुद्धिर्विधेयकरणगणः । कः सुभगः ? शुभवादी, को विश्वजयी ? जितक्रोधः
1.
ततस्तुष्टेषु सभ्येषु, स्तुवत्सु गुणवत्सु च । कुमारी सचमत्कारं कुमारमपि च दृशा तं वधू-वरसम्बन्धबन्धं विदधतो विधेः । तदाऽनौचित्यकारित्ववाच्यमुन्मूलितं जनैः विप्राणां' मन्त्रनिर्घोषैर्जनानां हर्षनिःस्वनैः । बन्दिकोलाहलैस्तूयैः शब्दाद्वैतं तदाऽभवत् अथ मौहूर्तिकादिष्टे, लग्ने सर्वग्रहेक्षिते । क्षितेरधिपती पाणि, ग्राहयामासतुः सुतौ वधू-वरं च हस्त्यश्व-रथा-ऽलङ्करणांशुकैः । अर्चयामासतुः स्नेह - विभव - प्राभवोचितैः
॥ २२१ ॥
॥ २२२ ॥
पाठसिद्धाश्व साध्याश्च, तत्तत्कर्मसु कर्मठा: । जामात्रे प्रददौ विद्या, विद्याधरनरेश्वरः सप्रपञ्चमहामञ्चमुदारद्वार-तोरणम् । उत्पताकं विशामीशस्ततः प्रावीविशत् पुरम् समान्य मणिचूडादीन्, विद्याधरधराधवान् । राजधानीं निजनिजां, राजा हृष्टो विसृष्टवान् ॥ २२३ ॥ 'नृपः पवनवेगोऽपि, गोपिताविनयस्ततः । सत्कृत्य कृत्यदक्षेण, मैषि विक्रमबाहुना, ॥ २२४ ॥ आपृच्छपौर धौरेयानभ्यर्च्य पुरदैवतान् । विमोच्य बन्धनक्षिप्तान्, दीनादीननुकम्प्य च ॥ २२५ ॥
१ स्तुतिवत्सु गुणोच्चयम् । कुमा पाता० : ॥
1
॥ २१५ ॥
॥ २१६ ॥
॥ २१७ ॥
॥ २१८ ॥ ̧ ̧ ॥ २१९॥ ·
॥ २२० ॥