________________
धर्माभ्युदयमहाकाव्यम् । अथार्जय्यं रिपुमत्रा, कुमारं मारविक्रमम् । निःशूको दन्दशूकास्त्रं, साक्षेपः क्षिप्रमक्षिपत् ॥ १६९ ।। ततोऽहिपाशनाशाय, मन्त्रमत्रस्तमानसः । कुमारः शारदादत्तं, वैरिघस्मरमस्मरत् ॥१७० ॥ तयोरित्यनमस्त्रेण, विनिवारयतोर्मिथः । शारदामन्त्रमाहात्म्यादङ्गस्तम्भो रिपोरभूत् ॥१७१ ।। ततः कुमारमाहात्म्यान, विस्मितोऽसौ गतस्मयः । मलं ममार्ज दौर्जन्यजनितं वचनामृतैः ।। १७२ ॥ तदाऽवदानमालोक्य, त्रैलोक्योपरिवर्ति तत् । परोपकारव्यापारसज्जितं च तदूर्जितम् ॥१७३ ॥ रूपं चानन्यसामान्यं, तच्च सौभाग्यमद्भुतम् । सा कन्या विस्मयोत्तानमानसैवमचिन्तयत् ॥ १७४ ।।
॥ युग्मम् ॥ स एव यदि राजेन्दुनन्दनोऽयमिहागमत् । उपचक्रे ममैतर्हि, तर्हि विद्याधराधमः ॥१७५ ॥ तदाऽरिवचनैर्यावत् , कुमारस्य प्रसेदुषः । विमुक्तस्तम्भनः शत्रुर्दान्तः पादान्तमागमत् ॥ १७६ ॥ तावदाविर्बभूवाग्रे, कोऽप्युत्तीर्य विमानतः । भास्वरोदारनेपथ्यधरो विद्याधरोत्तमः ॥१७७ ॥ कुमारस्य पुरः सोऽपि, विस्फुरत्करकोरकः । जगाद युगवाहो! त्वं, सुस्थितः शृणु मे वचः ॥ १७८ ॥ तथास्थिते कुमारे च, पुरुषे च पुरःसरे । कथां प्रस्तावयामास, विद्याधरधुरन्धरः ॥ १७९ ॥
. भरतक्षेत्रसीमन्तवैताट्योत्तरदिग्गतम् । अस्त्यपास्तामरपुरं, पुरं गगनवल्लभम् ॥१८० ॥ मणिचूडाभिधस्तत्र, पतिर्विद्याधरेश्वरः । प्रिया च तस्य पूर्णेन्दुवदना मदनावली ॥१८१ ।। कुलदेवतया दत्ता, सुताऽनङ्गवती तयोः । जज्ञेद्वैतचतुष्पष्टिकलाकौशलशालिनी ॥१८२ ॥ आरूढयौवना सा च, प्रतिज्ञामिति निर्ममे । यः कोऽपि दास्यति प्रश्नचतुप्केऽपि ममोत्तरम् ॥ १८३ ॥ स एव भावी भर्ता मे, खेचरो भूचरोऽथवा । ततः श्रुत्वा प्रतिज्ञां ता, विद्याधरनराधिपाः ॥ १८४ ॥ गर्वतः सर्वतोऽभ्येत्य, प्रश्नोत्तरवहिर्मुखाः । वृथाऽभवन्नपुण्यानामिव लक्ष्मीमनोरथाः ॥१८५ ॥ ततश्चान भूभा, पृष्टो नैमित्तिकोत्तमः । युगवाहुं शशंसास्या, भाविनं भूचरं वरम् ॥ १८६ ।। ततः प्रभृति सा तत्र, लक्ष्मीरिव मुरद्विषि । बद्धभावाऽभवत् कामं, गुणैः श्रुतिपथागतैः ॥ १८७ ॥ पूर्वेयुः पातरेवास्य, सभासीनस्य भूभुजः । आगात् पवनवेगाख्यः, खगः शङ्खपुरेश्वरः ॥ १८८ ॥ पुत्रीमुद्दोढुकामोऽयमकृतप्रश्ननिर्णयः । विलक्षो हृतवानेता, द्विको मुक्तालतामिव ॥ १८९ ॥ ततोऽनुपदिनस्तस्याः, खेचराः सर्वतो ययुः । अस्यास्तु मातुलः सोऽहमिहायातोऽस्मि दैवतः ॥ १९० ॥ पुरः पवनवेगोऽयं, जामेयी च ममाप्यसौ । प्राणप्रदस्य सर्वेषां, किं ते प्रतिकरोमि तत् ? ॥ १९१ ॥
रत्नचूडाभिधे तस्मिन्नेवं वदति खेचरे । मणिचूडनृपोऽप्यागात् , तत्रैव सपरिच्छदः॥ १९२ ।। उवाच च महाबाहो !, सुतेयं मम जीवितम् । सर्वस्वमपि चैतन्मे, तत् त्वयैवाऽऽत्मसात् कृतम् ॥ १९३ ।। मम नैमित्तिकेनास्याः, कथितस्त्वं पतिः पुरा । साम्प्रतं ज्ञापितश्चासि, मम विद्याधरेश्वरैः ॥ १९४ ॥
तत् त्वां प्रतिप्रदानेऽस्याः, का नाम प्रभुता मम । । किन्तु प्रतिज्ञानिर्वाहोऽप्यस्यास्त्वय्येव तिष्ठति ।
॥ १९५॥ निष्कारणोपकर्तारः, क नाम स्युभवादृशाः । दृष्टः कि विष्टपोज्जीवी, यदि वा न दिवाकरः॥ १९६ ॥
— एवं वदति सानन्दं, विद्याधरनरेश्वरे । ज्ञात्वा वृत्तान्तमाजग्मे, तत्र विक्रमबाहुना ॥ १९७ ॥ सङ्गमस्तत्र चान्योन्यमुभयोरपि भूमुजोः । प्रशस्यः समभूद् गङ्गा-कालिन्दीस्रोतसोरिव ॥१९८ ॥
१ जयें रि" खंता० २ थातिगैः ॥ खता० ॥ ३ स्थास्तु सोऽवतिष्ठते पाता० ॥