________________
सवपतिवरितापरनामकं महात्मन् पूर्वदुष्कर्मनिर्मूलनसमीहया, । युज्यते तपसाऽऽराद्धं, ततस्ते ज्ञानपञ्चमी ॥ १३ ॥ तावज्जाड्यज्वरोद्गारैर्जीयन्ते हन्त ! जन्तवः । यावन्नाविर्भवत्युच्चैस्तपस्तपनवैभवम् । ॥१३८ ॥ येषां तपःकुठारोऽयं, कठोरः स्फुरति स्फुटम् । मूलादुच्छेदमायान्ति, तेषां दुष्कर्मवीरुधः ॥ १३९ ॥ भावेनाराधितो येन, तपोधर्मोऽतिनिर्मलः । एतेनाराधितौ दान-शीलधर्मावपि ध्रुवम् ॥१४०॥ सम्पन्नानन्यसामान्यतपःसन्दोहदोहदः । वितनोति फलस्फाति, मनोरथमहीरुहः । . ॥ १४१.॥ तत् ते क्षीणान्तरायस्य, पञ्चमीतपसाऽमुना । मनोरथतरुः सर्व, वाञ्छितार्थ फलिष्यति, ॥ १४२ ॥ इत्युक्तो मुनिना तेन, सैष निष्पुण्यपूरुषः । निवृत्य मृत्योरागत्य, गृहं चक्रे तपोऽद्भुतम् ॥ १४३ ॥ स पूजनं जिनेशस्य, प्रथयन् विभवोचितम् । वरिवस्यन् गुरूंश्चापि, निन्ये जन्म कृतार्थताम् ॥ १४४ ॥ अथायं परिपूर्णायुः, संजज्ञे नृपतेः सुतः । युगबाहुरिति ख्यातः, स त्वं सत्त्वनिकेतनम् ॥ १४५ ॥ तत् त्वया तोषिताऽस्म्युच्चैधर्ममाराध्यता पुरा। निःशङ्कितमतो ब्रूहि, वत्स! वाञ्छितमात्मनः ॥ १४६ ॥ । देव्या प्रसादादित्युक्ते, शस्त्रे शास्त्रे च कौशलम् । लोकोत्तरं मयाऽयाचि, प्रतिपन्नं तया च तत् ॥१४॥ प्रतिपक्षप्रतिक्षेपक्षममेकं परं पुनः । महामन्त्रं ददौ देवी, कलाकोशलदायिनम् ॥१४८ ॥ यावद् गृहीतमन्त्रोऽहं, नमामि परमेश्वरीम् । अपश्यं तावदात्मानं, नदीपुलिनगामिनम् ॥ १४९ ॥ प्रमोदविस्मयस्मेरवदनस्तदनन्तरम् । उत्सुकोऽहं जवादेव, देवपादान्तमागमम् ॥१५० ॥ । नृपस्तदा तदाकर्ण्य, सुतस्य महिमाद्भुतम् । यौवराज्यं ददौ सर्वपुरोत्सवपुरःसरम् ॥ १५१ ॥ कुमारोऽपि श्रियं प्राप्य, सहकार. इवामृताम् । गमयामासिवान् काममर्थिसार्थ कृतार्थताम् ।। १५२ ॥ , अर्द्धरात्रेऽन्यदा वासगृहे पर्यवर्तिनः । युवराजस्य शिश्राय, श्रवणं रुदितध्वनिः ॥ १५३ ॥ जिज्ञासुः प्रभवं तस्य, कुमारः करुणामयः । कृपाणपाणिर्निर्गत्य, गतवानध्वनि ध्वनेः ॥१५४ ।। असावन्तर्वणं यातस्तत्र वित्रस्तलोचनाम् । म्लानीभवन्मुखाम्भोजां, सायमम्मोजिनीमिव ॥ १५५ ॥ लावण्यपुण्यतन्वङ्गी, प्रातःशशिकलामिव । रुदती सुदतीमेकामपश्यद् विस्मयाञ्चितः ॥१५६ ॥ युग्मम् ।। नरेण दिव्यरूपेण, पुरःप्रोल्लासितासिना । तामर्थ्यमानामालोक्य, स तस्थौ विटपान्तरे ॥१५७॥ स नरश्चाटुकारोऽपि, रोपितावज्ञमीक्षितः । सुमुखीं विमुखीमेतां, रूक्षाक्षरमदोऽवदत् ॥१५८ ॥ मयि प्रपन्नदास्येऽपि, दास्यते यदि नोत्तरम् । तदसिद्देश्यतामेष, स्मर्यतामिष्टदैवतम् ॥ १५९ ॥ ऊचेऽथ कन्या रे मूढI, स्मरामि कमिवापरम् ? | युगवाहुकुमारोऽस्ति, हृदि मेऽद्वैतदैवतम् ॥, १६० ॥ यद्यत्र मन्दभाग्याया, नैव दैवेन दर्शितः। भवान्तरेऽपि मे भूयात् ,प्राणनाथस्तथापि सः॥१६१॥ युग्मम् ॥ , हृष्टः स्वनामश्रवणानामसाम्याच शक्तितः । विस्मितो वनितारूपाज्जुगुप्सुः क्रूरकर्मणा ॥ १६२ ॥ कुमारः खङ्गमाकृष्य, ततः क्रोधादधावत । स्त्रीघातपातकिन् । क्रूर!, क रे! यासीति तर्जयन् ॥ १६३ ॥
॥ युग्मम् ॥ अथासौ पुरुषः प्राह, भद्र ! द्रुतमितः सर । रजकस्याऽऽयुषि क्षीणे, खरवन् म्रियसे कथम् ? ॥ १६४ ॥ कुमासेऽप्यब्रवीत् प्राणैरेभिः सत्वरगत्वरैः । यशःपुण्यमयस्वार्थपरं मां धिक्करोषि किम् ? ॥ १६५ ॥ किश्चातिक्रूरमेतत् ते, निर्मातुं कर्म नोचितम् । लोकद्वयविरुद्धं हि, विदधाति सुधीः कुतः ? ॥ १६६ ॥ नरोऽप्युवाच साचिव्यं, किमहो,! मद्गृहे तव । हितोपदेष्टा येनाभूयुयुत्सुरपि सम्प्रति ? ॥ १६७ ।। इत्युक्त्वा धाविते तस्मिन्, नरे रणरसातुरे । खड्गाखगि चिरं वृद्ध, युद्धमुद्धतमेतयोः ॥ १६८ ॥