________________
सर्गः]
धर्माभ्युदयमहाकाव्यम् । अथाहं हर्षसोत्कर्षचेता विकसिताननः । नमोऽकार्ष तदा देवी, मधुर-स्निग्धमीक्षितः ॥१०९ ॥ वाग्देव्याऽहं स्वयं पादपीठेऽथ विनिवेशितः । क्षणं जज्ञे किल प्राप्तो, मोक्षादपि परं पदम् ।। ११० ।। हारहूरानुहारिण्या, गिरा देव्याऽथ भाषितः। मा वत्स! विस्मयायत्तं, कार्षीश्चित्तं नृपाङ्गज ! ॥ १११ ॥ इत्थमाराधनाभाजस्तव स्तवन-पूजनैः । गङ्गाकन्यकया चक्रे, मया सत्त्वपरीक्षणम् ॥११२ ।। किश्च प्रेष्य प्रतीहारीमिहानीतोऽसि सम्प्रति । इदं दर्शयितुं वत्स !, स्वक्रीडाभवनं तव ॥ ११३ ॥ तत् तवाहमनेनोचैः, साहसेनास्मि विस्मिता । कुरुषे पुरुषेण्वत्र्य !, कथमाराधनामिमाम् ? ॥ ११४ ॥ किश्चानाराधिताऽप्युच्चैः, प्राच्यैस्ते पुण्यकर्ममिः । परतन्त्रेव तुष्टाऽस्मि, सकर्णाऽऽकर्णय क्षणम् ॥ ११५ ॥ युगवाहुकुमारस्य पूर्वभवः
तथाह्यासीत् पुरा पुष्पपुरे जितमरुत्पुरे । निर्धनः कोऽपि दारिद्यराजधानीव देहिनी ॥ ११६ ॥ महेऽन्येयुः स कौमुद्यामुद्याने वीक्ष्य नागरान् । अर्थिसङ्कल्पकल्पद्रूनिव साक्षादचिन्तयत् ॥ ११७ ॥
____ मन्दभाग्योऽतिनिर्लजः, पात्रं निन्दितकर्मणाम् ।
मया समः समस्तेऽपि, नास्त्यन्यः कोऽपि भूतले ॥ ११८ ॥ यदस्मिन्नुत्सवे पौरान्, वीक्ष्य दानाद्यलङ्कृतान् । नैवाद्यापि विमुच्येऽहं, प्राणैः पाषाणनिष्ठुरैः ॥ ११९ ।। इहान्तरेषां पौराणामहो! मे सम्पदुत्तमा । निर्वाणाङ्गारकस्येव, शोणमाणिक्यमध्यतः ॥१२० ।। समानेऽपि मनुष्यत्वे, विशेषोऽयं यदद्भुतः । तदत्राहमहो! मन्ये, पुण्या-ऽपुण्ये निबन्धनम् ॥ १२१ ।। तन्मया यत् क्वचित् किञ्चिन्न कृतं सुकृतं पुरा । दुःखपात्रं तदत्राहमभवं विभवं विना ॥ १२२ ॥ अङ्गत्यागं ततो गत्वा, करिष्ये किल भैरवे । यथा भवाम्यहं दुःखभाजनं न भवान्तरे ॥ १२३ ॥ पर्यालोच्येति तत्रागादुत्सुको भैरवोपरि । अभीष्टदेवतायाश्च, नमस्कारं चकार सः ॥ १२४ ।। झम्पापातं चिकीर्षुश्च, दिशो व्यालोकयन्नयम् । शमं मूर्तमिवाशोकतले मुनिमुदैक्षत ॥१२५ ॥ दृष्ट्वा च तं नमश्चक्रे, भावपावनमानसः । क्षणं चोपासनाहेतोः, पुरस्तादुपविष्टवान् ॥ १२६ ।। ध्यानान्तेऽथ मुनीन्द्रोऽपि, ज्ञानत्रयमयः स्वयम् । ज्ञात्वोपकारमूचे तं, सुधामधुकिरा गिरा ।। १२७ ।। कुतस्त्वमागतो वत्स!, वनमेतदमानुषम् ? । कथं चेत्यद्भुतानन्दो, वर्तसे प्राप्तरलवत् ? ॥ १२८ ॥ उवाच सोऽपि दारिद्र्यसमुद्रस्य महामुने ! । पारं तीर्थममुं प्राप्य, भैरवं मुदितोऽस्म्यहम् ॥ १२९ ॥ तदत्र कृतकृत्योऽस्मि, युष्मदर्शनतोऽधुना । विशुद्धमियता मन्ये, भवान्तरमहं निजम् ॥ १३० ॥ अथोवाच मुनीन्द्रस्तं, वाचा मधु-सुधामुचा । कुतस्त्वमितिमूढोऽसि, वत्साविदिततत्त्ववत् ॥ १३१ ॥ सुलभा जीवलोकेऽस्मिन् , धृति-श्री-सुख-सम्पदः । चिन्तारलमिवात्यन्तदुर्लभं जन्म मानुषम् ॥ १३२ ॥
तत् तस्यानुपभुक्तस्य, त्यागः किमिति युज्यते ।। यदस्य न पुनः प्राप्तिः, सहस्रेणापि जन्मनाम् ।
॥ १३३ ॥ कृतेन मृत्युना जन्तोदेह एव विनश्यति । लाभान्तरायकृत् कर्म, न पुनः पूर्वनिर्मितम् ॥ १३४ ।। तत्तत्कर्मविनाशाय, प्रायः कायस्तपोऽग्निना । संशोप्य निर्मलः स्वात्मा, बुद्धिमद्भिर्विधीयते ॥ १३५ ।। तदन्तरायकृत् कर्म, कृतमज्ञानपूर्वकम् । ज्ञानाराधनशुद्धेन, तपसा हि विलीयते ॥ १३६ ॥ १ हारी, मयाऽऽनीतो खंता० ॥ २ मूचेऽमुं, सुधामधुरया गिरा संता० ॥ ३ 'स्त्वमति वता०॥