________________
सङ्घपतिचरितापरनामकं
किं दैवं ? देव ! कश्च त्वं १, संरम्भः कं प्रति प्रभो ! ? | विचारय रयं त्यक्त्वा, न शक्यमिदमस्ति यत्
1
॥ ८० ॥
॥ ८२ ॥
॥ ८३ ॥
' ॥ ८४ ॥
॥ ८५ ॥
॥ ८६ ॥
11 2011
'तदेव दैवं यत् कुर्यात्, कर्म जन्तुः शुभा - ऽशुभम् । शोभैव सृष्टि संहारकारिकारणवर्णना ॥ ८१ ॥ तत् परित्यज्य संरम्भमुत्तरास्त्वं कुरु क्रियाः । अनित्यं विश्वमालोक्य, स्थैयोंपायपरो भव सुप्रातमङ्गलाचारचारुराविरभूदथ । मांसलो दुन्दुभिध्वानैर्गभीरः शङ्खनिस्वनः अथ सत्वरमागत्य, कश्चिदाश्चर्यतत्परः । उद्यदानन्दसन्दोहमेदुराश्रुरदोऽवदत् आन्ध्यहेतुतमः स्तोमच्छेदमासुरभास्वतः । दिव्या त्वं वर्षसे देव !, युगवाहोरिहागमात् पारितोषिकदानेन तं सत्कृत्याथ पूरुषम् । नृपतिर्विस्मयस्मेरो, यावदुत्तिष्ठति स्वयम् तावत्तल्लोककोकानां, शोकमुन्मूलयन्नयम् । स्वच्छॆशोचिरलङ्कारभासुराकारविग्रहः स्वयमीक्षणराजीवजीवातुः प्रातरागतः । भास्वानिवोदय कलादुर्निरीक्षो नृपाङ्गनः ॥ ८८ ॥ युग्मम् ॥ नन्दनं चन्दनस्यन्दसुन्दराकारभासुरम् । प्रणमन्तं परिष्वज्य, जगाद जगतीपतिः ॥ ८९ ॥ अदृश्यत्वं स्त्रिया साकं, यावत् त्वमभजस्तया । वृत्तमाख्यायि तत् तावत्, तावकैः सेवकैर्मम ॥ ९० ॥ अतः, परं परं घीमन्!, संवृत्तं यद्यदद्भुतम् । वत्स ! तत् सर्वमप्युच्चैर्मदग्रे वक्तुमर्हसि ' ॥ ९१ ॥ स रूपमन्मथो वाचमथोवाच नृपाङ्गजः । प्रक्षालितामिवात्यन्तविशदैर्दशनांशुभिः मूर्च्छामुषितचैतन्यस्तामेवानुव्रजंस्तदा । कोऽहं ? किमर्थ ? कुत्रास्मीत्येवं न प्रतिपन्नवान् ॥ ९३ ॥ क्षणेनैव ततस्तात !, स्वमपश्यं सचेतनः । मौक्तिकक्षोद मेदस्विसिकते सैकते स्थितम् न तत् पुरं न सा गङ्गा, न सा कन्या न सा रसा । आकस्मिकमिदं जज्ञे, किं विचारपथातिगम् १ ॥ ९५ ॥ क्रिमिन्द्रजालं ? किं स्वप्तः ?, किं वा चैतन्यविप्लवः ? । उत मन्येऽहमन्येह, जातिर्जातिस्मरस्य मे१॥ ९६ ॥ विचिन्त्येति क्षणं स्वामिन्नुत्थायाथ परिभ्रमन् । अपश्यमेकं कल्पद्रुकाननं हसिताननः तदन्तःपक्षिभिः पृष्टकुशलोऽहं पुरो त्रजन् । मुमुदे नितरामन्तरारामं तं विलोकयन् - अग्रतश्च गतश्चित्रकारणं तापवारणम् । प्रासादमेकमद्राक्षमुच्चैः सप्तक्षणं क्षणात्
॥ ९२ ॥
• ॥ ९४ ॥
॥ ९७ ॥
॥ ९८ ॥
प्रविश्य तस्मिन्नारूढः, षष्ठीं यावदहं भुवम् । जज्ञे कर्णातिथिस्तावन्मम सङ्गीतनिःस्वनः गत्वाऽग्रतस्ततस्तन्न, द्वारदेशे विलम्बितः । कयाचिद् वेत्रधारिण्या, क्षणादागत्य भाषितः अहं श्रीशारदादेव्या, त्वदाकारणहेतवे । शब्द विद्याप्रतीहारी, प्रेषिता तत् पुरो भव ॥ १०२ ॥ तत् तयाऽहं सह प्राप्तः, शारदाचरणान्तिकम् । अपश्यं तुम्बुरुस्फीतगीतप्रीतिस्मितेक्षणाम् ॥ १०३ ॥ चारुचारीप्रचारेण, नृतेनाप्सरसां पुरः । प्रेक्षाकौतूहलेनोच्चैः, क्षणमाक्षिप्तचक्षुषम् ॥ १०४ ॥ हंसेन विहितोपास्ति, सेवितां देव-दानवैः । वादयन्तीं स्वयं वीणां, हिरण्यकमलासनाम् ॥ १०५ ॥ निजकान्तिसुधापूरैर्लिम्पन्तीमिव सेवकान् । विभ्रती पुस्तकं हस्ते, रोहन्मोहमहौषधम् ॥ १-०६ ॥ तर्क-साहित्यविद्याभ्यां, वाम-दक्षिणपार्श्वयोः । वालव्यजनपाणिभ्यां वीज्यमानां मुहुर्मुहुः ॥ १०७ ॥ प्रशान्तपावनीं मूर्ति, दधानां वचनातिगाम् | शारदां शारदाम्भोदेविशदस्वच्छवाससम् ॥ १०८ ॥ ॥ षङ्गिः कुलकम् ॥
1
f
;;
१००
7
h
॥
॥
[ नवमः
1
॥ ९९ ॥
१०० ॥
१०१ ॥
१ 'भास्वरभास्व' संता० ॥ २ च्छरोचि संता० पाता० ॥ ३ किञ्चाचार' बता० ॥ ४ 'दसोदरस्वच्छ' संता० ॥
3
!