________________
सर्गः]
.
.
धर्माभ्युदयमहाकाव्यम् । श्रुत्वेति वचनं तस्या, भमेऽन्येषां पराक्रमे । स चचाल स्थिरस्थामसिन्धुरः सिन्धुरोधसः ॥५३ ॥ तदाऽवगणयन्नेष, परिवारनिवारणम् । धीरोद्धतपदन्यासः, कम्पयन्निव मेदिनीम् ॥५४ ॥ वार्यमाणः इवाम्भोभिक्षुलद्भिः सम्मुखागतैः । सेव्यमानो यशोवीजैरिव पाथःकणोत्करैः ॥५५॥ उदिधीधुरिमां कन्या, वाहिनीवाहवाहिताम् । विवेश लसदावेशः, परोपकृतये नदीम् . .॥ ५६ ॥
॥विशेषकम् ।। वीक्षितः सैनिकैः कन्यामुदिधीधुर्महीमिव । स्फुरन्नन्तर्जलं सोऽयं, नारायण इवाबभौ ॥५७ ॥ प्लवमानो यदैतस्याः, समीपं समुपागतः । कुमारस्तावदेवाऽपि, दूराद् दूरतरं ययौ ॥५८ ॥ हर्षोत्कर्षेण सैन्यस्य, तया च मृगचक्षुषा । समकालमदृश्यत्वं, भेजे भूमिभुजाङ्गजः ॥५९ ॥
__ अथ कर्त्तव्यमूढास्ते, सैनिकाः साश्रुचक्षुषः। सन्ति गङ्गातटे यावत् , कुमारादर्शनाकुलाः ॥ ६० ॥ तावत् तन्नाशसाक्षित्वपातकादिव पातुकः । आससाद निधिर्धाम्नामस्तपर्वतमस्तकम् ॥ ६१ ॥
॥ युग्मम् ।। अस्तोकशोकभृल्लोकचक्रं चक्रन्द चक्रवत् । तत्र मित्रे स्फुरद्वृत्तावेशे देशान्तरं गते ॥१२॥ दिक्षुरिव तं भानुः, कुमारं मारविग्रहम् । पाथोनाथपथेनाथ, पातालमुपजग्मिवान् ॥६३ ॥ अथो पुरान्तरागत्य, सैनिका निशि दुःखिनः । वार्तामार्ताशयाः सर्वा, कथयामासुरीशितुः ॥ ६४ ॥ दम्भोलिनेव भूपालस्ताडितो हृदयेऽपतत् । तद्वार्तादुःखसङ्घजन्मना शोकशङ्खना ॥६५॥ मुक्त्वा शोकं कुमारस्याधावल्लोको नृपान्तिकम् । चन्दन-व्यजनादीनि, सकलः कलयन् करे ॥ ६६ ॥ तेन शैत्योपचारेण, कृतेन कृतिनां वरः । अथ प्रथितचैतन्यो, जगाद जगतीपतिः ॥६७ ॥
कसा भक्तिः क सा शक्तिः, क सा क्षान्तिः ? क सा मतिः । एकैकशोऽपि दृश्यन्ते, हा हन्त ! नहि ते गुणाः
॥६८॥ त्वं तातवत्सलो वत्स!, जन्मतोऽपि प्रभृत्यभूः । मांजराजर्जरं हित्वा, तत् सम्प्रति गतः कुतः। ॥ ६९ ।।
उपेक्ष्य प्रेक्षणीयानां, मूर्धन्य ! खां कुलश्रियम् । कन्याकृते त्यजन् प्राणान् , स्थूललक्ष्योऽसि निश्चितम्
॥ ७०॥ अमात्योऽपत्यदुःखे , विलपन्तं पति भुवः । अभाषिष्ट तदाऽऽचारविचाररुचिरं वचः ॥७१ ॥ भवादृशां विशांनाथ !, पाथोनाथगभीरिमन् ! । युक्तं भवे भवेदेव, न देव ! परिदेवनम् ॥ ७२ ॥ स्वकर्मफलभोगेन, संसाराब्धौ शरीरिणः । बुडूदा इव यान्त्येके, समायान्त्यपरे पुनः ॥ ७३ ॥ यदेवेष्टवियोगादि, विरक्तेः कारणं सताम् । मोहान्धानां तदेवाहो !, क्रोध-शोककरं परम् ॥ ७४ ॥ न चक्रिणा न शक्रेण, कृतविक्रमसङ्क्रमम् । विश्वकवीरमाख्यान्ति, दैवमेवंविधं बुधाः ॥७५ ।। स्वामिन् ! सैन्येन दैन्येन, सेवितैः परिदेवितैः । असौ प्रकृतिदुर्दान्तः, कृतान्तः केन गृह्यते ! ॥ ७६ ॥ इदं वचः समाकर्ण्य, मतिसागरमन्त्रिणः । कृपाणं पाणिनाऽऽकृष्य, धावितः पृथिवीपतिः ॥ ७७ ॥ कृतं कृतान्त ! गर्वेण, व्रज दृष्टिपथं मम । यथा तवैतद्व्यसनं, छिनद्मि च्छद्मसमनः ॥७८ ॥ अनल्पमिति जल्पन्तमल्पितारिपराक्रमम् । साटोपकोपं भूपालमुवाच सचिवेश्वरः ॥ ७९ ।।
१रणाम् पाता० ॥ २ गमत् । कुमा' खंता ॥ ३ 'रद्धत्यावे खता० ॥ ४ न. प्रलप खंता० ॥ ५'दा चारुविचा खता० ।।