________________
सर्गः
धर्माभ्युदयमहाकाव्यम् । प्रीतिर्न गीते नानन्दश्चन्दने न धृतिर्विधौ । आत्मनेव विना तेन, जज्ञे तस्यास्तनोरिव ॥७७४ ॥ ज्ञात्वा विकारमाकार-चेष्टिताभ्यामथ स्वयम् । यथार्थनामा तामाह, चेटी चतुरिकाया ॥ ७७५ ॥ सत्यं स्वामिनि! किं नाम, तं युवानं समीहसे ! । युक्तं वा यन्मृणालिन्या, रविरेव प्रियङ्करः ॥ ७७६ ॥ अथ लीलावती पाह, स्मरदाहातुराक्षरम् । हजे! चतुरिकैवासि, यदिदं कौशलं तव ॥७७७ ।। वशीकृताबलालोकं, पुष्पपेशलया हशा । कथञ्चित् तं स्मराकारं, प्रीतये मम मेलय ॥ ७७८ ।। ज्ञात्वा कुतोऽपि ते साऽपि, समुद्रप्रियनन्दनम् । ललिताङ्गमुपेत्यैवं, व्याजहार चक्तिभिः ।। ७७९ ॥ त्वया लीलावतीदेव्याश्चौर ! जहे मनः किल। गताश्रयस्तु तां हन्ति, हन्त ! बाणैमनोभवः ॥ ७८० ॥ त्वद्वियोगेऽभवत् तस्याः,प्रावृट्कालस्तथाऽश्रुभिः । प्रयाणोन्मुखतां भेजे, यथा हंसोऽतिबाधितः ।। ७८१ ।। अयं वियोगो दावाग्निर्न दीपकलिका पुनः । शान्ति याति न तन्मुग्ध !, किन्तु हन्तोपचीयते ॥ ७८२ ॥ इत्थं भवद्वियोगोत्थसन्तापोपशमाशया । वीजयन्ती हसत्येषा, मामहो ! कदलीदलैः ।। ७८३ ॥
॥ युग्मम् ॥ विशिष्टयोगतां यस्यास्त्वद्वियोगः किलाभजत् । भवन्मयमतः सर्व, सा पश्यत्यवनीतलम् ॥ ७८४ ॥ स्वयं तत् त्वमुपागत्य, तापनिर्वापणं कुरु । युक्तं तु नायशस्तस्या, ग्रहीतुं तव सर्वथा ॥ ७८५ ॥
___ अथोचे ललिताङ्गोऽपि, सङ्गोपितनिजाशयः । अयि ! काहं वणिग्मात्रं ?, सा क वा राजवल्लभा ?
॥ ७८६ ॥ प्रच्छन्नमपि कर्मैतत् , कर्तुं किमिति शक्यते ।। सुप्तस्यापि हरेर्दष्ट्रां, को वीक्षितुमपि क्षमः ।। ७८७ ।।
साऽप्यूचे न त्वया सौम्य !, चिन्ताऽर्थेऽस्मिन् विधीयताम् । अस्मिन् संयोजनोपोये, विधिमूर्तिमवेहि माम्
॥ ७८८॥ अथानुमतिमासाद्य, सद्यः सा तस्य दूतिका । विज्ञा विज्ञपयामास, राज्ञी गत्वा यथातथम् ॥ ७८९ ॥ तद्योगकामा वामाक्षी, यावदस्त्यन्यदा मुदा । पुरे तावदभूत् तत्र, प्रमोदी कौमुदीमहः ॥७९० ॥ स्वयं तदा मुदा द्रष्टुं, शरत्कालभवां श्रियम् । आखेटकार्थ भूमीभृदलञ्चक्रे वनावनिम् ॥७९१ ॥ तदा च राजवेश्मान्तर्विजनीभूतमूतले । साऽनङ्गप्रतिमाव्याजाल्ललिताङ्गमवीविशत् ॥७९२ ।। सस्वजे सुचिरात् प्राप्य, लीलावत्यथ तं तथा । यथा तेनैकतामाप, चेतनेवात्मना समम् ॥ ७९३ ॥ कथञ्चिच विचारैककोविदाः सौविदास्तदा । निश्चितं कश्चिदप्यत्र, प्रविवेशेति तेऽवदन् ॥ ७९४ ।। समाप्याखेटकं राज्ञे, सम्प्राप्ताय तदाऽथ ते। ऊचुर्निशान्ते कोऽप्यस्तीत्यच्छलादानपूर्वकम् ॥ ७९५ ॥ स्वयं सशब्दं पन्नद्वा, द्वयं हित्वाऽथ भूपतिः (१)। चौरादप्यधिकं मन्दमन्दमन्तःपुरेऽविशत् ॥ ७९६ ॥ तदा चतुरिकाद्वारदत्तदृष्टिर्महीपतिम् । दृष्ट्वाऽऽयान्तं द्रुतं तत्र, लीलावत्यै व्यजिज्ञपत् ॥ ७९७ ।। स जालकपथेनाथ, लीलावत्या तयाऽपि च । क्षिप्तः पश्चात्प्रदेशस्थाशुचिकूपेऽपतत् कुधीः ॥ ७९८ ।।
दौर्गन्ध्येनान्धलस्तत्र, प्राच्यभुक्तं स्मरन् सुखम् ।
___ दध्यौ भोक्ष्ये पुनर्मोगान्, निर्यातो नेदृशानहम् राज्ञी-दास्यौ च कूपेऽस्मिन् , प्रेम्णा चिक्षिपतुः सदा । फेलां तैयाऽभवत् तस्य, वृनिर्जीवनमात्रिका ॥८००।
१°म मील° पाता० ॥ २ पायवि' पाता० ॥ ३ध्ये फदा भोगा बताः । ४ तदाऽभ वता० ॥