________________
सङ्घपतिचरितापरनामकं.
' [अष्टमः सोऽथ प्रावृषि कूपो गामिभिर्मलवारिभिः । प्रवाह्य बाह्यपरिखां, नीतो वप्रप्रणालकैः ॥८०१॥ क्षिप्तोऽथ परिखातीरे, लोलकल्लोललीलया । दैवादागतया प्राप्तो, धात्र्या देवतयेव सः ॥ ८०२ ॥ .. अथ सङ्गोप्य मूर्ध्वान्ते, निजं नीतो निकेतनम् । . . . . . . अभ्यङ्ग-स्नान-भोज्याद्यैः, पाल्यमानोऽभवन्नवः
॥८०३ ।। अत्र चोपनयो योऽभूल्ललिताङ्गोऽतिकामुकः । अतृप्तः कामभोगेषु, स संसारी शुचिस्मिते ! ॥८०४॥ आपातमधुरो यस्तु, परिणामे सुदुःसहः । राजस्त्रीभोगतुल्योऽसौ, विषयोत्थः सुखोदयः ॥ ८०५ ॥ तत्कूपकल्पगर्मान्तर्वासिनः फेलिकोपमैः । मातृभुक्तान-पानाद्यैर्धिगेतस्य भुजिक्रियाम् ॥८०६ ॥ कूपादिव ततो गर्भाद्, वाहितस्याथ बाह्यतः । सूतिकासदने तस्य, परिखोपमिका स्थितिः ।। ८०७ ॥ धात्रिकोपमिता चात्र, सर्वोपग्रहकारिणी । सेयं परिणतिः पूर्वकर्मणां परिभाव्यताम् ॥ ८०८ ॥. पुनः पुनर्नवीभूतं, वीक्ष्य राज्ञी स्मरातुरा । अन्तराऽऽकारयेच्चेत्तं, तत् किं तस्यात्र युज्यते ॥ ८०९ ।। अथोचुर्वनिताः सोऽयमल्पबुद्धिरपि प्रभो! स्मरन् विष्ठावटोद्भूतदुःखानां तत् करोति किम् ॥८१०॥
___ अथोवाच प्रमुः सोऽपि, कदाचिन्मनुतेऽल्पधीः ।।
अहं तु नानुमन्ये वो, वचः संसारकारणम् । इति जम्बूकुमारस्य, संवेगामृतनिझेरैः । वचोभिर्विषयाकासातापस्तासां शमं ययौ ॥ ८१२ ॥
अथोऽन्तरङ्गवैराग्यरसार्टीभूतचेतसः । अष्टावपि समं जम्बूकुमारमिदमभ्यधुः ॥८१३ ।। प्रमुखे सुखदैः स्वामिन् !, परिणामेऽतिदुःखदैः। इयत्कालं हहा! कष्टं, विषयैर्वञ्चिता वयम् ॥ ८१४ ॥ तत् त्वद्विवाहसम्बन्धादन्धात्तमसमज्जनात् । उद्धृताः स्मस्त्वया यद्वा, श्रेयसे सङ्गतं सताम् ।। ८१५ ॥
आस्थितस्तत् त्वया पन्थाः, श्रितोऽस्माभिरपि स्वयम् । सहैवं नेतर्नेतासि, त्वमस्मान् शिवपत्तनम्
॥८१६ ॥ __उवाच प्रभवोऽप्युच्चैर्महासत्त्व! भवद्गुणैः । कृष्टस्त्वामनुयास्यामि, पितॄनापृच्छय निश्चितम् ॥ ८१७ ॥ मा प्रमादीमहाभाग!, विवेकोचितमाचरेः । इत्युक्तो जम्बुना यातः, प्रभवो भवनं निजम् ॥ ८१८ ॥ ज्ञात्वा जम्बूकुमारस्य, सदारस्यापि निश्चयम् । श्वशुराः पितरौ चासँस्तमेवानुयियासवः ॥ ८१९ ॥ अथ जम्बूकुमारोऽपि, विधाय जिनपूजनम् । सङ्घ विधिवदभ्यर्च्य, सम्मान्य स्वजनादिकान् ।। ८२० ॥ स्नानीयगन्धपानीयकृतमज्जनमङ्गलः । चन्दनेन सितध्यानेनेव सर्वाङ्गमासुरः ॥ ८२१ ॥ रत्नाभरणसम्भारैः, सत्त्वसारैरिवाञ्चितः । असमैः कुसुमैः स्वस्य, यशोभिरिव शोमितः ॥ ८२२ ।। लावण्याम्भोधिडिण्डीरपिण्डैरिव सितांशुकैः । दिव्यैः संवीतसर्वाङ्गः, कर्पूरा-गुरुधूपितैः ॥ ८२३ ॥ दानैरानन्दयन् दीनास्तूयुर्मुखरिताम्बरः । वाह्यां नरसहस्रेण, शिबिकामधिरूढवान् ॥ ८२४ ।। जननान्तरसौहार्दरसेन सहचारिणा । अनाहतेन देवेन, कृतनिष्क्रमणोत्सवः प्रवेशिताभिराक्रम्य, सैन्ये चारित्रभूभृतः । स्मरसेनासमानाभिः, प्रियाभिस्ताभिरन्वितः ॥ ८२६ ॥ स्फूर्जजयजयारावप्रतिध्वानितदिङ्मुखः । मङ्गल्यधवलध्वानाकृष्टपौरवधूजनः , ॥ ८२७ ।। दुर्घटं घटयन् घण्टापथे पाणिन्धमायितम् ।,मायूरच्छत्रखण्डेन, मण्डलं तिरयन् रवः ॥८२८ ॥ . . .. १°ठाचयोद्भपाता० ॥ २ धाम्भसि निमज° पाता० ॥ ३°व तेन नेता खंता० ।। ४ 'त्युक्तेज खंता ॥ ५ नमज्जन खंता० ॥ ६ मै कामं, य° खता० पाता० ॥..