________________
सङ्घपतिचरितापरनामकं
___ [अष्टमा याः कथास्त्वं पुराऽश्रौषीस्तथ्यास्ता भूपते ! यथा । तथेयमपि तथ्याऽस्तु, चित्रहत्वविशेषतः ॥ ७४६ ॥ एवं विप्लावितःक्ष्मापस्तया नागश्रिया यथा। तथा त्वमपि किं नाथ !, विप्लावयसि कल्पितैः ॥ ७४७॥
कल्याणसलिलाधारकम्बुना जम्बुना ततः । समगधत सद्यस्कहाररानिभं वचः ॥ ७४८ ॥ सन्तु दन्तुरितानन्दाः, कथास्तन्वि! तथाविधाः। असावस्तु विचारस्तु, प्रमाण यस्त्वया कृतः ॥ ७४९ ॥
ललिताङ्गाख्यानकम्
तथाहि गाहितस्वर्गनगरीवैभवं भुवि । पुरं कन्दर्पकोशाख्यमस्ति कन्दर्पदर्पभूः ॥ ७५० ।। धराधौरेयतां भेजे, राजा तत्र शतायुधः । पञ्चेषु तृणवन्मेने, यं विलोक्य त्रिलोक्यपि ॥७५१ ॥ सुवर्णभूमिभृवंश्यजातमात्रगिरिस्तनी । तस्य लीलावती नाम, बभूव प्राणवल्लभा ॥ ७५२ ॥ शृङ्गारभारं निर्माय, सा कदाचन कामिनी । तस्थौ गवाक्षमारुह्य, मुह्यज्जननिरीक्षिता ॥७५३ ।। तन्मुखेन्दुस्तदा चन्द्रजयश्रीनाटिकानटः । बभौ मौक्तिकताडकपारिपार्श्वकपेशलः ॥७५४ ॥ लावण्यामृतसिक्तेऽस्याः, सिन्दूरतिलकं मुखे । त्रिनेत्रदग्धकाम[नवकन्दलवद् बभौ ॥७५५ ।। तन्मुखावासिनः कामभूपतेश्चामरायितम् । भेजेऽलकैर्मुदुमरुल्लोलैर्वृच्छत्रपार्श्वयोः ॥ ७५६ ॥ चिक्रीड नासिकाशाखिभ्रूशाखाप्रेङ्खणाद्भुते । तस्या नेत्रद्वयीरश्मिदोलाबन्धे मनोभुवः ॥७५७ ॥ अदर्शि तरुणैस्तस्या, रदपङ्के रुचिः शुचिः । मनोरथस्फुरत्पुष्पायुधचापोत्थवाणवत् ॥७५८ ॥ वैकक्षमाल्यचापस्य, पुष्पेषोरिषुधिश्रियम् । तस्याः शिश्राय धम्मिल्लः, पुष्पपूरेण पूरितः ॥ ७५९ ॥ इत्यसौ नित्यसौभाग्यभङ्गीभाग्यनिकेतनम् । श्लिष्टा स्मरपिशाचेन, सर्वाङ्गमुदयन्मुदा ॥७६० ।। शम्भुक्षोभादिव दिवः, समुत्तीर्ण मनोभवम् । साऽपश्यल्ललिताङ्गाख्यं, नरं तुरगगामिनम् ॥ ७६१ ।। शिरपरिसरप्रेसन्मायूरातपवारणम् । हरिणाक्षीमनोरलहरणैकमलिम्लुचम्
॥ ७६२॥ किञ्च श्रीचन्दनस्यन्दजनिताङ्गविलेपनम् । स्मरं रचितसन्नाहमिव लोकत्रयीजये ॥७६३ ॥ मानिनीमानभङ्गाय, शुभचीरापदेशतः । पर्वगर्वितशीतांशुस्फीतांशुपरिवारितम् . ॥ ७६४ ॥ - स्कन्धदेशसमारूढप्रौढधम्मिल्लकैतवात् । मूर्तशृङ्गारभारस्य, नित्यं वाहीकतां गतम् ॥ ७६५ ॥
॥ पञ्चभिः कुलकम् ॥ .. दत्तदृष्टिमथैतस्मिन् , स्वस्य द्वैराज्यकारिणि । पञ्चेषुः पञ्चभिर्बाणैस्ता जघान घनस्तनीम् ॥७६६ ।। तामसौ कामसौन्दर्यजयशाली व्यलोकयत् । ललिताङ्गोऽपि तत्कालं, कौतुकोत्तानलोचनः ॥ ७६७ ॥ कामस्य तां वशीकारमन्त्रसिद्धिमिवाङ्गिनीम् । वीक्ष्योन्मुखः कृतस्तम्भ, इति चिन्तितवानयम् ॥ ७६८ ॥ मुखे वसति मन्येऽस्याः, स्वयं मदनभूपतिः । अन्यथा कथमत्रैव, स्फुरत्यविरतं रतिः . ॥७६९ ॥ विष-पीयूषयोरेषा, किमुपादानकारणम् ? । अस्याः कटाक्षा येनैते, सम्मोह-सुखयोः क्षमाः ॥ ७७० ॥ अस्याः काममभूत् कामः, स्वयं वेधा मृगीदृशः । क पुराणमुनिस्त्वेतन्निर्मातुं रूपमीश्वरः ॥ ७७१ ॥ शिरो विधुम्वन् कामे नितस्तत इव क्षिपन् । विचिन्त्येत्यचल गेहं, प्रति स श्रेष्ठिनन्दनः ॥ ७७२ ।। तस्मिन् दृष्टिपथातीते, सा महीपतिवल्लभा । अभूत् कामग्रनस्ता, योगिनीवैकमानसा - ॥ ७७३ ॥
१ हेतुर्विशे खता. ॥ २ वाहेक खंता० ॥ ३ कुतुकोत्ताललोचनः खता० पाता• ॥ . .