________________
सर्गः ]
धर्माभ्युदयमहाकाव्यम् |
९१
अथ मन्मथवीरस्य, मूर्तयैव जयश्रिया । जयश्रिया प्रभुः प्रोचे, शौचेनाञ्चितमानसः ॥ ७२० ॥ इत्थं मोहयतो नाथ !, नागश्रीवत् तवानृतैः । नागः श्रीमन् ! किमत्युग्रं, मानसं साधु बाधते ? ॥ ७२१ ॥
नागश्याख्यानकम्
नगरे नगरे कारेकारप्राकारचारुणि । रमणीयाभिधे राजा, जज्ञे किल कथाप्रियः अचीकथत् कथाः पौरान्, वारंवारेण सोऽन्वहम् | स च कस्यचिदन्येद्युर्वारकोऽभूद् द्विजन्मनः
॥ ७२३ ॥
दुष्कर्मजन्मनां मौर्य - दारिद्र्य व्यसना-ऽऽपदाम् । क्रमागत इवाऽऽवासः, स द्विजोऽचिन्तयत् तदा ॥ ७२४ ॥ रसना रसनायैव, मम घिग्! वेधसा कृता । आयसीव कुशी स्तब्धा, स्वनामग्रहणेऽपि या ॥ ७२५ ॥ ब्रुवे यदि न जानेऽहमिति तद् दुष्टभूपतिः । प्रवेशयति कारायां, दुर्ग्राहग्रहिलो हि माम् ॥ ७२६ ॥ चिन्ताहेतुं दुहित्रास, कुमार्या भाषितोऽब्रवीत् । साsप्यूचे तात ! मा कार्षीश्विन्तासन्तापितं मनः
॥ ७२७ ॥
वारे तव मया तात !, कथनीया कथानिका । इत्युक्त्वा सा शुचिर्वेषं, वासोभिर्विशदैर्व्यधात् ॥ ७२८ ॥ गत्वा नृपान्तिकं दत्त्वा जयेत्याशिषमाह सा । कथां शृणु यदि श्रीमन् !, कथाकौतुहली भवान् ॥ ७२९ ॥ दक्षो निःक्षोभतां वीक्ष्य, तादृक्षां क्षितिवल्लभः । मेने तद्वचनस्यैव, कथातः कौतुकं महत् ॥ ७३० ॥ साऽप्याचख्यौ पुरेऽत्रैव, नागशर्माऽस्ति माणवः । सोमश्रियामभूत् पत्न्यां, नागश्रीस्तस्य नन्दनी
॥ ७३१ ॥
॥ ७३७ ॥
कस्मैचिद् द्विजचट्टाय, दत्त्वा तां पितरौ स्वयम् । कार्येणौद्वाहिकेनैव, जग्मतुर्नगरान्तरम् ॥ ७३२ ॥ एकाकिन्यां गृहे तस्यां, स चट्टः सायमागमत् । तया श्रियोऽनुसारेण, चक्रे भोज्यादिरौचिती ॥ ७३३ ॥ सतूलीकं च पल्यङ्क, निजालयमहाधनम् । शयनायार्पयित्वाऽस्मै, चिन्तयामासुषीति सा ॥ ७३४ ॥ महीमहीनामहिभिर्जानेऽस्ति च न मञ्चकः । शयनं तत् व में भूमौ वर्यं पर्यङ्कवर्जितम् ? ॥ ७३५ ॥ शये पर्यङ्कपर्यन्तेऽत्रैव तावन्निशामिमाम् । कोऽपि नो पश्यति ध्वान्तैर्यदन्धङ्करणौषधैः ॥ ७३६ ॥ इति सुष्वाप सा तत्र, निर्विकारैव बालिका । तदङ्गसङ्गे शृङ्गारसङ्कटे स द्विजोऽपतत् लज्जा-क्षोभादिसंरुद्धमनःशूलाकुलीकृतैः । प्राणैः स तत्यजे चट्टो, वचनीयभयादिव ।। ७३८ ॥ अचिन्तयत् ततः साऽपि, पापिन्या विगसौ मम । एकत्र स्वापपापगुरिहापि सफलोऽभवत् ॥ ७३९ ॥ विभावरी विभात्येषा, यावत् तावदमुं द्विजम् । निक्षिपामि क्षितेरन्तर्यथा जानाति कोऽपि न ॥ ७४० ॥ इत्यसौ खण्डशोऽकार्षीत्, तूर्णं तस्य कलेवरम् । न्यधान्निधानवद् गर्तै, खनित्वा च स्वयं रयात् ॥ ७४१ ॥ गर्त ततस्तमापूर्य, लिस्वाऽसौ गोमयद्रवैः । पुष्पैर्गन्धैश्च धूपैश्च, वासयामास तां रसां ॥ ७४२ ॥ पितरौ चागतौ तस्या, गृहीत्वौद्वाहिकं विधिम् । अतीतस्तु कथाकालः, श्रीमन्नुत्सुरतोऽमुना ॥ ७४३ ॥ कथं द्रक्ष्याम्यहं तामित्युक्ते राज्ञा जगाद सा । स्वामिन्नहं सा संसारनाटिकानटने नटी ॥ ७४४ ॥ • कुमारि । तदिदं सत्यं, यदत्र कथितं त्वया ? । पृष्टेति सा पुनर्वाचमुवाच नृपतिं प्रति
।। ७४५ ।।
१ रकरिया संता० ॥ २ शुचिं चेषं, संता० ॥ ३ 'मासिवानिति संता० पाना० ॥
॥ ७२२ ॥