________________
'॥७०२॥
सङ्घपतिचरितापरनामकं .
__ [.अष्टमः पुरोधाः पर्वमित्रस्य, ततो,धाम जगाम सः । विकस्वरमुखं शैलनिकुञ्जमिव कुञ्जरः । ॥ ६९० ॥ अभ्युत्थानमथाऽऽधत्त, तस्यायं सम्मदी सुहृत् । आयातायात मदहमद्य पूतमिति ब्रुवन् ॥ ६९१ ।। पुरोहितोऽथ पर्य), तन्निर्दिष्टे निविष्टवान् । पुरःस्थं तं प्रति प्राह, प्रौढप्रीतिधुरन्धरः ॥६९२ ॥ क्रुद्धः कृतान्तरूपोऽयं, भूपो मां प्रति सम्प्रति । यदि नश्यामि नेदानी, तन्मां निर्दलयत्ययम् ॥ ६९३ ।। तदशेषं विहाय त्वं, सहायत्वं मम व्रज । गमिष्यामि विदेशेऽपि, प्राणत्राणपरोऽधुना ॥ ६९४ ॥ निशम्येदं तदा पर्वमित्रेणोक्तं त्रुटन्मुदा । यदि ते मम देहेन, गेहेन विभवेन च ॥६९५ ॥ . भवेदत्र परित्राणं, ददामि तदिदं मुदा । परं राजविरुद्धेऽर्थे, किं कुर्वेऽहं कुटुम्बवान् । ॥ ६९६ ॥
. .
.युग्मम् ॥ . . ततः सत्यतया मित्रं, यदि त्वमसि तत् प्रभो! । कथमप्यन्यथाकारमितो देशान्तरं कुरु ॥ ६९७ ॥ अन्यथा मद्गृहे स्वामिन् !, यदि त्वामागतं नृपः । प्रातस्यिति तद् यन्त्रे, मत्कुलं पीलयिष्यति ॥ ६९८ ॥ ' इत्युक्ते तेन तद् गच्छन् , नरेश्वरपुरोहितः । अन्ववर्ति स्वयं किञ्चिद्, दाक्षिण्यादा गृहाङ्गणम् ॥ ६९९ ॥ तद्गृहानिःसृतो गच्छन्नचिन्तयदयं स्वयम् । अहो ! मे मन्दभाग्यस्य, न किञ्चित् वाणकारणम् ॥ ७०० ॥ तावेवैतौ स एवाह, जातौ किमधुनेदृशौ ? । आः! ज्ञातमथवा नास्ति, प्रसादो जंगतीभुजः ॥ ७०१॥ ' ' न मे कुत्रापि कोऽप्यस्ति, किमभ्रात् पतितोऽस्म्यहम् । .
___ आसीन्मम ययोरास्था, तयोश्चर्येयमीहशी अहो! मे निर्विवेकत्वं, यन्नीतौ मित्रतामिमौ । यो मयि क्षीणदाक्षिण्यांवित्थं दुर्व्यसनातुरे ॥ ७०३ ॥ तृतीयस्यापि पश्यामि, सुहृदः सौहृदंक्रमम् । पश्चान्नहि मनो येन, क्षिणोति तदवीक्षणम् ॥ ७०४ ॥ इति निश्चित्य चित्तेन, तदगारमगादसौ । सच्चक्रशक्रः सच्चक्रे, सोऽप्यमुं गृहमागतम् ॥ ७०५ ॥ अब्रवीच कथं दुःस्था, तवावस्थेयमीदृशी ? । मन्दमन्दमिदानी च, किमागमनकारणम् । ॥ ७०६ ॥ अास्य कथयामास, विप्रो वृत्तान्तमात्मनः । मित्रद्वयविमुक्तस्य, परित्राणार्थितां'च'ताम् ॥ ७०७ ॥ परं पुरा मया किश्चिन्न तवोपकृतं तथा । इत्यात्मनश्च न्यूनत्वं, मन्दागमनकारणम् । . ॥ ७०८ ॥ सोऽप्यवोचत मित्राहं, समीहे नहि किञ्चन । सद्भूतभक्तिग्राह्योऽस्मि, तत्राभून्यूनता न ते ॥ ७०९ ॥ तद्भद्र! मास्म कार्षीस्त्वं, शङ्कातकातुरं मनः। परित्रातरि मित्रेऽस्मिन् , कुतस्त्यं भूभुजो भयम् ॥ ७१०॥ इत्थं वाक्सुधया दत्त्वा, स्वस्ति सौवस्तिकें प्रति । स गुणी प्रगुणीचक्रे, रथं जवनवाजिनम् ॥ ७११ ॥ दोस्तम्भे बिभ्रता तेन, मित्रेणासदृशं बलम् । शम्बलं च रथे तस्मिन्नारोप्यत पुरोहितः ॥ ७१२ ॥ राज्यान्तरमथो नीत्वा, समुपस्थाय पार्थिवम् । तेनासौ लम्भितः कीर्तेरास्पदं सुखसम्पँदाम् ॥ ७१३ ॥ त्रयाणामपि मित्राणां, स स्वभाव विभावयन् । प्रणाममित्रमंद्राक्षीत् , प्राणेभ्योऽप्यतिवल्लभम् ।। ७१४ ॥ '' दृष्टान्तोपनयश्चाय, योऽत्र भूपः प्रकीर्तितः । स कर्मपरिणामोऽस्य, सोऽयं जीवः पुरोहितः ॥ ७१५॥ सहजं मित्रमेतस्य, शरीरं परिभाव्यताम् । तत् कर्मनृपतेः कोपे, जीवेन सह न ब्रजेत् ॥७१६ ।। ज्ञातिप्रभृतयः सर्वे, पर्वमित्रस्य सन्निभाः। श्मशानस्थानपर्यन्तमनुयान्तीह देहिनम् ॥ ७१७ ॥. प्रणाममित्रतुल्यस्तु, धर्मोऽयमवगम्यताम् । जन्मान्तरेऽपि यो जीवं, गच्छन्तमनुगच्छति ॥ ७१८ ॥ जीवस्य यः परत्रापि, श्रियं यच्छति वाग्छिताम् । ज्ञाति-देहौ विहांयाहं, तत् तमाराडुमुद्यतः ॥ ७१९ ॥
१ भूपः सम्प्रति मां प्रति खता० ॥ २ प्रतिज्ञास्यति खता० ॥ ३ म्पदः खता० ॥