________________
समः] . धर्माभ्युदयमहाकाव्यम् । भूरिशेवालजालेन, तत्र च्छन्नमुखाम्भसि। कूपेऽन्तः कोटिशोऽभूवन् , जीवाः क्षीबा जलोद्भवाः ॥ ६६५ ॥ कदाचिद् वातसञ्जातशैवलच्छिद्रवर्मना । कूर्मः कूपगतः कश्चिदिन्दुं शारदमैक्षत ॥६६६ ॥ स्वकीयजन्मसाफल्यश्रियो मुखमिवामलम् । विलोक्य कूर्मस्तं पर्वशर्वरीशममोदत ॥६६७ ॥ आलोकयतु मे लोकः, सर्वस्तदिदमद्भुतम् । इति वात्सल्यतोऽगच्छत् , कच्छपः पयसस्तलम् ॥ ६६८ ॥ कूर्मः समानयद् यावत् , कुलं तद्दर्शनाकुलम् । तावत् तच्छिद्रमाच्छादि, पुनः सेवालजालकैः ।। ६६९ ॥ आम प्रामं जले चक्षुश्विक्षेपोर्द्ध स कच्छपः । शेवालजटिले तत्र, न तु पूर्णेन्दुमैक्षत ॥६७० ।। तदेनं प्राप्य सूरीन्दं, कूर्मवन्न त्यजाम्यहम् । कुतोऽस्य दर्शनं भूयो, मोहच्छन्ने भवावटे? ॥ ६७१ ।। अथो कनकवत्याहै, जितवाक्पतिमतिं पतिम् । प्रति प्रतिकृतिर्मा भूस्त्वं मासाहसेपक्षिणः ॥६७२ ॥ मासाहसपक्षिण आख्यानकम्
अटवी विद्यते काऽपि, व्योमव्यापिमहीधरा । शिविरस्थितिवन्मृत्योः, क्रूरसत्त्वौघभीषणा ॥ ६७३ ।। इन्धनार्थमथान्येद्युः, समं सार्थेन केनचित्। अटव्यां कोऽप्यगात् तस्यां, प्रान्ते कस्यापि भूभृतः ॥ ६७४ ।। सुप्तं मृगेन्द्रमद्राक्षीत् , स तत्रोत्कटदंष्ट्रकम् । प्रासभमविलग्नेन्दुकलं कालमिवाङ्गिनम् ॥६७५ ॥ कृतान्तस्येव सिंहस्य, मुखे तस्य विदारिते । दन्तानलग्नमांसांशलोमात् कोऽप्यविशत् खगः ।। ६७६ ॥ मा साहसमिदं कार्षीध्रुवन्निति मुहुर्मुहुः । मासाहसमिति ख्याति, तत् पाप स विहङ्गमः ॥ ६७७ ॥ वार्यमाणोऽपि तेनायं, पुरुषेण पुनः पुनः । मांसलोभाभिभूतत्वात् , तत्याज नहि साहसम् ।। ६७८ ।। सिंहेनाथ प्रबुद्धेन, प्रविशन् स मुखान्तरे । उच्चैश्चपेटापातेन, हतो हस्तिविघातिना ॥६७९ ।। भार्याभिर्वार्यमाणोऽपि, स इव त्वमपि स्फुटम् । पश्चात्तापास्पदं भावी, तदिदं मा कृथा वृथा ॥ ६८० ॥ .. अथ जम्बूर्वचः प्राह, शुचि पाहतकल्मषम् । अशर्मभाजनं सोमशर्मेव न भवाम्यहम् ॥ ६८१ ॥ सहजमित्रादिमित्रत्रितयसङ्गतं सोमशर्माख्यानकस् पत्तनं पाटलीपुत्रमित्यस्ति क्षितिमण्डनम् । शौर्यवज्रायुधस्तत्र, राजा वज्रायुधोऽभवत् ॥ ६८२ ॥ आसीत् पुरोहितस्तस्य, राज्यव्यापारभारभृत् । प्रख्यातः सोमशर्मेति, शर्मश्रीकेलिमन्दिरम् ।। ६८३ ।। एकः सखा सुखाधारः, सहमित्राभिधोऽन्वहम् । बद्धः प्रेमगुणेनेव, तेन सञ्चरते सह ॥६८४ ॥ पर्वण्येव सखाऽभ्येति, पर्वमित्राभिधोऽपरः । तं प्रति श्रीनिधिं प्रातः, सरोजमिव षट्पदः ॥ ६८५ ॥ प्रणाममित्रनामाऽन्यः, सखा तेन कदाचन । आपतन् प्रतिपञ्चन्द्र, इवाग्रे नम्यते ततः ॥ ६८६ ।। अन्वहं सहितस्तेन, सहमित्रेण स स्फुरन् । पुर्याः पुरोहितस्तस्याश्चक्षुःश्रियमशिश्रियत् ॥ ६८७ ॥ कथञ्चित् कुपितं भूपं, सम्यग् विज्ञाय सोऽन्यदा । सदनं सहमित्रस्य, ययौ निशि पुरोहितः॥ ६८८ ॥ तदनुद्घाटितद्वारं, बहिः स्थित्वा कृतारवः । स भृङ्ग इव तन्मित्रसद्म पद्ममिवामुचत् ॥ ६८९ ॥
१ °ह, मत्या हसितवाक्पतिम् । पतिं प्रति कृतिन् ! मा भूस्त्वं मासाहसपक्षिवत् ॥ ६७२॥ ' इतिरूपः पाठ खंता. पाता०॥ २ गर्जद्वनगजध्वाननृत्यत्केकिकुटुम्वका ॥ इति पाता० पाठः ॥ ३स- इति खता० पाता०॥
घ १२