________________
सप्तमः सर्गः।
इत्थं परोपकारस्य, विपुलाः फलसम्पदः । धनसार्थेशदृष्टान्तात्, तवामात्य! प्रदर्शिताः ॥ १ ॥ यदुत्तरोत्तरश्रीणां, सञ्जज्ञे भाजनं धनः । सर्वं परोपकारस्य, तदेतन्महिमाऽद्भुतम् ॥२॥
किञ्च विश्वोपकाराय, तद् युगादिजिनेन्दुना। तीर्थेषु धुर्यतां नीतः, सोऽपि शत्रुञ्जयो गिरिः॥ ३ ॥ मन्त्रिन्नेतस्य तीर्थस्य, प्रभावविभवोऽद्भुतः । यं वक्तुं सङ्कुचन्त्युच्चैर्वाचो वाचस्पतेरपि ॥ ४ ॥. मनोरथेऽपि सम्पन्ने, यत्र यात्रोत्सवं प्रति । सम्यक्त्वरत्नं निर्यलं, सद्योऽप्यासाद्यते जनैः ॥ ५ ॥ दृष्टेऽपि यत्र पुण्यश्रीः, स्यादवश्यं वशंवदाः । स्पृष्टे तु साऽपि निर्वाणपदवी न दवीयसी ॥ ६ ॥ कपर्दियक्षोत्पत्तिः
उपत्यकायां किञ्चास्य, पञ्चास्यध्वनितादपि । जयत्यभीरुकामीरं, पुरं पालित्तपालितम् ॥ ७ ॥ तत्राभवत् कपर्दीति, नाम ग्राममहत्तरः । चौर्य-क्रौर्य-मृषा-मद्य-छूतस्यूतमनोरथः ॥ ८ ॥ पूरिताऽप्यघसङ्घातैरनघा नाम विश्रुता । उद्दण्डा चण्डतेवाऽभूद्, देहिनी तस्य गेहिनी. ॥ ९ ॥ अन्येधुर्मद्यपानेन, ताम्रास्यो मद्यभाण्डभृत् । अपश्यन्मञ्चकासीनो, मुनिद्वन्द्वमुपागतम् ॥१०॥ नत्वा भ्रूभङ्गमात्रेण, तौ मुनी निजगाद सः । हहो । निवेद्यतामत्र, समागमनकारणम् ॥११॥ तक्रेण दना दुग्धेन, सर्पिषा वा प्रयोजनम् ? । यद्यस्ति किञ्चित् तद् ब्रूत, नूतनं दर्शनं हि वः ॥ १२ ॥ तमूचतुर्मुनी हो !, महत्चर ! निशम्यताम् । त्वदन्तिकमुपागन्तुमस्ति नौ कारणान्तरम् ॥१३ ॥ तीर्थयात्रार्थमायाताः, सन्त्यत्र गुरवोऽधुना । सोऽयं तोयदकालोऽपि, समं दैवादवातरत् ॥१४॥ गुरूणां युज्यते स्थातुं, चतुर्मासीमिहैवं यत् । उपाश्रयार्थमायातौ, ततश्चावां तवान्तिके ॥१५॥ सोऽप्यब्रवीन्निराबाधो, गृह्यतामयमाश्रमः । निजोपदेशलेशोऽपि, देयो नात्र स्थितैः पुनः ॥१६॥ तथेति प्रतिपद्याथ, तस्थुस्ते तत्र सूरयः । स्पर्धिष्णवः पयोवाह, स्वाध्यायामृतवृष्टिमिः ॥ १७ ॥ प्रतिश्रयान्तः संलीनैरदीनैर्मुनिपुङ्गवैः । अत्यवाह्यत बाह्या-ऽन्तःसंयतैः स तपात्ययः । ॥१८॥ मानसादिव तहामान्मुनिहंसा विहारिणः । ऊचुः कपर्दिनं प्राणिमर्दिनं तेऽनुयायिनम् ॥१९॥ अस्माकं स्थानदानेन, सर्वथोपकृतं त्वया । तवोपकारिणोऽप्युच्चैरस्माभिस्तु न किञ्चन ॥ २० ॥ तदद्य यद्यनुज्ञा ते, ज्ञातेयमनुरुध्यते । दत्त्वोपदेशं तत् किञ्चिन्निधुनीमोऽधमर्णताम् ॥२१॥ महत्तरोऽवदद् देयः, स्तोकोऽपि नियमो न मे । कथयन्तु पुनः किञ्चिदक्षरं परमाक्षरम् ॥ २२ ॥ ततस्ते गुरवस्तस्मै, स्मितनेत्राम्बुजन्मने । परमेष्ठिमयं मन्त्रं, मानसान्तय॑वीविशन् ॥२३॥ एनमन्वशिषश्चैते, त्वया मन्त्रोऽयमद्भुतः । शयने भोजने पाने, स्मर्तव्यः प्रथमं सदा ॥२४ ॥ महीयान् महिमा भद्र!, कतमोऽस्य प्रशस्यते । खल्पः कल्पद्रुमो यत्र, चिन्ता चिन्तामणौ वृथा ॥ २५ ॥ पञ्चाननवधूः पञ्चपरमेष्ठिनमस्कृतिः । स्थित्वा मनोवनोद्देशे, हन्ति दन्तिसमं तमः ॥२६ ॥
१ माक्षो मद्य खंता० ॥ २ च तत् खंता० ॥ ३ 'श्रयः। नि पाता० ॥