________________
सद्धपतिचरितापरनामक
[सप्तमः दुरितानि दुरन्तानि, तस्य नश्यन्ति दूरतः । यच्चित्ते यामिकी पञ्चपरमेष्ठिनमस्कृतिः ॥२७॥ अत्र शत्रुञ्जयाद्रौ च, श्रीयुगादिजिनेश्वरः । नमस्कार्योऽन्वहं सन्ध्यामवन्ध्यां तन्वता त्वया ॥२८॥ अयं हि विमलो नाम, गिरिधुरि' धराभृताम् । स्थानमासूत्रयद् यत्र, जगत्रयगुरुः स्वयम् ॥ २९ ॥ ख्यातिर्विमल इत्यस्य, विश्वान्तरमलव्ययात् । जयादान्तरशत्रूणां, श्रीशत्रुञ्जय इत्यपि ॥ ३० ॥ भावेन भजतामेतं, मुक्तिः साऽपि स्वयंवरा । लक्ष्मीरिव भवेन्न्यायवर्तनीवर्तिनां नृणाम् ॥३१॥ यदस्मिन् पुण्डरीकेण, धुर्येण गणधारिणाम् । लेभे मुक्तिर्मुनीन्द्राणां, पञ्चभिः कोटिभिः सह ॥ ३२ ॥ द्रविड़ा वालिखिल्याश्च, नरेशा दश कोट्यः । सहैव सिद्धिसौधारमारोहन मोहनिर्जयात् ॥ ३३ ॥ ख्यातनामा नमिः कोटिद्वयेन विनमिश्च सः । वालिर्दाशरथी राम-भरतौ च शमे रतौ ॥ ३४ ॥ थावच्चानन्दनः सोऽपि, ध्वस्तशोकः शुकोऽपि च । मुनीनां द्विसहस्रेण, पञ्चशत्या तु शैलेकः॥ ३५ ॥ पाण्डवाः किश्च पञ्चापि, जनन्या सह धन्यया। प्रद्युम्नादिकुमाराणां, सार्द्धास्तिस्रश्च कोट्यः ॥ ३६॥
॥ पञ्चभिः कुलकम् ॥ . नारदः पारदस्वच्छसच्चरित्रपवित्रधीः । अस्मिन्नवाप्तवान् मुक्तिमतिमुक्तमुनेगिरा ॥३७ ॥ तीर्थाधिपतिभिः सर्वै रेकं श्रीनेमिनं विना । अत्र पावित्र्यमासूत्रि, पावनैः पादपांशुभिः ॥ ३८ ॥ तिर्यञ्चोऽपि हि धन्यास्ते, येऽत्र संजज्ञिरे गिरौ । मन्ये धन्यतमं त्वां तु, नित्योपासनवासनम् ॥ ३९ ॥ शिक्षाभङ्गीमिमामङ्गीकार्य तं सूरयो ययुः । शिक्षाऽपि क्रियया मेजे, कपर्दिनमहर्दिनम् ॥१०॥ निरस्तः सोऽन्यदा क्रोधचण्डया रण्डया तया । बहिर्ग्रहाद् विनिर्यातः, शत्रुञ्जयतले ययौ ॥ ११ ॥ श्रमाद् विश्रामकामोऽथ, वटं विटपिनं श्रितः । आसन्नभूतले सद्यो, मद्यभाण्डं मुमोच सः ॥४२॥ क्षणमात्रेण विश्रान्तः, स्मृतपञ्चनमस्कृतिः । पातुकामः सुरां पात्रे, विषबिन्दुं ददर्श सः ॥ १३ ॥ कुतोऽयमिति तेनाथ, दूरोदश्चितचक्षुषा । दृष्टो गृध्रः फणिग्रासव्यग्रो न्यग्रोधपादपे ॥ १४ ॥ मदिराक्षीमिव त्यक्त्वा, मदिरामप्ययं ततः । आरुरोह गलन्मोहः, शत्रुञ्जयगिरेः शिरः ॥१५॥ तन्न नेत्रसुधावृष्टी, दृष्टे भुवनभर्तरि । पराभवभवस्तस्य, तापः प्रापत् तदा शमम् ॥१६॥ ततः कृन्दलितानन्दः, प्रणम्य परमेश्वरम् । स पश्यन्नात्मनो ग्राममुत्तरं शिखरं ययौ । ॥ ४७ ।। तत्र पश्यन् प्रभोश्चैत्यं, स्मन् पञ्चनमस्कृतिम् । मुक्त्वा प्रचारमाहारपरिहारं चकार सः ॥४८॥ ततस्तीर्थप्रभावेन, भावेन च शुभेन सः । यक्षतामक्षतां प्राप, सप्रभावां भवान्तरे ॥१९॥ ततः सोऽवधिना बुद्धवा, कपर्दी वृत्तमात्मनः । परित्यज्यान्यकार्याणि, वेगादिह समागमत् ॥५०॥ सपयित्वाऽर्चयित्वा च, स्तुत्वा च भुवनप्रभुम् । ततो विज्ञः कृतज्ञोऽसौ, जगाम गुरुसन्निधौ ।। ५१ ॥ गुरून् सोऽथ नमस्कृत्य, दिव्यरूपधरः पुरः । ज्ञापयित्वा स्ववृत्तान्तमुवाच रचिताञ्जलिः ॥ ५२ ।। ममैतास्तात ! यक्षत्वसुलभाः सुखसम्पदः । तवोपदेशकल्पद्रोरुत्फुल्लत्पल्लवश्रियः ॥५३ ॥ प्रभवोऽन्येऽपि दृष्टेभ्यः, कष्टेभ्यस्त्रातुमातुरम् । दृष्टादृष्टं पुनः कष्टं, पेष्टुमीष्टे परं गुरुः ॥५४॥ वस्तुनोऽन्यस्य दत्तस्य, फलं क्षयि मुहुर्मुहुः । गुरूपदेशस्य पुनः, फलं गुरु पुरः पुरः ॥ ५५ ॥ तदादेशं प्रयच्छन्तु, गुरवः करवाणि किम् ? । कथञ्चित् तनुतामेति, मम येनाधमर्णता । ॥ ५६ ॥.
रि महीभृ खंता० पाता० ॥ २ शेलका वता० ॥ ३ कलापकम्' वैता० पाता० ॥ ४ न्यकर्माणि खता० ।। , , , ,
, ,