________________
६०
सज्जपतिचरितापरनामकं
. [षष्ठः सर्गः ख्यापयित्वा बलीयस्त्वं, व्यवहारनयस्य सः । शक्रेणामिदधे दीक्षावेषग्रहणहेतवे केशसम्भारमुत्पाट्य, मुष्टिभिः पञ्चभिर्नृपः । दत्तं देवतयाऽशेषं, मुनिवेषं तदाऽऽददे ॥ ८४ ॥ सममेव महीशानां, सहस्रैर्दशभिस्तदा । साग्रहैर्जगृहे दीक्षादक्षैः स्वाम्यनुवर्तने तदानीं केवलज्ञानमहिमानं महामनाः । व्यधत्त तस्य नाभेयप्रभोरिव ऋभुप्रभुः भरतोऽपि ततस्तातवर्तनीमनुवर्तयन् । असिञ्चद् देशनासारसुधाभिरवनीवनीम्। अतिक्रम्य ततः पूर्वलक्षं दीक्षादिनादसौ । आरोहन्मुषिताशेषकष्टमष्टापदाचलम् ॥८८॥
कृत्वा मासोपवासक्षपणमकृपणध्यानशुद्धान्तरात्मा,
शैलेशी प्राप्य योगव्यतिकरहरणोपात्तसौस्थ्यामवस्थाम् । तन्नायं त्रातपाताकुलसकलजगज्जन्तुजातः प्रयातः,
सिद्धिं सौधर्मनाथप्रथितपृथुमहःश्लाघ्यनिर्वाणलक्ष्मीः ॥८९ ॥ ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनान्नि श्रीसङ्घपतिचरिते लक्ष्म्यक महाकाव्ये भरतनिर्वाणवर्णनो
नाम षष्ठः सर्गः॥ एतेऽन्योन्यविरोधिनस्त्वयि गुणाः श्रीवस्तुपाल ! क्षमा
शक्ति-प्रातिभ-वैभवप्रभृतयः सौस्थ्येन तस्थुः कथम् ।। . नाश्चर्यं यदि वा दिवानिशमसौ हृत्पङ्कजान्तस्तव,
स्वैरस्मेरविरोधवारिधिमदागस्त्यो यदास्ते जिनः ॥ १ ॥ ।। ग्रन्थानम् ९२ ॥ उभयम् १५९० ॥
१स्तावद्वर्तनीमनुवर्तनीम् । असि खंता० ॥ २°म् ९० । उभयं १५९० खंता म् ९६ । उभयं १५८१ पाता० ॥