________________
सर्गः1 .
धर्माभ्युदयमहाकाव्यम् । जलैर्जितामृतैः स्वामिदेशनाबन्धबन्धुभिः । सह मित्रसमूहेन, चक्रे केलिं कदाऽपि सः ॥५४॥ आदायाऽऽदाय पद्मानि, तत्र मूर्धनि धारयन् । नृपः प्रमोदमामोति, नाभेयातिप्रमादिव ॥५५॥ कदाऽप्युपवनोत्सङ्गे, धत्ते मुदमसौ लसन् । पुष्पाणि वासिताशानि, पश्यन् नाभेयकीर्तिवत् ॥ ५६ ॥ वहन् स कौसुमी मालां, हृदि तत्र प्रमोदते । प्रभोाख्याक्षणोन्मीलद्दशनद्युतिकौतुकात् ॥ ५७ ॥ भूनेता नित्यमित्यादिकेलिकल्लोलकौतुकी । मुदा निर्गमयामास, दिनानि घटिकार्द्धवत् ॥५८ ॥ सांसारिकसुखाम्भोधिममो भरतभूपतिः । विभोर्मोक्षदिनात् पञ्च, पूर्वलक्षाण्यवाहयत् ॥५९ ॥ भरतचक्रवर्तिकेवलज्ञान-निर्वाणे अन्येयुः सात्रनिर्णिक्तगात्रो धात्रीभृतांवरः । अन्तरन्तःपुरावासं, मूरिभूषणभूषितः ॥६० ॥ रत्नादर्शगृहं प्राप, वरस्त्रीपरिवारितः । भरतेशो नभोदेशं, विभाभिरिव भास्करः ॥६१ ॥ युग्मम् ॥ शुशुभे स स्थितस्तत्र, दर्पणप्रतिबिम्बितः । विजितेन स्मरेणेव, सेवितुं कृतसन्निधिः ॥६२ ।। तदा विलोकमानस्य, नृपस्य मणिदर्पणम् । अभवद् द्विगुणा मूर्तिः, कान्तिः कोटिगुणा पुनः ।। ६३ ।। न्यस्तं मोहेन हिजीरमिव तस्य महीशितुः । तदा लीलालुलत्पाणेनिजगालामुलीयकम् ॥ ६४ ॥ विना तेनाङ्गुलीयेन, दृष्टा तेनाङ्गुली ततः । निःश्रीका निष्पताकेव, मणिकेतनयष्टिका ॥ ६५ ॥ सौभाग्यं भूषणैरेव, बिभर्ति वपुरङ्गिनाम् । निश्चेतुमिति मोक्तुं स, प्रारेभे भूषणावलीम् . ॥ ६६ ॥ विमुच्य मुकुटं हेममयं मौलिं व्यलोकयत् । श्रिया विरहितं चैत्यमिव निष्कलशं नृपः ॥६७ ॥ मुक्त मुक्तावलीनद्धे, कुण्डलद्वितयेऽथ सः । शताङ्गमिव निश्चक्रं, स्वास्यं निःश्रीकमैक्षत ॥ ६८॥ व्यलोकयत् परित्यक्तहारां स हृदयानीम् । संशुष्कनिर्झरोदारां, स्वर्णाचलतटीमिव ॥६९ ॥ ग्रीवामुत्तारितस्मेरमणिप्रैवेयकामसौ । अतारापरिधिं मेरुमेखलामिव चैक्षत
॥ ७० ॥ स भुजौ च्युतलक्ष्मीको, निरैक्षत निरङ्गदौ । प्रतिमानविनिर्मुक्तौ, सुरेभदशनाविव ॥ ७१ ॥ हस्तावपास्तमाणिक्यकङ्कणौ पश्यति स्म सः । तोरणस्तम्भवद् वातहृतवन्दनमालिको ॥ ७२ ॥ शेषा अप्यङ्गुलीमुक्ताङ्गुलीयाः सस्ततेजसः । शाखा इव परिभ्रष्टपल्लवाः स व्यलोकयत् ॥ ७३ ॥ एवं विमुक्तालङ्कारं, सोऽपश्यद् वपुरप्रभम् । शुष्कं सर इव भ्रष्टहंस-राजीव-कैरवम् ॥७४ ॥ अचिन्तयच्च ही ! देहो, भूषणैरेव भासते। पङ्कोत्कर्षाकुलो वर्षाकालः सस्योद्गमैरिव ॥७५ ॥ शरीरं मलमञ्जूषा, बहिर्दुगन्धिभीरुभिः । मूढैः कर्पूर-कस्तूरी-चन्दनैरधिवास्यते मलोत्पन्नान्मलैः पूर्णादतोऽङ्गाल्लीनमन्तरा । धौतं वोधिजलैः ज्ञानरत्नमाद्रियते बुधैः ॥७७ स्वकीयान् बान्धवानेव, मन्ये धन्यतमानिमान् । यैरिदं राज्यमुत्सृज्य, लेभे लोकोत्तरं पदम् ॥ ७८ ॥ अहं तु विषयातङ्कपकनिःशूकशूकरः । गणयामि न नामाहमात्मानं मानुषेष्वपि ॥७९॥ चिन्तयन्नित्ययं धीमानपूर्वकरणक्रमात् । भावनां भवनाशाय, भावयामास भूविभुः ॥८० ॥ अथोच्चैः सिद्धिसौघाग्रसङ्गजाग्रन्मनोरथः । क्षितीशः क्षपकश्रेणीनिःश्रेणीमारुरोह सः ॥ ८१ ॥ मुनिस्तदानीमानीतकेवलश्रीकरग्रहः । उत्सवोत्सुकचित्तेन, सुरेन्द्रेणाभ्यगम्यत
॥ ८२ ॥ .१ "स, वासरान् घटि खंता० ॥ २ माननि खता० ॥ ३ प्रियाभिरमितो वृतः खता० ॥ ४ वनिम् खता० ॥